Click on words to see what they mean.

तमापतन्तं सहसा स्वनवन्तं महाध्वजम् ।रथं राक्षसराजस्य नरराजो ददर्श ह ॥ १ ॥
कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ।तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् ।शरधारा विमुञ्चन्तं धारासारमिवान्बुदम् ॥ २ ॥
तं दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः ।गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् ।उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ॥ ३ ॥
मातले पश्य संरब्धमापतन्तं रथं रिपोः ।यथापसव्यं पतता वेगेन महता पुनः ।समरे हन्तुमात्मानं तथानेन कृता मतिः ॥ ४ ॥
तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथं रिपोः ।विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ॥ ५ ॥
अविक्लवमसंभ्रान्तमव्यग्रहृदयेक्षणम् ।रश्मिसंचारनियतं प्रचोदय रथं द्रुतम् ॥ ६ ॥
कामं न त्वं समाधेयः पुरंदररथोचितः ।युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ॥ ७ ॥
परितुष्टः स रामस्य तेन वाक्येन मातलिः ।प्रचोदयामास रथं सुरसारथिसत्तमः ॥ ८ ॥
अपसव्यं ततः कुर्वन्रावणस्य महारथम् ।चक्रोत्क्षिप्तेन रजसा रावणं व्यवधूनयत् ॥ ९ ॥
ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः ।रथप्रतिमुखं रामं सायकैरवधूनयत् ॥ १० ॥
धर्षणामर्षितो रामो धैर्यं रोषेण लङ्घयन् ।जग्राह सुमहावेगमैन्द्रं युधि शरासनम् ।शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् ॥ ११ ॥
तदुपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः ।परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ॥ १२ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।समीयुर्द्वैरथं द्रष्टुं रावणक्षयकाङ्क्षिणः ॥ १३ ॥
समुत्पेतुरथोत्पाता दारुणा लोमहर्षणाः ।रावणस्य विनाशाय राघवस्य जयाय च ॥ १४ ॥
ववर्ष रुधिरं देवो रावणस्य रथोपरि ।वाता मण्डलिनस्तीव्रा अपसव्यं प्रचक्रमुः ॥ १५ ॥
महद्गृध्रकुलं चास्य भ्रममाणं नभस्तले ।येन येन रथो याति तेन तेन प्रधावति ॥ १६ ॥
संध्यया चावृता लङ्का जपापुष्पनिकाशया ।दृश्यते संप्रदीतेव दिवसेऽपि वसुंधरा ॥ १७ ॥
सनिर्घाता महोल्काश्च संप्रचेतुर्महास्वनाः ।विषादयन्त्यो रक्षांसि रावणस्य तदाहिताः ॥ १८ ॥
रावणश्च यतस्तत्र प्रचचाल वसुंधरा ।रक्षसां च प्रहरतां गृहीता इव बाहवः ॥ १९ ॥
ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः ।दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः ॥ २० ॥
गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः ।प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः ॥ २१ ॥
प्रतिकूलं ववौ वायू रणे पांसून्समुत्किरन् ।तस्य राक्षसराजस्य कुर्वन्दृष्टिविलोपनम् ॥ २२ ॥
निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः ।दुर्विषह्य स्वना घोरा विना जलधरस्वनम् ॥ २३ ॥
दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः ।पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत् ॥ २४ ॥
कुर्वन्त्यः कलहं घोरं सारिकास्तद्रथं प्रति ।निपेतुः शतशस्तत्र दारुणा दारुणस्वनाः ॥ २५ ॥
जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्योऽश्रूणि संततम् ।मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ॥ २६ ॥
एवं प्रकारा बहवः समुत्पाता भयावहाः ।रावणस्य विनाशाय दारुणाः संप्रजज्ञिरे ॥ २७ ॥
रामस्यापि निमित्तानि सौम्यानि च शिवानि च ।बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ॥ २८ ॥
ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः ।जगाम हर्षं च परां च निर्वृतिं चकार युद्धेऽभ्यधिकं च विक्रमम् ॥ २९ ॥
« »