श्रीअपराधस्तवः

Click Settings to choose another script or language.
शम्भो शङ्कर शान्त शाश्वत शिव स्थाणो भवोमापतेभूतेश त्रिपुरान्तक त्रिनयन श्रीकण्ठ कालान्तक ।शर्वोग्राभय भर्ग भीम जगतां नाथाक्षय श्रीनिधेरुद्रेशान महेश्वरेश्वर महायोगीशतुभ्यं नमः ॥ १ ॥
स्वामिन् सर्वजगद्गुरो हर महालीलाक्षमाक्षेत्रस-च्चिद्रूपाखिलभूतभाव्यजगतां नाथ प्रपन्नार्तिहन् ।पापघ्नाशुभपाशदुःखभयहृद्भक्तेष्टद ज्ञानदश्रीदातर्क्य षडङ्ग मोक्षण महायोगीश तुभ्यं नमः ॥ २ ॥
क्रूरं कष्टतरं विनष्टहृदयं भ्रष्टं शठं निष्ठुरंनिर्लज्जं कृपणं कृतघ्नमशुचिं बह्वाशिनं हिंसकम् ।आशापाशशतप्रबद्धमनसं दुष्कीर्तिभाजं जडंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३ ॥
मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलंकामान्धं क्षणिकं कदर्थनपरं दौश्शील्यजन्मस्थलम् ।अज्ञं लुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवजितंकारुण्याकरवारिधे भवपितर्दोषाकरं पाहि माम् ॥ ४ ॥
क्षुद्रं दुर्भगमल्पसत्त्वमलसं भग्नव्रतं रागिणंभीरुं डाम्भिकमीर्ष्यकं व्यसनिनं पापात्मकं सूतकम् ।आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ५ ॥
आकाङ्क्षाश्रयमार्यवर्तिविमुखं क्षीणं गुणद्वेषिणंधूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र संदेहिनम् ।दीनं पापरतं समस्तविषयेष्वासक्तमन्यायिनंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ६ ॥
अश्रद्धं गतपौरुषं कुपथगं जाज्वल्यमानं हृषासंसारार्णवमग्नमूर्मितरलं नीचप्रियं निर्दयम् ।वैराग्यानतिदानयोगनियमद्वेष्टारमुन्मादिनंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ७ ॥
द्वन्द्वग्रस्तसमस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणंदुःसङ्गप्रियमप्रतिष्ठवचनं कामातुरं तस्करम् ।शैवज्ञानपराङ्मुखं खलजनव्यापारपारङ्गतंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ८ ॥
दुर्मत्यावमतिप्रवृद्धरजसं सद्वृद्धसेवारिपुंसद्धर्मेष्वसमुत्सुकं गुरुजने मान्येषु चात्युद्धतम् ।शिष्टाशिष्टकरप्रियं च सततं दुष्टस्य तुष्टिप्रदंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि मान् ॥ ९ ॥
स्मप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितंध्यानाध्यानविचारणागुणरिपुं तुच्छं मदोच्छृङ्गलम् ।दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्याश्रयंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १० ॥
आत्मातिस्तुतिकारिणं परमहानिन्दाकरं निन्दितंलुण्टाकं पतितं विपर्ययगतस्वान्तं सदा याचकम् ।व्याक्रोशाद्विहतस्वकार्यनिचयं सर्वापदां सञ्चयंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ११ ॥
कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महावञ्चकंदुर्बुद्धिं मदमानमत्सरनिधिं दुर्वृत्तवृत्त्याश्रयम् ।मिथ्याज्ञानिनमार्यकण्टकमलं लोकत्रये दूषितंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १२ ॥
दुष्कर्मप्रचये प्रहृष्टहृदयं क्लेशैश्च संपीडितंचार्वाकं कुमतिं कुचेलमलसं कार्पण्यजन्मस्थलम् ।भार्यापुत्रगृहादिसक्तमनसं गाम्भीर्यधैर्यच्युतंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १३ ॥
चित्तक्षोभकरं कलङ्कहृदयं शोकास्पदं लोलुपंसारासारविचारहीनमनसं नीचप्रियं नीरसम् ।मत्तोन्मत्तनिकृष्टनष्टचकितं शून्यं हृदालापिनंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १४ ॥
आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषंसङ्कल्पैर्बहुभिर्विभिन्नहृदयं दैत्यप्रसक्तं सदा ।मर्माविद्वचनं कठोरहृदयं मित्रद्रुहं चुम्बकंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १५ ॥
वेदोक्ताचरणाशिवात्मचरितं स्वेच्छाप्रवृत्तिं सदासच्छास्त्रेष्वपरागिणं प्रियतमालक्ष्मीगुणावेष्टितम् ।दाक्षिण्यप्रतिपन्नताविरहितं स्वार्थैकदृष्टिं सदाकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १६ ॥
