श्रीमलयराजस्तुतिः

Click Settings to choose another script or language.
यो न धियामधिगम्यस्तस्य कुतः सम्भवो गिरां वृत्तेः ।स्तौमि तथापि भवन्तं मनोरथो यात्यभूमिमपि ॥ १ ॥
यामि मनोवाक्कायैः शरणं करुणाकरं जगन्नाथ ।जन्मजरामरणार्णवतरणकरण्डं तवाङ्घ्रियुगम् ॥ २ ॥
सर्वत एव श्रुतिमान् सर्वगतश्चेति गीयसे सद्भिः ।अत इदमर्हसि भगवन् स्थाणो कृपणाद्वचः श्रोतुम् ॥ ३ ॥
शरणमसि संश्रयो ह्यसि गतिरसि नाथोऽसि सर्वभूतानाम् ।भूतेश तेन ते मयि विज्ञायातिक्षमा कार्या ॥ ४ ॥
येनाष्टधा विभज्य प्रजासु हितहेतुना तनुर्धत्ता ।कस्तादृशं न यायात्त्वामिह करुणाकरं शरणम् ॥ ५ ॥
प्रणतजनरक्षणेन क्षणमेकं कालकाल वामेन ।त्रिनयन समप्रदर्शिन् दासजनं चक्षुषा पश्य ॥ ६ ॥
पातालं दिवमथ वा गच्छामि पलाय्य यदि दिगन्तं वा ।तत्रापि त्राता मे मृत्योर्नान्यस्त्वयैव विना ॥ ७ ॥
कालव्याधो धावति भगवन्नासन्नमेव हन्तुं माम् ।क्रन्दामि त्वामीशं पाशच्छेदाय तेनार्तः ॥ ८ ॥
आसन्नमरणमशरणमुन्मार्गभ्रमणखिन्नमवसन्नम् ।त्रायस्व शिव समाश्रितमन्धमधस्तात्पतितं माम् ॥ ९ ॥
परिलुलितकमलदलगतजललवचलमेतदायुरपयाति ।त्वद्भक्तिश्च न सुलभा पुनरिति मत्वा प्रसीद विभो ॥ १० ॥
प्राणैर्वियोज्य जन्तुं त्यजति रिपुर्जगति पापशीलोऽपिमृतमपि न विमुञ्चति यस्त्रायस्व ततोऽरिषड्वर्गात् ॥ ११ ॥
गायन्तं च रुदन्तं शान्तं कृपणं हसन्तं च ।रक्ष विभो मामार्तं गृहीतमाशापिशाचिकया ॥ १२ ॥
भवमरुमार्गभ्रमणश्रान्तस्य शिव प्रसीद दीनस्य ।स्वयित्वन्मानसे प्रसन्ने शाम्यति तीव्रा हि मे तृष्णा ॥ १३ ॥
यस्मिन्निपतितमेव ग्रसते रागोरगो महाभोगः ।देहि विभो भवकूपे त्रियम्बकालम्बनं पततः ॥ १४ ॥
येनैकमेव सर्वं द्वैतेन त्वां महेश पश्यामि ।सद्दृष्टिप्रतिबन्धं छिन्धि ममाज्ञानतिमिरं तत् ॥ १५ ॥
भगवंस्त्रिभुवनभयकृत्कृतान्तकृष्णाहिदंष्ट्रया दष्टः ।तृष्णाभिधानया यस्त्वमेव तन्निर्विषीकुरुषे ॥ १६ ॥
मोहमहाव्याधिमिमं देव चिकित्सस्व दुश्चिकित्सं मे ।भिषजं भैषज्यं च त्वां हि महान्तः प्रशंसन्ति ॥ १७ ॥
तं देवनरकहुतवहबहुलज्वालाकलापसन्तापम् ।त्वद्दृष्टिर्वृष्टिरिव प्रशमयतु शिव प्रसीद विभो ॥ १८ ॥
देव महाकारुणिक प्रसीद करुणार्द्रया दृशा पश्य ।शाम्यति यया मनो मे दुःसहदुःखानलज्वलितम् ॥ १९ ॥
शिव शिव भगवन् भगवन् अन्धमनाथं च रक्ष रक्ष विभो ।तव पादपीठलग्नं हरति हठादेव मृत्युर्माम् ॥ २० ॥
अतिकृपणमार्तमशरणमाक्रन्दन्तं वशीकृतं पाशैः ।आक्रान्तमन्तकभटैर्मां शिव शरणागतं रक्ष ॥ २१ ॥
शरणागतानशरणान् मरणभयाभिद्रुतान् द्रुतं दयया ।रक्षाम्यहमिति मय्यपि कुरु प्रतिज्ञां विभो सफलाम् ॥ २२ ॥
परमात्मन् परमेश्वर वेत्थ ममान्तस्स्थमेव देव त्वम् ।यदि तव चरणाम्बुजयोः स्वप्नेऽप्यहमन्यथाचेताः ॥ २३ ॥
सर्वेश सर्वशक्ते सर्वग सर्वज्ञ शर्व सर्वात्मन् ।त्यक्तस्य देव भवता भविता नान्यो मम त्राता ॥ २४ ॥
