शिवसप्ततिनामस्तोत्रम्

Click on words to see what they mean.

देवानां श्रेष्ठ ईशानो भुवनस्याजरो वसुः ।स्वधावान्सुहवो बभ्रुर्द्विबर्हा अरुषः कविः ॥ १ ॥
जलाषभेषजो भूरिभूरेर्दाता भिषक्तमः ।स्थिरधन्वा क्षयद्वीरो रुद्रो गाथपतिः स्विषुः ॥ २ ॥
वेधाः सुधन्वा क्षिप्रेषुर्मरुत्वानसुरस्तवाः ।त्वेषस्तिग्मायुधस्तव्यान्वज्रबाहुस्तवस्तमः ॥ ३ ॥
उपहत्नुः कल्मलीकी सुषुम्नो गर्तसद्युवा ।दिवो वराहो वृषभो वंकुः स्विक्वानृदूदरः ॥ ४ ॥
स्वपिवातश्चेकितानः सुशिप्रः स्वयशाः श्रुतः ।श्वित्सन्नृष्वः स्ववानेव यावभिः पशुपाः शुचिः ॥ ५ ॥
सहमानो मेधपतिः प्रचेताः सत्पतिबृहन् ।पुरुरूपः कपर्द्युग्रः सुगन्धिः पुष्टिवर्धनः ॥ ६ ॥
शुक्रोऽषाह्ळो यज्ञसाधस्त्र्यम्बको मरुतां पिता ।मीढ्वान्मीळ्हुष्टमो देवो भुवनस्य पिता शिवः ॥ ७ ॥
इतीयं सप्ततिर्नाम्नां रुद्रस्य निगमोद्धृता ।सर्वपापप्रशमनी सर्वाभीष्टप्रदायिनी ॥ ८ ॥