श्रीनटेशस्तवः

Click Settings to choose another script or language.
ह्रीमत्या शिवया विराण्मयमजं हृत्पङ्कजस्थं सदाह्रीणानांशिवकीर्तने हितकरं हेलाहृदा मानिनाम् ।ह्रीबेरादिसुगन्धवस्तुरुचिरं हेमाद्रिबाणासनंहीङ्कारादिकपादपीठममलं हृद्यं नटेशं भजे ॥ १ ॥
श्रीमज्ज्ञानसभान्तरे प्रविलसच्छ्रीपञ्चवर्णाकृतिंश्रीवाणीविनुतापदाननिचयं श्रीवल्लभेनार्चितम् ।श्रीविद्यामनुमोदिनं श्रितजनश्रीदायकं श्रीधरंश्रीचक्रान्तरवासिनं शिवमहं श्रीमन्नटेशं भजे ॥ २ ॥
नव्याम्भोजमुखं नमज्जननिधिं नारायणेनार्चितंनाकौकोनगरीनटीलसितकं नागादिनालङ्कृतम् ।नानारूपकनर्तनादिचतुरं नालीकजान्वेषितंनादात्मानमहं नगेन्द्रतनयानाथं नटेशं भजे ॥ ३ ॥
मध्यस्थं मधुवैरिमार्गितपदं मद्वंशनाथं प्रभुंमारातीतमतीव मञ्जुवपुषं मन्दारगौरप्रभम् ।मायातीतमशेषमङ्गलनिधिं मद्भावनाभावितंमध्येव्योमसभागुहान्तमखिलाकाशं नटेशं भजे ॥ ४ ॥
शिष्टः पूजितपादुकं शिवकरं शीतांशुरेखाधरंशिल्पं भक्तजनावने शिथिलिताघौघं शिवायाः प्रियम् ।शिक्षारक्षणमम्बुजासनशिरस्संहारशीलप्रभुंशीतापाङ्गविलोचनं शिवमहं श्रीमन्नटेशं भजे ॥ ५ ॥
वाणीवल्लभवन्द्यवैभवयुतं वन्दारुचिन्तामणिंवाताशाधिपभूषणं परकृपावारांनिधिं योगिनाम् ।वाञ्छापूर्तिकरं वलारिविनुतं वाहीकृताम्नायकंवामङ्गात्तवराङ्गनंमम हृदावासं नटेशं भजे ॥ ६ ॥
यक्षाधीशसखं यमप्रमथनं यामिन्यधीशासनंयज्ञध्वंसकरं यतीन्द्रविनुतं यज्ञक्रियादीश्वरम् ।याज्यं याजकरूपिणं यमधनैर्यत्नोपलभ्याङ्घ्रिकंवाजीभूतवृषं सदा हृदि ममायत्तं नटेशं भजे ॥ ७ ॥
मायाश्रीविलसच्चिदम्बरमहापञ्चाक्षरैरङ्कितान्लोकान् सप्त पठन्ति येऽनुदिवसं चिन्तामणीनामकान् ।तेषां भाग्यमनेकमायुरधिकान् विद्वद्वरान् सत्सुतान्सर्वाभीष्टमसौ ददाति सहसा श्रीमत्सभाधीश्वरः ॥ ८ ॥
॥ इति श्रीनटेशस्तवः सम्पूर्णः ॥