भुक्त्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् ।प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ॥ १ ॥
शृणु ब्रह्मन्यथावृत्तं ममैतत्सुखदुःखयोः ।दुरतिक्रमणीयं हि यथा पृच्छसि मां द्विज ॥ २ ॥
पुरा वैदर्भको राजा पिता मम महायशाः ।सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ३ ॥
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत ।अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत् ॥ ४ ॥
ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ।तत्राहं कृतवान्राज्यं धर्मेण सुसमाहितः ॥ ५ ॥
एवं वर्षसहस्राणि समतीतानि सुव्रत ।राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ॥ ६ ॥
सोऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ।कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ॥ ७ ॥
सोऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ।तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे ॥ ८ ॥
भ्रातरं सुरथं राज्ये अभिषिच्य नराधिपम् ।इदं सरः समासाद्य तपस्तप्तं मया चिरम् ॥ ९ ॥
सोऽहं वर्षसहस्राणि तपस्त्रीणि महामुने ।तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ॥ १० ॥
ततो मां स्वर्गसंस्थं वै क्षुत्पिपासे द्विजोत्तम ।बाधेते परमोदार ततोऽहं व्यथितेन्द्रियः ॥ ११ ॥
गत्वा त्रिभुवणश्रेष्ठं पितामहमुवाच ह ।भगवन्ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः ॥ १२ ॥
कस्येयं कर्मणः प्राप्तिः क्षुत्पिपासावशोऽस्मि यत् ।आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥ १३ ॥
पितामहस्तु मामाह तवाहारः सुदेवज ।स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ॥ १४ ॥
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ।अनुप्तं रोहते श्वेत न कदाचिन्महामते ॥ १५ ॥
दत्तं न तेऽस्ति सूक्ष्मोऽपि वने सत्त्वनिषेविते ।तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ॥ १६ ॥
स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।भक्षयस्वामृतरसं सा ते तृप्तिर्भविष्यति ॥ १७ ॥
यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः ।आक्रमिष्यति दुर्धर्षस्तदा कृच्छाद्विमोक्ष्यसे ॥ १८ ॥
स हि तारयितुं सौम्य शक्तः सुरगणानपि ।किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ॥ १९ ॥
सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ।आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम ॥ २० ॥
बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया ।क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ॥ २१ ॥
तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोक्षय ।अन्येषामगतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ॥ २२ ॥
इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ।प्रतिगृह्णीष्व ब्रह्मर्षे प्रसादं कर्तुमर्हसि ॥ २३ ॥
तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् ।तारणायोपजग्राह तदाभरणमुत्तमम् ॥ २४ ॥
मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे ।मानुषः पूर्वको देहो राजर्षेः स ननाश ह ॥ २५ ॥
प्रनष्टे तु शरीरेऽसौ राजर्षिः परया मुदा ।तृप्तः प्रमुदितो राजा जगाम त्रिदिवं पुनः ॥ २६ ॥
तेनेदं शक्रतुल्येन दिव्यमाभरणं मम ।तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ॥ २७ ॥