<?xml version='1.0' encoding='utf-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0"><teiHeader><fileDesc><title>शिवसप्ततिनामस्तोत्रम्</title><author>गणपतिमुनिः</author></fileDesc><publicationStmt><publisher>Ambuda (https://ambuda.org)</publisher><availability>TODO</availability></publicationStmt><notesStmt><note>This text has been created by direct export from Ambuda's proofing system.</note></notesStmt><encodingDesc><projectDesc><p>Ambuda is an online library of Sanskrit literature.</p></projectDesc></encodingDesc></teiHeader><text><body><lg n="1"><l>देवानां श्रेष्ठ ईशानो भुवनस्याजरो वसुः ।</l><l>स्वधावान्सुहवो बभ्रुर्द्विबर्हा अरुषः कविः ॥ १ ॥</l></lg><lg n="2"><l>जलाषभेषजो भूरिभूरेर्दाता भिषक्तमः ।</l><l>स्थिरधन्वा क्षयद्वीरो रुद्रो गाथपतिः स्विषुः ॥ २ ॥</l></lg><lg n="3"><l>वेधाः सुधन्वा क्षिप्रेषुर्मरुत्वानसुरस्तवाः ।</l><l>त्वेषस्तिग्मायुधस्तव्यान्वज्रबाहुस्तवस्तमः ॥ ३ ॥</l></lg><lg n="4"><l>उपहत्नुः कल्मलीकी सुषुम्नो गर्तसद्युवा ।</l><l>दिवो वराहो वृषभो वंकुः स्विक्वानृदूदरः ॥ ४ ॥</l></lg><lg n="5"><l>स्वपिवातश्चेकितानः सुशिप्रः स्वयशाः श्रुतः ।</l><l>श्वित्सन्नृष्वः स्ववानेव यावभिः पशुपाः शुचिः ॥ ५ ॥</l></lg><lg n="6"><l>सहमानो मेधपतिः प्रचेताः सत्पतिबृहन् ।</l><l>पुरुरूपः कपर्द्युग्रः सुगन्धिः पुष्टिवर्धनः ॥ ६ ॥</l></lg><lg n="7"><l>शुक्रोऽषाह्ळो यज्ञसाधस्त्र्यम्बको मरुतां पिता ।</l><l>मीढ्वान्मीळ्हुष्टमो देवो भुवनस्य पिता शिवः ॥ ७ ॥</l></lg><lg n="8"><l>इतीयं सप्ततिर्नाम्नां रुद्रस्य निगमोद्धृता ।</l><l>सर्वपापप्रशमनी सर्वाभीष्टप्रदायिनी ॥ ८ ॥</l></lg></body></text></TEI>