श्रीदाक्षायणीस्तोत्रम्

Click Settings to choose another script or language.
गम्भीरावर्तनाभिर्मृगमदतिलका वामबिम्बाधरोष्ठीश्रीकान्ता काञ्चिदाम्ना परिवृतजघना कोकिलालापवाणी ।कौमारी कम्बुकण्ठी प्रहसितवदना धूर्जटिप्राणकान्तारम्भोरुः सिंहमध्या हिमगिरितनया शाम्भवी नः पुनातु ॥ १ ॥
दद्यात् कल्मषहारिणी शिवतनुः पाशाङ्कुशालङ्कृताशर्वाणी शशिसूर्यवह्निनयना कुन्दाग्रदन्तोज्ज्वला ।कारुण्यामृतपूर्णवाग्विलसिता मत्तेभकुम्भस्तनीलोलाक्षी भवबन्धमोक्षणकरी निश्रेयसं सन्ततम् ॥ २ ॥
मध्येसुधाब्धि मणिमण्टपरत्नवेद्यांसिंहासनोपरिगतां परिपीतवर्णाम् ।पीताम्बराभरणमाल्यविचित्रगात्रींदेवीं भजामि दृढबुद्धतलेडजिह्वाम्(?)॥ ३ ॥
सन्नद्धां विविधायुधैः परिवृतामालीकुमारीगणैःध्यायेदीप्सितदायिनीं त्रिनयनां सिंहाधिरूढां सिताम् ।शङ्खंचक्रमथो धनुश्चदधतींदिव्यायुधां तर्जनींवामे शक्तिमसिं महेषुमितरे श्रीशक्तिशूलं भजे ॥ ४॥
किंशुकच्छदविशाललोचनीं किञ्च नागरसवल्लिसंयुताम् ।अङ्गचम्पकसमानवर्णिनीं शङ्करप्रियसतीं नमाम्यहम् ॥ ५ ॥
आरुह्य सिंहमसिचर्मरथाङ्गशङ्ख-शक्तित्रिशूलशरचापधरा पुरास्तात् ।गच्छ त्वमम्ब दुरिते पथि दुष्टसत्त्वात्संरक्षणाय सततं मम देवि दुर्गे ॥ ६ ॥
दिनकरशशिनेत्रेदेव्युमेरुद्रगात्रेघनसमुचितगात्रे कल्पवल्लीसवित्रि ।अनवरतपवित्रे ह्यम्बिके कालरात्रेमुनिविनुतचरित्रे मोहने शैलपुत्रि ॥ ७ ॥
जलरुहसमपाणे सत्कलाबाणतूणेसुललितमुखवीणे सर्वविद्याप्रवीणे ।अलघुनुतपुराणे ह्यर्थभाषाधुरीणे-प्यलिसमुदयवेणि ग्रावजे शम्भुराज्ञि ॥ ८ ॥
विविधगुणकराली विश्वतत्त्वावरालीशिवहृदयसमेली स्वयभवामथाली(?)।नवमणिमयमौली नागरक्षोविभालीधवलभसितधूलीधारिणी भद्रकाली(?)॥ ९ ॥
जननमरणहारी सर्वलोकोपकारीजननजतविहारी चारुवक्षोरुहारी(?)।कनकगिरिविहारी कालगर्वोपहारीघनफणधरहारी कालि कौमारि गौरि(?)॥ १० ॥
मलहरुनिमतङ्गी मन्त्रयन्त्रप्रसङ्गीवलयितसुभुजङ्गी वाङ्मयी मौनसङ्गी(?)।विलयभयविहङ्गी विश्वतो रक्षपाङ्गीकलितजयतुरङ्गी खण्डचन्द्रोत्तमाङ्गी(?)॥ ११ ॥
अम्ब त्वदाराधनतत्पराणांमुखारविन्दे सरसं कवित्वम् ।करारविन्दे वरकल्पवल्लीपदारविन्दे नृपमौलिराजिः ॥ १२ ॥
पुरवैरिधात्रि मुरवैरिपूजितेजलदालिवेणि फलदायिके शिवे ।सदयं ससंपदुदयं कुरुष्व मेजगदम्ब शाम्भवि कदम्बवासिनि ॥ १३ ॥
विजयविभवदात्री विश्वकल्याणगात्रीमधुकरशुभवेणी मङ्गलावासवाणी ।शतमखविधिगीता शाम्भवी लोकमाताकलिरिपुजयघोटी कामकोटिः सहाया ॥ १४ ॥
मधुपमहितमौर्वी मल्लिकामञ्जुलोर्वी-धरपतिवरकन्या धर्मभूतेषु धन्या ।मणिमयघनवीणा मञ्जरीदिव्यबाणाकलिरिपुजयघोटी कामकोटिः सहाया ॥ १५ ॥
