Click on words to see what they mean.

ततः स सचिवैः सार्धं षड्भिर्नित्यं बलोत्कटैः ।महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ॥ १ ॥
धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना ।वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ॥ २ ॥
पुराणि स नदीः शैलान्वनान्युपवनानि च ।अतिक्रम्य मुहूर्तेन कैलासं गिरिमाविशत् ॥ ३ ॥
तं निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु ।राज्ञो भ्रातायमित्युक्त्वा गता यत्र धनेश्वरः ॥ ४ ॥
गत्वा तु सर्वमाचख्युर्भ्रातुस्तस्य विनिश्चयम् ।अनुज्ञाता ययुश्चैव युद्धाय धनदेन ते ॥ ५ ॥
ततो बलस्य संक्षोभः सागरस्येव वर्धतः ।अभून्नैरृतराजस्य गिरिं संचालयन्निव ॥ ६ ॥
ततो युद्धं समभवद्यक्षराक्षससंकुलम् ।व्यथिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ ७ ॥
तं दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः ।हर्षान्नादं ततः कृत्वा रोषात्समभिवर्तत ॥ ८ ॥
ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमः ।ते सहस्रं सहस्राणामेकैकं समयोधयन् ॥ ९ ॥
ततो गदाभिः परिघैरसिभिः शक्तितोमरैः ।वध्यमानो दशग्रीवस्तत्सैन्यं समगाहत ॥ १० ॥
तैर्निरुच्छ्वासवत्तत्र वध्यमानो दशाननः ।वर्षमाणैरिव घनैर्यक्षेन्द्रैः संनिरुध्यत ॥ ११ ॥
स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् ।प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ॥ १२ ॥
स कक्षमिव विस्तीर्णं शुष्केन्धनसमाकुलम् ।वातेनाग्निरिवायत्तोऽदहत्सैन्यं सुदारुणम् ॥ १३ ॥
तैस्तु तस्य मृधेऽमात्यैर्महोदरशुकादिभिः ।अल्पावशिष्टास्ते यक्षाः कृता वातैरिवाम्बुदाः ॥ १४ ॥
केचित्त्वायुधभग्नाङ्गाः पतिताः समरक्षितौ ।ओष्ठान्स्वदशनैस्तीक्ष्णैर्दंशन्तो भुवि पातिताः ॥ १५ ॥
भयादन्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे ।निषेदुस्ते तदा यक्षाः कूला जलहता इव ॥ १६ ॥
हतानां स्वर्गसंस्थानां युध्यतां पृथिवीतले ।प्रेक्षतामृषिसंघानां न बभूवान्तरं दिवि ॥ १७ ॥
एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः ।अगमत्सुमहान्यक्षो नाम्ना संयोधकण्टकः ॥ १८ ॥
तेन यक्षेण मारीचो विष्णुनेव समाहतः ।पतितः पृथिवीं भेजे क्षीणपुण्य इवाम्बरात् ॥ १९ ॥
प्राप्तसंज्ञो मुहूर्तेन विश्रम्य च निशाचरः ।तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ॥ २० ॥
ततः काञ्चनचित्राङ्गं वैदूर्यरजतोक्षितम् ।मर्यादां द्वारपालानां तोरणं तत्समाविशत् ॥ २१ ॥
ततो राम दशग्रीवं प्रविशन्तं निशाचरम् ।सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ॥ २२ ॥
ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः ।राक्षसो यक्षसृष्टेन तोरणेन समाहतः ।न क्षितिं प्रययौ राम वरात्सलिलयोनिनः ॥ २३ ॥
स तु तेनैव तं यक्षं तोरणेन समाहनत् ।नादृश्यत तदा यक्षो भस्म तेन कृतस्तु सः ॥ २४ ॥
ततः प्रदुद्रुवुः सर्वे यक्षा दृष्ट्वा पराक्रमम् ।ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः ॥ २५ ॥
« »