श्रीअम्बिकास्तवः

Click Settings to choose another script or language.
श्रीगिरीशप्रियां चिन्तितार्थप्रदांरत्नताटङ्किणीं राजबिम्बाननाम् ।सैरिभेन्द्रादिमत्तेभपञ्चानना-मापदुत्तारिणीमम्बिकामाश्रये ॥ १ ॥
वारुणीसेवितां कीरवाणीस्तुतांशत्रुसंहारिणीं श्रेयसः कारिणीम् ।वारुणीपारणां चारुसञ्चारिणी-मापदुत्तारिणीमम्बिकामाश्रये ॥ २ ॥
सत्रयीकोणमध्यस्थबिन्दूपरि-प्रस्फुरद्रत्नसिंहासनाधिष्ठिताम् ।सर्वसौभाग्यसन्धायिनीं मायिनी-मापदुत्तारिणीमम्बिकामाश्रये ॥ ३ ॥
मातृकाभिः परीवारितां किञ्चिदु-न्मीलतां धीवरप्रेक्षणानन्दिनीम् ।मत्तमातङ्गकुम्भोरुवक्षोरुहा-मापदुत्तारिणीमम्बिकामाश्रये ॥ ४ ॥
यक्षगन्धर्वसिद्धाङ्गनामौलिग-र्भस्थसूनातिसंवासिताङ्घ्रिद्वयम् ।मातृकारूपिणीं मातृयन्त्रात्मिका-मापदुत्तारिणीमम्बिकामाश्रये ॥ ५ ॥
वीरमाहेश्वरीं चारुधर्मक्रियांपारगात्रान्तरागारसंवासिनीम् ।किङ्कराशेषसंपत्करीं शाङ्करी-मापदुत्तारिणीमम्बिकामाश्रये ॥ ६ ॥
ऐन्द्रवज्रादिकान्तिच्छटारञ्जिनींशेखरीभूतशुक्लेन्दुरेखाभराम् ।मन्जुमञ्जीरशिञ्जत्पदाम्भोरुहा-मापदुत्तारिणीमम्बिकामाश्रये ॥ ७ ॥
वामहस्तेन जिह्वाञ्चलां वैरिणःपाणिना दक्षिणेनायुधं मुद्गरम् ।बिभ्रतीं पीतवर्णाम्बरालङ्कृता-मापदुत्तारिणीमम्बिकामाश्रये ॥ ८ ॥
पुस्तकं पाशमक्षत्रजं चाङ्कुशंदोलताभिर्दधानां त्रिनेत्रान्विताम् ।बालिकां त्रैपुरीपुण्डरीकप्रभा-मापदुत्तारिणीमम्बिकामाश्रये ॥ ९ ॥
ब्रह्मशौरीन्द्रमुख्यामरप्राप्तना-नायुधाच्छाननां स्रग्विभूषान्विताम् ।भर्गपत्नीं सुदुर्गामभीष्टप्रदा-मापदुत्तारिणीमम्बिकामाश्रये ॥ १० ॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यविरचितमम्बिकास्तोत्रं सम्पूर्णम् ॥