Click on words to see what they mean.

तासां विलपमानानां तथा राक्षसयोषिताम् ।ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत ॥ १ ॥
दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा ।पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् ॥ २ ॥
ननु नाम महाबाहो तव वैश्रवणानुज ।क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः ॥ ३ ॥
ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः ।ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः ॥ ४ ॥
स त्वं मानुषमात्रेण रामेण युधि निर्जितः ।न व्यपत्रपसे राजन्किमिदं राक्षसर्षभ ॥ ५ ॥
कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् ।अविषह्यं जघान त्वां मानुषो वनगोचरः ॥ ६ ॥
मानुषाणामविषये चरतः कामरूपिणः ।विनाशस्तव रामेण संयुगे नोपपद्यते ॥ ७ ॥
न चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे ।सर्वतः समुपेतस्य तव तेनाभिमर्शनम् ॥ ८ ॥
इन्द्रियाणि पुरा जित्वा जितं त्रिभुवणं त्वया ।स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः ॥ ९ ॥
अथ वा रामरूपेण वासवः स्वयमागतः ।मायां तव विनाशाय विधायाप्रतितर्किताम् ॥ १० ॥
यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः ।खरस्तव हतो भ्राता तदैवासौ न मानुषः ॥ ११ ॥
यदैव नगरीं लङ्कां दुष्प्रवेषां सुरैरपि ।प्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम् ॥ १२ ॥
क्रियतामविरोधश्च राघवेणेति यन्मया ।उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता ॥ १३ ॥
अकस्माच्चाभिकामोऽसि सीतां राक्षसपुंगव ।ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च ॥ १४ ॥
अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते ।सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् ॥ १५ ॥
न कुलेन न रूपेण न दाक्षिण्येन मैथिली ।मयाधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे ॥ १६ ॥
सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः ।तव तावदयं मृत्युर्मैथिलीकृतलक्षणः ॥ १७ ॥
मैथिली सह रामेण विशोका विहरिष्यति ।अल्पपुण्या त्वहं घोरे पतिता शोकसागरे ॥ १८ ॥
कैलासे मन्दरे मेरौ तथा चैत्ररथे वने ।देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया ॥ १९ ॥
विमानेनानुरूपेण या याम्यतुलया श्रिया ।पश्यन्ती विविधान्देशांस्तांस्तांश्चित्रस्रगम्बरा ।भ्रंशिता कामभोगेभ्यः सास्मि वीरवधात्तव ॥ २० ॥
सत्यवाक्स महाभागो देवरो मे यदब्रवीत् ।अयं राक्षसमुख्यानां विनाशः पर्युपस्थितः ॥ २१ ॥
कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना ।त्वया कृतमिदं सर्वमनाथं रक्षसां कुलम् ॥ २२ ॥
न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः ।स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते ॥ २३ ॥
सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः ।आत्मानमनुशोचामि त्वद्वियोगेन दुःखिताम् ॥ २४ ॥
नीलजीमूतसंकाशः पीताम्बरशुभाङ्गदः ।सर्वगात्राणि विक्षिप्य किं शेषे रुधिराप्लुतः ।प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे ॥ २५ ॥
महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः ।यातुधानस्य दौहित्रीं किं त्वं मां नाभ्युदीक्षसे ॥ २६ ॥
येन सूदयसे शत्रून्समरे सूर्यवर्चसा ।वज्रो वज्रधरस्येव सोऽयं ते सततार्चितः ॥ २७ ॥
रणे शत्रुप्रहरणो हेमजालपरिष्कृतः ।परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा ॥ २८ ॥
धिगस्तु हृदयं यस्या ममेदं न सहस्रधा ।त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् ॥ २९ ॥
एतस्मिन्नन्तरे रामो विभीषणमुवाच ह ।संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय ॥ ३० ॥
तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः ।विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः ।रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत ॥ ३१ ॥
त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा ।नाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शकम् ॥ ३२ ॥
भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः ।रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् ॥ ३३ ॥
नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि ।श्रुत्वा तस्य गुणान्सर्वे वक्ष्यन्ति सुकृतं पुनः ॥ ३४ ॥
तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः ।विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् ॥ ३५ ॥
तवापि मे प्रियं कार्यं त्वत्प्रभवाच्च मे जितम् ।अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर ॥ ३६ ॥
अधर्मानृतसंयुक्तः काममेष निशाचरः ।तेजस्वी बलवाञ्शूरः संग्रामेषु च नित्यशः ॥ ३७ ॥
शतक्रतुमुखैर्देवैः श्रूयते न पराजितः ।महात्मा बलसंपन्नो रावणो लोकरावणः ॥ ३८ ॥
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ।क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ ३९ ॥
त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम् ।क्षिप्रमर्हति धर्मज्ञ त्वं यशोभाग्भविष्यसि ॥ ४० ॥
राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः ।संस्कारेणानुरूपेण योजयामास रावणम् ॥ ४१ ॥
स ददौ पावकं तस्य विधियुक्तं विभीषणः ।ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनः पुनः ॥ ४२ ॥
प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः ।रामपार्श्वमुपागम्य तदातिष्ठद्विनीतवत् ॥ ४३ ॥
रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः ।हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः ॥ ४४ ॥
« »