कमपरमधुना याचे कञ्च क्रन्दामि मन्दपुण्योऽहम् ।कमशरणः शरणं वा व्रजामि देव त्वया त्यक्तः ॥ २५ ॥
दीनेषु दया कार्येत्यार्येषु कृता त्वयैव मर्यादा ।आर्य त्वं त्वय्येव हि दैन्यं मय्येव हि पर्याप्तम् ॥ २६ ॥
किं त्यजसि मामनाथं नाथ कथं ते दया न मयि दीने ।पापिनमपि शरणागतमशरणमुज्झन्ति न महान्तः ॥ २७ ॥
त्रातरि सर्वगते त्वयि शिवनामनि नाम परमकारुणिके ।देव दिशः कथमेताः संजातास्त्राणशून्या मे ॥ २८ ॥
उभयमसम्भाव्यमिदं सुखमिह दुःखं त्वदाश्रितेऽन्यत्र ।कः श्रद्दधाति तुहिनं दहने दाहं च शीतांशौ ॥ २९ ॥
क्रन्दन्तमेव देव त्वमपि यदीशान संश्रितं त्यजसि ।तदशरणं शरणागतवत्सलतां हन्त निहन्त्येव ॥ ३० ॥
अभ्यर्थितः प्रसीदसि भगवन्नित्यपि ममैष कुविकल्पः ।जगदर्थमर्थितस्त्वं कुर्वन् बहुधा तनुं केन ॥ ३१ ॥
सुचिरं मया न सेवितमिति शिव न त्रायसे न तद्घटते ।किं सद्य एव पीतं नामृतमजरामरं कुरुते ॥ ३२ ॥
परितुष्टे किल भगवन् स्वात्मनि तुष्टिं ददासि लोकानाम् ।तुष्टेऽपि त्वयि दुःखं न श्रुतपूर्वं कदाचिदपि ॥ ३३ ॥
त्वयि निखिलदुःखहन्तरि हृदयगते दुःखितुं न युक्तं मे ।उदिते भगवति भास्वति तिमिरमनष्टं क्व वादृष्टम् ॥ ३४ ॥
क्षणमपि यत्र महान्तो वसन्ति तत्रापदो विनिघ्नन्ति ।वससि सदा मम हृदये दुःखित्वं किमिदमाचर्यम् ॥ ३५ ॥
दारयति दारुणमिदं दुःखं दहतीव मे हृदयम् ।विफलीभवति बहुफलो यद्यत्सङ्कल्पकल्पतरुः ॥ ३६ ॥
यस्येच्छयैव गच्छति जगदखिलं सम्भवं च नाशं च ।तत्र त्वय्यपि शम्भो सति दुःखं हा हतोऽस्मि ततः ॥ ३७ ॥
तव चरणशरणगमनान्नो भग्ना नापदः सपदि यच्च ।आत्मा तेन ममायं भगवन्निन्द्यस्त्ववन्द्यश्च ॥ ३८ ॥
चिन्तामणिमपि लब्ध्वा कष्टमभव्यो दरिद्र एवास्मि ।शिवमपि शरणं गत्वा मरणभयाद्यन्न मुक्तोऽस्मि ॥ ३९ ॥
त्रिभुवनमप्युद्धर्तुं त्वद्भक्ताः शक्ततां गताः सर्वे ।अहमिह पुनरवसन्नः पापी स्वयमेव संसारे ॥ ४० ॥
व्यग्रः समग्रशक्ते दासजनानुग्रहः क्वासौ ।भवतो यतो न मां प्रति संप्रति करुणायते चेतः ॥ ४१ ॥
श्वेतहिताय कृतान्तं कृतवानसि भस्मसाद्यया सहसा ।सा तव भगवन् करुणा निष्करुणा मयि कथं जाता ॥ ४२ ॥
पापाः पापघ्नानां कृपणाः करुणार्द्रचेतसां सततम् ।तरुणाः करुणाक्षेत्रं भवादृशां मादृशा एव ॥ ४३ ॥
दीनं दयार्द्रहृदयास्त्रायन्ते भवादृशा उपेत्य विभो ।त्वं तु मयि याचमाने न त्राता चित्रमेतदहो ॥ ४४ ॥
नैषा कृपा कृपावन् परमेश विशेषवृत्तिता येयम् ।दीनेषु दयावन्तः सन्तः साम्येन वर्तन्ते ॥ ४५ ॥
तव दासभावमपुनर्दास्यायैवं वदन्ति यदि सन्तः ।लोभहतकस्य दास्यं तदिह ममाद्यापि नाथ कथम् ॥ ४६ ॥
अद्य वो वा मरणं त्राणं त्वत्तो न मेऽस्ति गतिरन्या ।भ्राम्यति ताम्यति त्रुट्यति मुह्यति शुष्यति च मम चेतः ॥ ४७ ॥
धरणितलेन कलेबरमेतन्मे काष्ठवद्यावत् ।तावत्प्रसीद सीदति न हि ते शरणागतो जगति ॥ ४८ ॥
