<?xml version='1.0' encoding='UTF-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
  <teiHeader>
    <fileDesc>
      <titleStmt>
        <title type="main">श्रीमलयराजस्तुतिः</title>
        <title type="sub">A machine-readable edition</title>
        <principal>Arun Prasad</principal>
        <respStmt>
          <persName>Arun Prasad</persName>
          <resp>Creation of machine-readable version.</resp>
        </respStmt>
      </titleStmt>
      <publicationStmt>
        <authority>Ambuda (https://ambuda.org)</authority>
        <availability>
          <p>Distributed by Ambuda under a Creative Commons CC0 1.0 Universal Licence (public domain)</p>
        </availability>
        <date>2026-05-09</date>
      </publicationStmt>
      <notesStmt>
        <note>This text has been created by direct export from Ambuda's proofing environment.</note>
      </notesStmt>
      <sourceDesc>
        <bibl>
          <title>स्तोत्रार्णवः</title>
          <editor>
            <name>V. Chandrasekaran, M.A., L.T.</name>
          </editor>
          <publisher>Government Oriental Manuscripts Library</publisher>
          <pubPlace>Madras</pubPlace>
          <date>1961</date>
        </bibl>
      </sourceDesc>
    </fileDesc>
    <encodingDesc>
      <projectDesc>
        <p>Ambuda is an online library of Sanskrit literature.</p>
      </projectDesc>
      <editorialDesc>
        <normalization>
          <p>Normalization of whitespace around dandas and other punctuation marks.</p>
        </normalization>
      </editorialDesc>
    </encodingDesc>
    <revisionDesc/>
  </teiHeader>
  <text xml:id="shrimalayarajastuti" xml:lang="sa">
    <body>
      <title n="title">१५. ॥ अथ श्रीमलयराजस्तुतिः ॥</title>
      <lg n="1">
        <l>यो न धियामधिगम्यस्तस्य कुतः सम्भवो गिरां वृत्तेः ।</l>
        <l>स्तौमि तथापि भवन्तं मनोरथो यात्यभूमिमपि ॥ १ ॥</l>
      </lg>
      <lg n="2">
        <l>यामि मनोवाक्कायैः शरणं करुणाकरं जगन्नाथ ।</l>
        <l>जन्मजरामरणार्णवतरणकरण्डं तवाङ्घ्रियुगम् ॥ २ ॥</l>
      </lg>
      <lg n="3">
        <l>सर्वत एव श्रुतिमान् सर्वगतश्चेति गीयसे सद्भिः ।</l>
        <l>अत इदमर्हसि भगवन् स्थाणो कृपणाद्वचः श्रोतुम् ॥ ३ ॥</l>
      </lg>
      <lg n="4">
        <l>शरणमसि संश्रयो ह्यसि गतिरसि नाथोऽसि सर्वभूतानाम् ।</l>
        <l>भूतेश तेन ते मयि विज्ञायातिक्षमा कार्या ॥ ४ ॥</l>
      </lg>
      <lg n="5">
        <l>येनाष्टधा विभज्य प्रजासु हितहेतुना तनुर्धत्ता ।</l>
        <l>कस्तादृशं न यायात्त्वामिह करुणाकरं शरणम् ॥ ५ ॥</l>
      </lg>
      <lg n="6">
        <l>प्रणतजनरक्षणेन क्षणमेकं कालकाल वामेन ।</l>
        <l>त्रिनयन समप्रदर्शिन् दासजनं चक्षुषा पश्य ॥ ६ ॥</l>
      </lg>
      <lg n="7">