सत्यत्यागद्याक्षमाशमदमाद्यर्थानभिज्ञात्मकंदेवब्राह्मणगोव्रजातिथिपितृज्ञानात्मकापूजकम् ।विश्वस्तेष्वपकारवञ्चनपरं मैत्रीरिपुं दुर्जनंकारुण्याकरवारिधे भव पितर्दोषकरं पाहि माम् ॥ १७ ॥
कृत्वाधर्ममतिं कथंचिदपरः को मत्समोऽस्मिन्भवे-दित्येवं बहुजल्पिनं कुपुरुषं भ्रान्त्याश्रयं राक्षसम् ।दृष्टादृष्टसुखैषिणं बत मुदा मुक्त्वा शिवाराधनंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १८ ॥
मार्जालाखुबकाश्वकुक्कुटकपिक्रोडाहिवृत्तिं सदातीर्थध्वाङ्क्षमनर्थकं परसुखे सन्तापिनं दुःसहम् ।त्यक्तोपायममेयकाङ्क्षिणमहो शुण्ठं च चोरोपमंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १९ ॥
अस्पृश्यं विकलं कुधैर्यमखिले दोषे स्वकीये गुणंपश्यन्तं चलमात्मकार्यनिरतं पूज्यं विषादात्मकम् ।चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २० ॥
दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलंदासीमेषखरस्वभावमपटुं संमानने भाजने ।रिक्तं बालकदीर्घसूत्रिणमलं हृच्छल्यशीलं सदाकारुण्याकर वारिघे भव पितर्दोषाकरं पाहि माम् ॥ २१ ॥
अत्यादेशिनमुत्तमस्थितिमतां संत्यागिनं नास्तिकंरन्ध्रान्वेषिणमन्धमूकबधिरं शम्भोस्तु विश्वात्मनः ।माहात्म्य श्रवणस्तुतीक्षणविधौ माहेश्वरा वत्सलंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २२ ॥
दुष्कार्यालघुभारवाहनपशुं तृष्णातृणग्राहिणंसंसारार्णवदुःखपङ्कपतितं यान्तं सदाधो भृशम् ।स्वत्वाहन्त्वममत्वमोहमकरैराकृष्यमाणं सदाकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २३ ॥
भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसंसंभ्रान्तं चपलं विधानविहितव्यापारविद्वेषिणम् ।शम्भो त्वत्पदभक्तिहीनमदृढं संमूढमात्मद्विषंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २४ ॥
ज्येष्ठावासमतिप्रमादितमतिं क्षुत्तृड्जराद्यर्दितंस्वप्नेऽप्यन्यपरोपकाररहितं सर्वाहितं दुर्लभम् ।लोके सत्परिहार्यनिन्दितमहो दुःखप्रदेशक्रियंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम्२५ ॥
त्वक्चुक्लान्त्रसिरातनूरुहमयं काराख्यरन्ध्रस्थितंनानापायपतिष्णु कालशिखिना पापच्यमानं भृशम् ।दृष्ट्वापि स्वकलेबरं कृशतरं तत्रापि रक्तं पशुंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २६ ॥
किं वाचा बहुविस्तरेण भगवन् मत्संनिभो भूतलेनाभून्नास्ति च नो भविष्यति पुमान् निर्भाग्यचूडामणिः ।तस्मादीदृशमात्मवञ्चकमहो त्रैलोक्यचूडामणेकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २७ ॥
सर्वश्रेष्ठ गुणैकभाजन विभो सत्त्वोत्तमेषूत्तमा-संख्येयावगुणैकभाजनमलं कष्टातिकष्टक्रियम् ।श्रीशाश्रीशमतीन्द्रियेन्द्रियवशं निस्सङ्गिनं सङ्गिनंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम्२८ ॥
विण्मूत्रकृमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकंनिर्गन्धैकनिधिं जरापरिगतं वातादिदोषात्मकम् ।दृष्ट्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहिमाम्॥ २९ ॥
विष्ठामूत्रजन्त्वनिष्टमशुभं स्वाभाव्यतो नश्वरंकृष्णक्षेण्यविषूचिकाज्वरशिरश्शूलादिरोगास्पदम् ।ज्ञात्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३० ॥
पङ्गुत्वान्ध्यजरित्वमौर्यखलताबाधिर्यजन्मस्थलंक्लेद्यच्छेद्यविशोष्यदाह्यकृशतास्थौल्यस्वभावात्मकम् ।संपश्यन्नपि दोषमत्र तु सदा संप्रीतियुक्तं पशुंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३१ ॥
देहक्षालनलेपनादिविधिना संस्पर्शयोग्यं त्वचादन्नं(?)क्लिन्नमहार्णवं व्रणमुखैर्नित्यं स्रवन्तं मलम् ।तं दृष्ट्वाप्यविरागिणं च नरके शूनं सरागं पशुंकारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३२ ॥
॥ इति श्रीअपराधस्तवः सम्पूर्णः ॥