Click on words to see what they mean.

ततस्तान्विद्रुतान्दृष्ट्वा यक्षाञ्शतसहस्रशः ।स्वयमेव धनाध्यक्षो निर्जगाम रणं प्रति ॥ १ ॥
तत्र माणिचारो नाम यक्षः परमदुर्जयः ।वृतो यक्षसहस्रैः स चतुर्भिः समयोधयत् ॥ २ ॥
ते गदामुसलप्रासशक्तितोमरमुद्गरैः ।अभिघ्नन्तो रणे यक्षा राक्षसानभिदुद्रुवुः ॥ ३ ॥
ततः प्रहस्तेन तदा सहस्रं निहतं रणे ।महोदरेण गदया सहस्रमपरं हतम् ॥ ४ ॥
क्रुद्धेन च तदा राम मारीचेन दुरात्मना ।निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ॥ ५ ॥
धूम्राक्षेण समागम्य माणिभद्रो महारणे ।मुसलेनोरसि क्रोधात्ताडितो न च कम्पितः ॥ ६ ॥
ततो गदां समाविध्य माणिभद्रेण राक्षसः ।धूम्राक्षस्ताडितो मूर्ध्नि विह्वलो निपपात ह ॥ ७ ॥
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् ।अभ्यधावत्सुसंक्रुद्धो माणिभद्रं दशाननः ॥ ८ ॥
तं क्रुद्धमभिधावन्तं युगान्ताग्निमिवोत्थितम् ।शक्तिभिस्ताडयामास तिसृभिर्यक्षपुंगवः ॥ ९ ॥
ततो राक्षसराजेन ताडितो गदया रणे ।तस्य तेन प्रहारेण मुकुटः पार्श्वमागतः ।तदा प्रभृति यक्षोऽसौ पार्श्वमौलिरिति स्मृतः ॥ १० ॥
तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि ।संनादः सुमहान्राम तस्मिञ्शैले व्यवर्धत ॥ ११ ॥
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः ।शुक्रप्रोष्टःपदाभ्यां च शङ्खपद्मसमावृतः ॥ १२ ॥
स दृष्ट्वा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम् ।उवाच वचनं धीमान्युक्तं पैतामहे कुले ॥ १३ ॥
मया त्वं वार्यमाणोऽपि नावगच्छसि दुर्मते ।पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥ १४ ॥
यो हि मोहाद्विषं पीत्वा नावगच्छति मानवः ।परिणामे स वि मूढो जानीते कर्मणः फलम् ॥ १५ ॥
दैवतानि हि नन्दन्ति धर्मयुक्तेन केनचित् ।येन त्वमीदृशं भावं नीतस्तच्च न बुध्यसे ॥ १६ ॥
यो हि मातॄः पितॄन्भ्रातॄनाचर्यांश्चावमन्यते ।स पश्यति फलं तस्य प्रेतराजवशं गतः ॥ १७ ॥
अध्रुवे हि शरीरे यो न करोति तपोऽर्जनम् ।स पश्चात्तप्यते मूढो मृतो दृष्ट्वात्मनो गतिम् ॥ १८ ॥
कस्यचिन्न हि दुर्बुधेश्छन्दतो जायते मतिः ।यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ १९ ॥
बुद्धिं रूपं बलं वित्तं पुत्रान्माहात्म्यमेव च ।प्रप्नुवन्ति नराः सर्वं स्वकृतैः पूर्वकर्मभिः ॥ २० ॥
एवं निरयगामी त्वं यस्य ते मतिरीदृशी ।न त्वां समभिभाषिष्ये दुर्वृत्तस्यैष निर्णयः ॥ २१ ॥
एवमुक्त्वा ततस्तेन तस्यामात्याः समाहताः ।मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥ २२ ॥
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ।गदयाभिहतो मूर्ध्नि न च स्थानाद्व्यकम्पत ॥ २३ ॥
ततस्तौ राम निघ्नन्तावन्योन्यं परमाहवे ।न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणैः ॥ २४ ॥
आग्नेयमस्त्रं स ततो मुमोच धनदो रणे ।वारुणेन दशग्रीवस्तदस्त्रं प्रत्यवारयत् ॥ २५ ॥
ततो मायां प्रविष्टः स राक्षसीं राक्षसेश्वरः ।जघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम् ॥ २६ ॥
एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ।कृत्तमूल इवाशोको निपपात धनाधिपः ॥ २७ ॥
ततः पद्मादिभिस्तत्र निधिभिः स धनाधिपः ।नन्दनं वनमानीय धनदो श्वासितस्तदा ॥ २८ ॥
ततो निर्जित्य तं राम धनदं राक्षसाधिपः ।पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥ २९ ॥
काञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम् ।मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ॥ ३० ॥
तत्तु राजा समारुह्य कामगं वीर्यनिर्जितम् ।जित्वा वैश्रवणं देवं कैलासादवरोहत ॥ ३१ ॥
« »