        <l>पातालं दिवमथ वा गच्छामि पलाय्य यदि दिगन्तं वा ।</l>
        <l>तत्रापि त्राता मे मृत्योर्नान्यस्त्वयैव विना ॥ ७ ॥</l>
      </lg>
      <lg n="8">
        <l>कालव्याधो धावति भगवन्नासन्नमेव हन्तुं माम् ।</l>
        <l>क्रन्दामि त्वामीशं पाशच्छेदाय तेनार्तः ॥ ८ ॥</l>
      </lg>
      <lg n="9">
        <l>आसन्नमरणमशरणमुन्मार्गभ्रमणखिन्नमवसन्नम् ।</l>
        <l>त्रायस्व शिव समाश्रितमन्धमधस्तात्पतितं माम् ॥ ९ ॥</l>
      </lg>
      <lg n="10">
        <l>परिलुलितकमलदलगतजललवचलमेतदायुरपयाति ।</l>
        <l>त्वद्भक्तिश्च न सुलभा पुनरिति मत्वा प्रसीद विभो ॥ १० ॥</l>
      </lg>
      <lg n="11">
        <l>प्राणैर्वियोज्य जन्तुं त्यजति रिपुर्जगति पापशीलोऽपि<choice>
            <sic>॥</sic>
            <corr>।</corr>
          </choice>
        </l>
        <l>मृतमपि न विमुञ्चति यस्त्रायस्व ततोऽरिषड्वर्गात् ॥ ११ ॥</l>
      </lg>
      <lg n="12">
        <l>गायन्तं च रुदन्तं शान्तं कृपणं हसन्तं च ।</l>
        <l>रक्ष विभो मामार्तं गृहीतमाशापिशाचिकया ॥ १२ ॥</l>
      </lg>
      <lg n="13">
        <l>भवमरुमार्गभ्रमणश्रान्तस्य शिव प्रसीद दीनस्य ।</l>
        <l>स्वयि<add rend="brackets">त्वन्</add>मानसे प्रसन्ने शाम्यति तीव्रा हि मे तृष्णा ॥ १३ ॥</l>
      </lg>
      <lg n="14">
        <l>यस्मिन्निपतितमेव ग्रसते रागोरगो महाभोगः ।</l>
        <l>देहि विभो भवकूपे त्रियम्बकालम्बनं पततः ॥ १४ ॥</l>
      </lg>
      <lg n="15">
        <l>येनैकमेव सर्वं द्वैतेन त्वां महेश पश्यामि ।</l>
        <l>सद्दृष्टिप्रतिबन्धं छिन्धि ममाज्ञानतिमिरं तत् ॥ १५ ॥</l>
      </lg>
      <lg n="16">
        <l>भगवंस्त्रिभुवनभयकृत्कृतान्तकृष्णाहिदंष्ट्रया दष्टः ।</l>
        <l>तृष्णाभिधानया यस्त्वमेव तन्निर्विषीकुरुषे ॥ १६ ॥</l>
      </lg>
      <lg n="17">
        <l>मोहमहाव्याधिमिमं देव चिकित्सस्व दुश्चिकित्सं मे ।</l>
        <l>भिषजं भैषज्यं च त्वां हि महान्तः प्रशंसन्ति ॥ १७ ॥</l>
      </lg>
      <lg n="18">
        <l>तं देवनरकहुतवहबहुलज्वालाकलापसन्तापम् ।</l>
        <l>त्वद्दृष्टिर्वृष्टिरिव प्रशमयतु शिव प्रसीद विभो ॥ १८ ॥</l>
      </lg>
      <lg n="19">
        <l>देव महाकारुणिक प्रसीद करुणार्द्रया दृशा पश्य ।</l>
        <l>शाम्यति यया मनो मे दुःसहदुःखानलज्वलितम् ॥ १९ ॥</l>
      </lg>
      <lg n="20">
        <l>शिव शिव भगवन् भगवन् अन्धमनाथं च रक्ष रक्ष विभो ।</l>
        <l>तव पादपीठलग्नं हरति हठादेव मृत्युर्माम् ॥ २० ॥</l>
      </lg>
      <lg n="21">
        <l>अतिकृपणमार्तमशरणमाक्रन्दन्तं वशीकृतं पाशैः ।</l>
        <l>आक्रान्तमन्तकभटैर्मां शिव शरणागतं रक्ष ॥ २१ ॥</l>
      </lg>
      <lg n="22">
        <l>शरणागतानशरणान् मरणभयाभिद्रुतान् द्रुतं दयया ।</l>
        <l>रक्षाम्यहमिति मय्यपि कुरु प्रतिज्ञां विभो सफलाम् ॥ २२ ॥</l>
      </lg>
      <lg n="23">
        <l>परमात्मन् परमेश्वर वेत्थ ममान्तस्स्थमेव देव त्वम् ।</l>
