श्रीगोविन्दराजस्तुतिः

Click Settings to choose another script or language.
सेवे गोविन्दराजं सुरनरमुनिभिः सेव्यमानाङ्घ्रिपद्मंलक्ष्मीभूभ्यां लसन्तं मणिमयमकुटोद्भासमानाननाब्जम् ।बिभ्राणं शङ्खचक्रे शशिरविलसिते हस्तपद्मद्वयाभ्यांप्रत्नंभोगीन्द्रतल्पंवरगुणजलधिं मेघसच्छायदेहम् ॥ १ ॥
मुग्धनीलाळकास्येन्दुमुत्फुल्लाम्भोजलोचनम् ।कुन्दकुड्मलसच्छात्रदशनंपल्लवाधरम्॥ २ ॥
सुभ्रूलतं चम्पकालीविडम्ब्युन्नतनासिकम् ।चारुमन्दस्मितं हेमकर्णभूषणमञ्जुळम् ॥ ३ ॥
चलत्कुण्डलसंशोभिकपोलफलकद्वयम् ।ग्रैवेयकोल्लसत्कम्बुकण्ठं कौस्तुभभूषितम् ॥ ४ ॥
सुगन्धतुलसीमालामुक्ताहारकवक्षसम् ।शङ्खचक्रधरं रुक्मवलयाङ्गदबाहुकम् ॥ ५ ॥
कटीतटीप्रविलसद्द्रुतहेमाम्बरं प्रभुम् ।गजशुण्डास्पर्धिसक्थंमुकुरामुग्धजानुकम् ॥६॥
कामतूणीरसदृशजङ्घादण्डोपशोभितम्क्वणत्प्रत्युप्तमाणिक्यमञ्जीरपदपङ्कजम् ॥ ७ ॥
कन्दर्पकोटिसंकाशं नीलाम्बुधरविग्रहम् ।आनन्दकन्दलं गोपरमणीनयनोत्सवम् ॥ ८ ॥
पुण्यराशिं वेदवेद्यं दयाजन्मनिकेतनम् ।लोकदुःखतमोबृन्दचण्डभानुं नरोत्तमम् ॥ ९ ॥
नित्यं निरञ्जनं भक्तजनाम्बुधिकलानिधिम् ।दशरूपधरं देवं सृष्टिस्थित्यन्तकारिणम् ॥ १० ॥
निबिडोत्फुल्लकुसुमफलकोरकमण्डितैः ।शङ्खस्वनत्परभृतप्रमुखाण्डजशेभितैः ॥ ११ ॥
चम्पकाशोकपुन्नागचिञ्चाम्रवकुळुद्रमैः ।रम्ये विशाले स्वच्छाम्बुपुण्डरीकसरस्तटे ॥ १२ ॥
प्राकारगोपुरोदग्रमण्डपान्वितसन्निधौ।शान्तं गोविन्दराजं तमहर्निशमहं भजे ॥ १३ ॥
रङ्गाधिपं रविकुलीननृपैः सुपूज्यंभोगीन्द्रभोगशयनीयतले शयानम् ।ज्ञानप्रदं तनुभृतां वरदं वरेण्यंश्रीनाथमादरमहं सततं भजामि ॥ १४ ॥
॥ इति सुदर्शनवरदनारायणदासकृता श्रीगोविन्दराजस्तुतिः सम्पूर्णा ॥