आविशति विवशमेतच्चेतो यावन्न मोहपातालम् ।तावत्प्रसीद सीदति न हि ते शरणागतो जगति ॥ ४९ ॥
धनिनो धनेन धन्याः सेवन्ते त्वां गुणैश्च गुणिनोऽपि ।एतत्तु भक्तिमात्रं सर्वस्वं मे गृहाण विभो ॥ ५० ॥
पापात्मकोऽयमिति मयि विजुगुप्सां मा कृथा जगन्नाथ ।जगति न तदस्ति पापं हरति न यत्तेऽङ्घ्रिसंस्मरणम् ॥ ५१ ॥
हुतवहनिचयो हिमतां तुहिनं दहनत्वमेतु कदाचिदपि।न तु तव चरणस्मरणं मोघममोघस्मृतेर्भवति ॥ ५२ ॥
दिवमधिरोहतु धरणी तारानिकरोऽपि लुठतु भूमितले ।न तु तव चरणस्मरणं मोघममोघस्मृतेर्भवति ॥ ५३ ॥
मुखकमलमभिमुखं कुरु देहि वचो जलदनादघनघोषम् ।यत्त सदाभयदानं भीतेवोच्चैः समुच्चरसि ॥ ५४ ॥
विज्ञापयामि किं वा नाथ बहु त्वां कृतान्तभयभीतः ।नाज्ञानं ते किञ्चित् मद्भक्तेरात्मशक्तेश्च ॥ ५५ ॥
इति तरुणकरुणमुच्चैः कृपणस्याक्रन्दितं ममाकर्ण्य ।नाथ तथा कुरु कृपया कृपणेषु यथोचितं त्वत्तः ॥ ५६ ॥
जगति तव शक्तिरतुला सकलजगद्भस्मरा रयात्सपदि ।कामोऽपि लीलयैवं नयनानलशलभतां यातः ॥ ५७ ॥
कुलिशं कुसुमति दहनस्तुहिनति वारां निधिः स्थलति ।शत्रुर्मित्रति विषमप्यमृतति शिव शिवेति प्रलपतो भक्त्या ॥ ५८ ॥
आर्तमनाथमशरणं दुस्तरभवभङ्गसागरे मग्नम् ।उद्धर रक्ष विलोकय परिपालय मां जगन्नाथ ॥ ५९ ॥
यदिदमनुचितं दयालो नाथ मयाक्रन्दितं कृतान्तभयात् ।एतत् क्षमस्व भगवन्नार्ततया किमपि न क्रियते ॥ ६० ॥
स्वल्पाभोगा भोगा भङ्गी प्रियसङ्गमो गलत्यायुः ।चलमखिलमित्यवेक्ष्य व्रजति जनः शङ्करं शरणम् ॥ ६१ ॥
आर्तेन मलयनाम्ना विज्ञप्तस्त्वं मया जगन्नाथ ।शर्वः सर्वार्तिहरस्तेन स्यात्सर्वलोकानाम् ॥ ६२ ॥
शशभृदिव शीतलत्वे शिव देव शिवस्वभाव एव त्वम् ।अभ्यर्थ्यतां प्रयातः कष्टं मन्मन्दपुण्यतया ॥ ६३ ॥
या कुपितकृतान्तमुखत्रस्तानां जगति भवति गतिरेका ।तां भक्तवत्सल विभो नमामि शम्भो भवद्भक्तिम् ॥ ६४ ॥
त्वन्नाम यथा सुलभं भगवन् भूतेश मादृशस्यापि ।मच्चेतः प्रार्थयते त्वामेतां दुर्लभां भक्तिम् ॥ ६५ ॥
विद्या यौवनमायुः प्रियस्य सङ्गो विभूतिरारोग्यम् ।युगपदपि सुलभमेतन्न पुनरुदारा भवद्भक्तिः ॥ ६६ ॥
तेन त्वामेव विभो याचे तां दुर्लभां भवद्भक्तिम् ।विफला दातरि न त्वयि वाञ्छा वल्लीव कल्पतरौ ॥ ६७ ॥
जातस्य दिव्यभवने तिर्यग्योनौ मनुष्ययोनौ वा ।सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ ६८ ॥
षड्वर्गविपिनकृन्तनसन्निशितकुठारधारया सततम् ।सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ ६९ ॥
या परमज्ञानाङ्कुरसम्पद्धनविमलबहुलजलधारा ।सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ ७० ॥
शैवजननयनमणिनिष्यन्दनचन्द्रधारा या ।सा मे सदैव भूयात् त्वयि भक्तिरचञ्चला भगवन् ॥ ७१ ॥
इति रचयति स्म भगवत इन्दुकलाशेखरस्य मलयाख्यः ।भक्त्या भक्तिस्तोत्रं भवे भवे भक्तिरेवास्तु ॥ ७२ ॥
॥ इति श्रीमलयराजस्तुतिः सम्पूर्णा ॥