        <l>यदि तव चरणाम्बुजयोः स्वप्नेऽप्यहमन्यथाचेताः ॥ २३ ॥</l>
      </lg>
      <lg n="24">
        <l>सर्वेश सर्वशक्ते सर्वग सर्वज्ञ शर्व सर्वात्मन् ।</l>
        <l>त्यक्तस्य देव भवता भविता नान्यो मम त्राता ॥ २४ ॥</l>
      </lg>
      <lg n="25">
        <l>कमपरमधुना याचे कञ्च क्रन्दामि मन्दपुण्योऽहम् ।</l>
        <l>कमशरणः शरणं वा व्रजामि देव त्वया त्यक्तः ॥ २५ ॥</l>
      </lg>
      <lg n="26">
        <l>दीनेषु दया कार्येत्यार्येषु कृता त्वयैव मर्यादा ।</l>
        <l>आर्य त्वं त्वय्येव हि दैन्यं मय्येव हि पर्याप्तम् ॥ २६ ॥</l>
      </lg>
      <lg n="27">
        <l>किं त्यजसि मामनाथं नाथ कथं ते दया न मयि दीने ।</l>
        <l>पापिनमपि शरणागतमशरणमुज्झन्ति न महान्तः ॥ २७ ॥</l>
      </lg>
      <lg n="28">
        <l>त्रातरि सर्वगते त्वयि शिवनामनि नाम परमकारुणिके ।</l>
        <l>देव दिशः कथमेताः संजातास्त्राणशून्या मे ॥ २८ ॥</l>
      </lg>
      <lg n="29">
        <l>उभयमसम्भाव्यमिदं सुखमिह दुःखं त्वदाश्रितेऽन्यत्र ।</l>
        <l>कः श्रद्दधाति तुहिनं दहने दाहं च शीतांशौ ॥ २९ ॥</l>
      </lg>
      <lg n="30">
        <l>क्रन्दन्तमेव देव त्वमपि यदीशान संश्रितं त्यजसि ।</l>
        <l>तदशरणं शरणागतवत्सलतां हन्त निहन्त्येव ॥ ३० ॥</l>
      </lg>
      <lg n="31">
        <l>अभ्यर्थितः प्रसीदसि भगवन्नित्यपि ममैष कुविकल्पः ।</l>
        <l>जगदर्थमर्थितस्त्वं कुर्वन् बहुधा तनुं केन ॥ ३१ ॥</l>
      </lg>
      <lg n="32">
        <l>सुचिरं मया न सेवितमिति शिव न त्रायसे न तद्घटते ।</l>
        <l>किं सद्य एव पीतं नामृतमजरामरं कुरुते ॥ ३२ ॥</l>
      </lg>
      <lg n="33">
        <l>परितुष्टे किल भगवन् स्वात्मनि तुष्टिं ददासि लोकानाम् ।</l>
        <l>तुष्टेऽपि त्वयि दुःखं न श्रुतपूर्वं कदाचिदपि ॥ ३३ ॥</l>
      </lg>
      <lg n="34">
        <l>त्वयि निखिलदुःखहन्तरि हृदयगते दुःखितुं न युक्तं मे ।</l>
        <l>उदिते भगवति भास्वति तिमिरमनष्टं क्व वादृष्टम् ॥ ३४ ॥</l>
      </lg>
      <lg n="35">
        <l>क्षणमपि यत्र महान्तो वसन्ति तत्रापदो विनिघ्नन्ति ।</l>
        <l>वससि सदा मम हृदये दुःखित्वं किमिदमाचर्यम् ॥ ३५ ॥</l>
      </lg>
      <lg n="36">
        <l>दारयति दारुणमिदं दुःखं दहतीव मे हृदयम् ।</l>
        <l>विफलीभवति बहुफलो यद्यत्सङ्कल्पकल्पतरुः ॥ ३६ ॥</l>
      </lg>
      <lg n="37">
        <l>यस्येच्छयैव गच्छति जगदखिलं सम्भवं च नाशं च ।</l>
        <l>तत्र त्वय्यपि शम्भो सति दुःखं हा हतोऽस्मि ततः ॥ ३७ ॥</l>
      </lg>
      <lg n="38">
        <l>तव चरणशरणगमनान्नो भग्ना नापदः सपदि यच्च ।</l>
        <l>आत्मा तेन ममायं भगवन्निन्द्यस्त्ववन्द्यश्च ॥ ३८ ॥</l>
      </lg>
      <lg n="39">
        <l>चिन्तामणिमपि लब्ध्वा कष्टमभव्यो दरिद्र एवास्मि ।</l>
        <l>शिवमपि शरणं गत्वा मरणभयाद्यन्न मुक्तोऽस्मि ॥ ३९ ॥</l>
      </lg>
      <lg n="40">
        <l>त्रिभुवनमप्युद्धर्तुं त्वद्भक्ताः शक्ततां गताः सर्वे ।</l>
