Click on words to see what they mean.

नारदस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा ।प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥ १ ॥
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण ।बालस्य च शरीरं तत्तैलद्रोण्यां निधापय ॥ २ ॥
गन्धैश्च परमोदारैस्तैलैश्च सुसुगन्धिभिः ।यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥ ३ ॥
यथा शरीरे बालस्य गुप्तस्याक्लिष्टकर्मणः ।विपत्तिः परिभेदो वा भवेन्न च तथा कुरु ॥ ४ ॥
तथा संदिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥ ५ ॥
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।आजगाम मुहूर्तेन समीपं राघवस्य वै ॥ ६ ॥
सोऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।वश्यस्तव महाबाहो किंकरः समुपस्थितः ॥ ७ ॥
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ।अभिवाद्य महर्षीस्तान्विमानं सोऽध्यरोहत ॥ ८ ॥
धनुर्गृहीत्वा तूणीं च खड्गं च रुचिरप्रभम् ।निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ॥ ९ ॥
प्रायात्प्रतीचीं स मरून्विचिन्वंश्च समन्ततः ।उत्तरामगमच्छ्रीमान्दिशं हिमवदावृतम् ॥ १० ॥
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः ॥ ११ ॥
दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः ।शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ॥ १२ ॥
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ।ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ॥ १३ ॥
अथैनं समुपागम्य तप्यन्तं तप उत्तमम् ।उवाच राघवो वाक्यं धन्यस्त्वमसि सुव्रत ॥ १४ ॥
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम ।कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ॥ १५ ॥
मनीषितस्ते को न्वर्थः स्वर्गलाभो वराश्रयः ।यमश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ॥ १६ ॥
ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयः ।वैश्यो वा यदि वा शूद्रः सत्यमेतद्ब्रवीहि मे ॥ १७ ॥
« »