अम्ब त्वदंशोरणुरंशुमालीतवैव मन्दस्मितबिन्दुरिन्दुः ।यादृच्छिकं संल्लपितं त्रयी तेपुम्भावलीला पुरुषत्र यान्ति(?)॥ १६ ॥
दुर्वेदनानुभवनैः परिदूयमानानिर्वेदमेति नितरां कलना मदीया ।पर्वेन्दुसुन्दरमुखि प्रणतानुकम्पेसर्वेश्वरि त्रिपुरसुन्दरि मे प्रसीद ॥ १७ ॥
यत्प्रभापटलपाटलं जगत् पद्मरागमणिमण्डपायते ।पाशपाणि सृणिपाणि भावये चापपाणि शरपाणि दैवतम् ॥ १८ ॥
ऐश्वर्यमष्टविधमष्टदिगीश्वरत्व-मष्टात्मता च फलमाश्रयिणामितीव ।मुद्रां वहन् घनधियो वटमूलवासीमोदं तनोतु मम मुग्धशशाङ्कचूडः ॥ १९ ॥
गेहं नाकति गर्वितः प्रणमति स्त्रीसङ्गमो मोक्षतिद्वेषी मित्रति पातकं सुकृतति क्ष्मावल्लभो दासति ।मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पादसंसेवनात्त्वां वन्दे भवभीतिभञ्जनकरीं गौरीं गिरीशप्रिये ॥ २० ॥
पातय वा पाताले स्थापय वा सकललोकसाम्राज्ये ।मातस्तव पदयुगलं नाहं मुञ्चामि नैव मुञ्चामि ॥ २१ ॥
आपदि किं करणीयं स्मरणीयं चरणयुगलमम्बायाः ।तत्स्मरणं किं कुरुते ब्रह्मादीनपि च किङ्करीकुरुते ॥ २२ ॥
मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमेहेलानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि ।निःशेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहेशुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ २३ ॥
रक्ताभामरुणांशुकाम्बरधरामानन्दपूर्णाननांमुक्ताहारविभूषितां कुचभरक्लान्तां सकाञ्चीगुणाम् ।देवीं दिव्यरसान्नपात्रकरकामम्भोजदर्वीकरांध्याये शङ्करवल्लभां त्रिणयनामम्बां सदान्नप्रदाम् २४ ॥
उद्यद्भानुनिभां दुकूलवसनां क्षीरोदमध्ये शुभेमूले कल्पतरोः स्फुरन्मणिमये सिंहासने संस्थिताम् ।विभ्राणां करयोः सुवर्णचपकं बीजं च शाल्युद्भवंभक्ताभीष्टवराभयाञ्जलिपुटां ध्यायेऽन्नपूर्णेश्वरीम् ॥ २५ ॥
वामे पायसपूर्णहेमकलशं पाणौ वहन्ती मुदाचान्ये पाणितले सुवर्णरचितां दर्वीं च भूषोज्ज्वलाम् ।अम्बा शुद्धदुकूलचित्रवसना कारुण्यपूर्णेक्षणाश्यामा काचन शङ्करप्रियतमा शातोदरी दृश्यते ॥ २६ ॥
करेण चञ्चन्मणिकङ्कणेनदर्वीं दधानां धवलान्नपूर्णाम् ।कदावलोके करुणालवालांकाशीपुरीकल्पलतां भवानीम् ॥ २७ ॥
या माणिक्यमनोज्ञहारसहितासिन्दूरभासान्वितातारानायकशेखरा त्रिनयना पीनस्तनोद्भासिता ।बन्धूकप्रसवारुणाम्बरधरा मार्ताण्डकोट्युज्ज्वलासा दद्याद्भुवनेश्वरी भगवती श्रेयांसि भूयांसि नः ॥ २८ ॥
माणिक्यनूपुरविभूषितपादपद्मांहस्तारविन्दकरुणारसपूर्णदर्वीम् ।सन्ध्यारुणांशुकधरां नवचन्द्रचूडांमन्दस्मितां गिरिसुते भवतीं भजामि ॥ २९ ॥
॥ इति श्रीदाक्षायणीस्तोत्रं सम्पूर्णम् ॥