        <l>अहमिह पुनरवसन्नः पापी स्वयमेव संसारे ॥ ४० ॥</l>
      </lg>
      <lg n="41">
        <l>व्यग्रः समग्रशक्ते दासजनानुग्रहः क्वासौ ।</l>
        <l>भवतो यतो न मां प्रति संप्रति करुणायते चेतः ॥ ४१ ॥</l>
      </lg>
      <lg n="42">
        <l>श्वेतहिताय कृतान्तं कृतवानसि भस्मसाद्यया सहसा ।</l>
        <l>सा तव भगवन् करुणा निष्करुणा मयि कथं जाता ॥ ४२ ॥</l>
      </lg>
      <lg n="43">
        <l>पापाः पापघ्नानां कृपणाः करुणार्द्रचेतसां सततम् ।</l>
        <l>तरुणाः करुणाक्षेत्रं भवादृशां मादृशा एव ॥ ४३ ॥</l>
      </lg>
      <lg n="44">
        <l>दीनं दयार्द्रहृदयास्त्रायन्ते भवादृशा उपेत्य विभो ।</l>
        <l>त्वं तु मयि याचमाने न त्राता चित्रमेतदहो ॥ ४४ ॥</l>
      </lg>
      <lg n="45">
        <l>नैषा कृपा कृपावन् परमेश विशेषवृत्ति<subst>
            <del>ना</del>
            <add>ता</add>
          </subst>
          <supplied> </supplied>येयम् ।</l>
        <l>दीनेषु दयावन्तः सन्तः साम्येन वर्तन्ते ॥ ४५ ॥</l>
      </lg>
      <lg n="46">
        <l>तव दासभावमपुनर्दास्यायैवं वदन्ति यदि सन्तः ।</l>
        <l>लोभहतकस्य दास्यं तदिह ममाद्यापि नाथ कथम् ॥ ४६ ॥</l>
      </lg>
      <lg n="47">
        <l>अद्य वो वा मरणं त्राणं त्वत्तो न मेऽस्ति गतिरन्या ।</l>
        <l>भ्राम्यति ताम्यति त्रुट्यति मुह्यति शुष्यति च मम चेतः ॥ ४७ ॥</l>
      </lg>
      <lg n="48">
        <l>धरणितलेन कलेबरमेतन्मे काष्ठवद्यावत् ।</l>
        <l>तावत्प्रसीद सीदति न हि ते शरणागतो जगति ॥ ४८ ॥</l>
      </lg>
      <lg n="49">
        <l>आविशति विवशमेतच्चेतो यावन्न मोहपातालम् ।</l>
        <l>तावत्प्रसीद सीदति न हि ते शरणागतो जगति ॥ ४९ ॥</l>
      </lg>
      <lg n="50">
        <l>धनिनो धनेन धन्याः सेवन्ते त्वां गुणैश्च गुणिनोऽपि ।</l>
        <l>एतत्तु भक्तिमात्रं सर्वस्वं मे गृहाण विभो ॥ ५० ॥</l>
      </lg>
      <lg n="51">
        <l>पापात्मकोऽयमिति मयि विजुगुप्सां मा कृथा जगन्नाथ ।</l>
        <l>जगति न तदस्ति पापं हरति न यत्तेऽङ्घ्रिसंस्मरणम् ॥ ५१ ॥</l>
      </lg>
      <lg n="52">
        <l>हुतवहनिचयो हिमतां तुहिनं दहनत्वमेतु कदाचिदपि<ref type="noteAnchor" target="126.1">1</ref>।</l>
        <l>न तु तव चरणस्मरणं मोघममोघस्मृतेर्भवति ॥ ५२ ॥</l>
      </lg>
      <lg n="53">
        <l>दिवमधिरोहतु धरणी तारानिकरोऽपि लुठतु भूमितले ।</l>
        <l>न तु तव चरणस्मरणं मोघममोघस्मृतेर्भवति ॥ ५३ ॥</l>
      </lg>
      <note type="footnote" n="note1">1. च कदाचित्</note>
      <lg n="54">
        <l>मुखकमलमभिमुखं कुरु देहि वचो जलदनादघनघोषम् ।</l>
        <l>यत्त सदाभयदानं भीतेवोच्चैः समुच्चरसि ॥ ५४ ॥</l>
      </lg>
      <lg n="55">
        <l>विज्ञापयामि किं वा नाथ बहु त्वां कृतान्तभयभीतः ।</l>
        <l>नाज्ञानं ते किञ्चित् मद्भक्तेरात्मशक्तेश्च ॥ ५५ ॥</l>
      </lg>
      <lg n="56">
        <l>इति तरुणकरुणमुच्चैः कृपणस्याक्रन्दितं ममाकर्ण्य ।</l>
