श्रीमातृभूतेश्वरस्तोत्रम्

Click Settings to choose another script or language.
प्रसन्नवक्त्रमेकदन्तमादिपूज्यमीश्वरंसुरासुरेन्द्रसेव्यमानपादपद्ममव्ययम् ।समस्तशोकनाशकारणं सुखप्रदं नृणांउमासुतं नमामि तं समस्तविघ्नशान्तिदम् ॥ १ ॥
अजायमानमप्यनेकधा सुजायमानमुं(?)पुराणमप्यहं युवानमादिकारणं शिवम् ।अपाणिपादमप्यनेकपादपाणिचक्षुषंनमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ २ ॥
अनन्तरूपनामधेयमप्यनामरूपकंकपालभिक्षमप्यशेषलोकसर्वकामदम् ।अनाथमप्यशेषलोकनाथमीशमच्युतंनमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ ३ ॥
अजीवमप्यनन्तजीवरक्षकं सुजीविनंमहान्तमप्यणुं हृदि स्थितं न दृश्यमीडितम् ।बहिःस्थितं नरामरैः स्वभक्तनेतृगोचरंनमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ ४ ॥
उमावचःप्रतिप्रभाषणाज्ञमप्यधीश्वरंसुवाग्मिनामपि प्रियं जितेन्द्रियोत्तमं रतौ ।अजय्यमप्युमामुदे सुमेषुणा विनिर्जितंनमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ ५ ॥
कुरङ्गलोचनाऽगजाविलासहर्षमानसंगजास्यशौरिबालकेलिदर्शनातिविस्मितम् ।सुनन्दिबाणभृङ्गिचण्डिरावणादिपूजितंनमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ ६ ॥
सुमृत्तिकाशिलादिषूधियामपीष्टदायकं(?)सुपुत्रनीलकण्ठनामधेयवक्तुरिष्टदम् ।मृगं हरेषुमाहरेति वक्तुराशु मुक्तिदंनमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ ७ ॥
समस्तलोकदग्धुकामकालकूटभक्षकंभिषग्वरं त्रिविष्टपस्य मातृभूतमीश्वरम् ।मृकण्डुसूनुरक्षणाय मृत्युदर्पभञ्जकंनमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ ८ ॥
अनाथगर्भिणीस्त्रियः शिशोः सुतस्य मे सदासुखप्रदं सुमातृवत् शरण्यमेव नान्यथा ।कृपारसार्द्रमानसेशमच्युतप्रियं शिवंनमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ ९ ॥
सुगन्धिकुन्तलाम्बिकासमेतमद्रिवासिनंसमीपवर्तिरङ्गनाथजम्बुकेश्वरप्रभुम् ।अनाथगर्भिणीवधूसुखप्रसूतिकारकंनमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ १० ॥
इयं समस्तकामदा नवप्रसूनमालिकानृणामशेषकर्मजन्यशोककक्षपावका ।सुदर्शनाख्यपण्डितेन भक्तियुक्तचेतसाविलिख्यते शिवप्रसादलेशला भवैभवात् ॥ ११ ॥
या कृपा गर्भिणीत्राणे या कृपा मुनिनन्दने ।मातृभूतेश्वर क्षिप्रं सा कृपा मयि दीयताम् ॥ १२ ॥ ·या कृपा मुनिसंत्राणे या कृपा कपिनायके ।या विभीषणरक्षायां सा कृपा मयि दीयताम् ॥ १३ ॥
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ ।आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥ १४ ॥
॥ इति श्रीमातृभूतेश्वरस्तोत्रं सम्पूर्णम् ॥