Click on words to see what they mean.

तथा तु करुणं तस्य द्विजस्य परिदेवितम् ।शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ॥ १ ॥
स दुःखेन सुसंतप्तो मन्त्रिणः समुपाह्वयत् ।वसिष्ठं वामदेवं च भ्रातॄंश्च सहनैगमान् ॥ २ ॥
ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ।राजानं देवसंकाशं वर्धस्वेति ततोऽब्रुवन् ॥ ३ ॥
मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः ।कात्यायनोऽथ जाबालिर्गौतमो नारदस्तथा ॥ ४ ॥
एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ।मन्त्रिणो नैगमाश्चैव यथार्हमनुकूलतः ॥ ५ ॥
ताषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ।राघवः सर्वमाचष्टे द्विजो यस्मात्प्ररोदिति ॥ ६ ॥
तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः ।प्रत्युवाच शुभं वाक्यमृषीणां संनिधौ नृपम् ॥ ७ ॥
शृणु राजन्यथाकाले प्राप्तोऽयं बालसंक्षयः ।श्रुत्वा कर्तव्यतां वीर कुरुष्व रघुनन्दन ॥ ८ ॥
पुरा कृतयुगे राम ब्राह्मणा वै तपस्विनः ।अब्राह्मणस्तदा राजन्न तपस्वी कथंचन ॥ ९ ॥
तस्मिन्युगे प्रज्वलिते ब्रह्मभूते अनावृते ।अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ॥ १० ॥
ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् ।क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः ॥ ११ ॥
वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि ।मानवा ये महात्मानस्तस्मिंस्त्रेतायुगे युगे ॥ १२ ॥
ब्रह्मक्षत्रं तु तत्सर्वं यत्पूर्वमपरं च यत् ।युगयोरुभयोरासीत्समवीर्यसमन्वितम् ॥ १३ ॥
अपश्यन्तस्तु ते सर्वे विशेषमधिकं ततः ।स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः ॥ १४ ॥
अधर्मः पादमेकं तु पातयत्पृथिवीतले ।अधर्मेण हि संयुक्तास्तेन मन्दाभवन्द्विजाः ॥ १५ ॥
ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ।शुभान्येवाचरँल्लोकाः सत्यधर्मपरायणाः ॥ १६ ॥
त्रेतायुगे त्ववर्तन्त ब्राह्मणाः क्षत्रियश्च ये ।तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ॥ १७ ॥
स धर्मः परमस्तेषां वैश्यशूद्रमथागमत् ।पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ॥ १८ ॥
ततः पादमधर्मस्य द्वितीयमवतारयत् ।ततो द्वापरसंख्या सा युगस्य समजायत ॥ १९ ॥
तस्मिन्द्वापरसंख्ये तु वर्तमाने युगक्षये ।अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ॥ २० ॥
तस्मिन्द्वापरसंख्याते तपो वैश्यान्समाविशत् ।न शूद्रो लभते धर्ममुग्रं तप्तं नरर्षभ ॥ २१ ॥
हीनवर्णो नरश्रेष्ठ तप्यते सुमहत्तपः ।भविष्या शूद्रयोन्यां हि तपश्चर्या कलौ युगे ॥ २२ ॥
अधर्मः परमो राम द्वापरे शूद्रधारितः ।स वै विषयपर्यन्ते तव राजन्महातपाः ।शूद्रस्तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ॥ २३ ॥
यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य हि ।करोति राजशार्दूल पुरे वा दुर्मतिर्नरः ।क्षिप्रं हि नरकं याति स च राजा न संशयः ॥ २४ ॥
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ।दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ॥ २५ ॥
एवं ते धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् ।भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ॥ २६ ॥
« »