Click on words to see what they mean.

तथोक्तवति रामे तु भरते च महात्मनि ।लक्ष्मणोऽपि शुभं वाक्यमुवाच रघुनन्दनम् ॥ १ ॥
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् ।पावनस्तव दुर्धर्षो रोचतां क्रतुपुंगवः ॥ २ ॥
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ।ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ॥ ३ ॥
पुरा किल महाबाहो देवासुरसमागमे ।वृत्रो नाम महानासीद्दैतेयो लोकसंमतः ॥ ४ ॥
विस्तीर्णा योजनशतमुच्छ्रितस्त्रिगुणं ततः ।अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ॥ ५ ॥
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः ।शशास पृथिवीं सर्वां धर्मेण सुसमाहितः ॥ ६ ॥
तस्मिन्प्रशासति तदा सर्वकामदुघा मही ।रसवन्ति प्रसूतानि मूलानि च फलानि च ॥ ७ ॥
अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः ।स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ॥ ८ ॥
तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम् ।तपो हि परमं श्रेयस्तपो हि परमं सुखम् ॥ ९ ॥
स निक्षिप्य सुतं ज्येष्ठं पौरेषु परमेश्वरम् ।तप उग्रमुपातिष्ठत्तापयन्सर्वदेवताः ॥ १० ॥
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् ।विष्णुं समुपसंक्रम्य वाक्यमेतदुवाच ह ॥ ११ ॥
तपस्यता महाबाहो लोका वृत्रेण निर्जिताः ।बलवान्स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम् ॥ १२ ॥
यद्यसौ तप आतिष्ठेद्भूय एव सुरेश्वर ।यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥ १३ ॥
त्वं चैनं परमोदारमुपेक्षसि महाबल ।क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ॥ १४ ॥
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ।तदा प्रभृति लोकानां नाथत्वमुपलब्धवान् ॥ १५ ॥
स त्वं प्रसादं लोकानां कुरुष्व सुमहायशः ।त्वत्कृतेन हि सर्वं स्यात्प्रशान्तमजरं जगत् ॥ १६ ॥
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः ।वृत्रघतेन महता एषां साह्यं कुरुष्व ह ॥ १७ ॥
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् ।असह्यमिदमन्येषामगतीनां गतिर्भवान् ॥ १८ ॥
« »