        <l>नाथ तथा कुरु कृपया कृपणेषु यथोचितं त्वत्तः ॥ ५६ ॥</l>
      </lg>
      <lg n="57">
        <l>जगति तव शक्तिरतुला सकलजगद्भस्मरा रयात्सपदि ।</l>
        <l>कामोऽपि लीलयैवं नयनानलशलभतां यातः ॥ ५७ ॥</l>
      </lg>
      <lg n="58">
        <l>कुलिशं कुसुमति दहनस्तुहिनति वारां निधिः स्थलति ।</l>
        <l>शत्रुर्मित्रति विषमप्यमृतति शिव शिवेति प्रलपतो भक्त्या ॥ ५८ ॥</l>
      </lg>
      <lg n="59">
        <l>आर्तमनाथमशरणं दुस्तरभवभङ्गसागरे मग्नम् ।</l>
        <l>उद्धर रक्ष विलोकय परिपालय मां जगन्नाथ ॥ ५९ ॥</l>
      </lg>
      <lg n="60">
        <l>यदिदमनुचितं दयालो नाथ मयाक्रन्दितं कृतान्तभयात् ।</l>
        <l>एतत् क्षमस्व भगवन्नार्ततया किमपि न क्रियते ॥ ६० ॥</l>
      </lg>
      <lg n="61">
        <l>स्वल्पाभोगा भोगा भङ्गी प्रियसङ्गमो गलत्यायुः ।</l>
        <l>चलमखिलमित्यवेक्ष्य व्रजति जनः शङ्करं शरणम् ॥ ६१ ॥</l>
      </lg>
      <lg n="62">
        <l>आर्तेन मलयनाम्ना विज्ञप्तस्त्वं मया जगन्नाथ ।</l>
        <l>शर्वः सर्वार्तिहरस्तेन स्यात्सर्वलोकानाम् ॥ ६२ ॥</l>
      </lg>
      <lg n="63">
        <l>शशभृदिव शीतलत्वे शिव देव शिवस्वभाव एव त्वम् ।</l>
        <l>अभ्यर्थ्यतां प्रयातः कष्टं मन्मन्दपुण्यतया ॥ ६३ ॥</l>
      </lg>
      <lg n="64">
        <l>या कुपितकृतान्तमुखत्रस्तानां जगति भवति गतिरेका ।</l>
        <l>तां भक्तवत्सल विभो नमामि शम्भो भवद्भक्तिम् ॥ ६४ ॥</l>
      </lg>
      <lg n="65">
        <l>त्वन्नाम यथा सुलभं भगवन् भूतेश मादृशस्यापि ।</l>
        <l>मच्चेतः प्रार्थयते त्वामेतां दुर्लभां भक्तिम् ॥ ६५ ॥</l>
      </lg>
      <lg n="66">
        <l>विद्या यौवनमायुः प्रियस्य सङ्गो विभूतिरारोग्यम् ।</l>
        <l>युगपदपि सुलभमेतन्न पुनरुदारा भवद्भक्तिः ॥ ६६ ॥</l>
      </lg>
      <lg n="67">
        <l>तेन त्वामेव विभो याचे तां दुर्लभां भवद्भक्तिम् ।</l>
        <l>विफला दातरि न त्वयि वाञ्छा वल्लीव कल्पतरौ ॥ ६७ ॥</l>
      </lg>
      <lg n="68">
        <l>जातस्य दिव्यभवने तिर्यग्योनौ मनुष्ययोनौ वा ।</l>
        <l>सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ ६८ ॥</l>
      </lg>
      <lg n="69">
        <l>षड्वर्गविपिनकृन्तनसन्निशितकुठारधारया सततम् ।</l>
        <l>सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ ६९ ॥</l>
      </lg>
      <lg n="70">
        <l>या परमज्ञानाङ्कुरसम्पद्धनविमलबहुलजलधारा ।</l>
        <l>सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ ७० ॥</l>
      </lg>
      <lg n="71">
        <l>शैवजननयनमणिनिष्यन्दनचन्द्रधारा या ।</l>
        <l>सा मे सदैव भूयात् त्वयि भक्तिरचञ्चला भगवन् ॥ ७१ ॥</l>
      </lg>
      <lg n="72">
        <l>इति रचयति स्म भगवत इन्दुकलाशेखरस्य मलयाख्यः ।</l>
        <l>भक्त्या भक्तिस्तोत्रं भवे भवे भक्तिरेवास्तु ॥ ७२ ॥</l>
      </lg>
      <trailer n="trailer">॥ इति श्रीमलयराजस्तुतिः सम्पूर्णा ॥</trailer>
    </body>
  </text>
</TEI>