Click on words to see what they mean.

स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः ।इन्द्रजित्परमक्रुद्धः संप्रजज्वाल तेजसा ॥ १ ॥
तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम् ।विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ॥ २ ॥
निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः ।भर्तारं न जहुर्युद्धे संपतन्तस्ततस्ततः ॥ ३ ॥
स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः ।ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः ॥ ४ ॥
मुक्तमिन्द्रजिता तत्तु शरवर्षमरिंदमः ।अवारयदसंभ्रान्तो लक्ष्मणः सुदुरासदम् ॥ ५ ॥
अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजः ।ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित् ।अविध्यत्परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन् ॥ ६ ॥
तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः ।रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः ॥ ७ ॥
स तथाप्यर्दितो बाणै राक्षसेन महामृधे ।तमाशु प्रतिविव्याध लक्ष्मणः पनभिः शरैः ॥ ८ ॥
लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ ।अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ ॥ ९ ॥
तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ ।घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये ॥ १० ॥
तस्मै दृढतरं क्रुद्धो हताश्वाय विभीषणः ।वज्रस्पर्शसमान्पञ्च ससर्जोरसि मार्गणान् ॥ ११ ॥
ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः ।बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः ॥ १२ ॥
स पितृव्यस्य संक्रुद्ध इन्द्रजिच्छरमाददे ।उत्तमं रक्षसां मध्ये यमदत्तं महाबलः ॥ १३ ॥
तं समीक्ष्य महातेजा महेषुं तेन संहितम् ।लक्ष्मणोऽप्याददे बाणमन्यं भीमपराक्रमः ॥ १४ ॥
कुबेरेण स्वयं स्वप्ने यद्दत्तममितात्मना ।दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः ॥ १५ ॥
ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ ।विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया ॥ १६ ॥
तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ ।मुखेन मुखमाहत्य संनिपेततुरोजसा ॥ १७ ॥
तौ महाग्रहसंकाशावन्योन्यं संनिपत्य च ।संग्रामे शतधा यातौ मेदिन्यां विनिपेततुः ॥ १८ ॥
शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि ।व्रीडितो जातरोषौ च लक्ष्मणेन्द्रजितावुभौ ॥ १९ ॥
सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे ।रौद्रं महेद्रजिद्युद्धे व्यसृजद्युधि विष्ठितः ॥ २० ॥
तयोः सुतुमुलं युद्धं संबभूवाद्भुतोपमम् ।गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् ॥ २१ ॥
भैरवाभिरुते भीमे युद्धे वानरराक्षसाम् ।भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ ॥ २२ ॥
ऋषयः पितरो देवा गन्धर्वा गरुणोरगाः ।शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे ॥ २३ ॥
अथान्यं मार्गणश्रेष्ठं संदधे रावणानुजः ।हुताशनसमस्पर्शं रावणात्मजदारुणम् ॥ २४ ॥
सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम् ।सुवर्णविकृतं वीरः शरीरान्तकरं शरम् ॥ २५ ॥
दुरावारं दुर्विषहं राक्षसानां भयावहम् ।आशीविषविषप्रख्यं देवसंघैः समर्चितम् ॥ २६ ॥
येन शक्रो महातेजा दानवानजयत्प्रभुः ।पुरा देवासुरे युद्धे वीर्यवान्हरिवाहनः ॥ २७ ॥
तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम् ।शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठोऽभिसंदधे ॥ २८ ॥
संधायामित्रदलनं विचकर्ष शरासनम् ।सज्यमायम्य दुर्धर्शः कालो लोकक्षये यथा ॥ २९ ॥
संधाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत् ।लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः ॥ ३० ॥
धर्मात्मा सत्यसंधश्च रामो दाशरथिर्यदि ।पौरुषे चाप्रतिद्वन्द्वस्तदेनं जहि रावणिम् ॥ ३१ ॥
इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम् ।लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति ।ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा ॥ ३२ ॥
तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् ।प्रमथ्येन्द्रजितः कायात्पपात धरणीतले ॥ ३३ ॥
तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत् ।तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् ॥ ३४ ॥
हतस्तु निपपाताशु धरण्यां रावणात्मजः ।कवची सशिरस्त्राणो विध्वस्तः सशरासनः ॥ ३५ ॥
चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः ।हृष्यन्तो निहते तस्मिन्देवा वृत्रवधे यथा ॥ ३६ ॥
अथान्तरिक्षे भूतानामृषीणां च महात्मनाम् ।अभिजज्ञे च संनादो गन्धर्वाप्सरसामपि ॥ ३७ ॥
पतितं समभिज्ञाय राक्षसी सा महाचमूः ।वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः ॥ ३८ ॥
वनरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः ।लङ्कामभिमुखाः सर्वे नष्टसंज्ञाः प्रधाविताः ॥ ३९ ॥
दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः ।त्यक्त्वा प्रहरणान्सर्वे पट्टसासिपरश्वधान् ॥ ४० ॥
केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः ।समुद्रे पतिताः केचित्केचित्पर्वतमाश्रिताः ॥ ४१ ॥
हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ ।राक्षसानां सहस्रेषु न कश्चित्प्रत्यदृश्यत ॥ ४२ ॥
यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः ।तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः ॥ ४३ ॥
शान्तरक्श्मिरिवादित्यो निर्वाण इव पावकः ।स बभूव महातेजा व्यपास्त गतजीवितः ॥ ४४ ॥
प्रशान्तपीडा बहुलो विनष्टारिः प्रहर्षवान् ।बभूव लोकः पतिते राक्षसेन्द्रसुते तदा ॥ ४५ ॥
हर्षं च शक्रो भगवान्सह सर्वैः सुरर्षभैः ।जगाम निहते तस्मिन्राक्षसे पापकर्मणि ॥ ४६ ॥
शुद्धा आपो नभश्चैव जहृषुर्दैत्यदानवाः ।आजग्मुः पतिते तस्मिन्सर्वलोकभयावहे ॥ ४७ ॥
ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः ।विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति ॥ ४८ ॥
ततोऽभ्यनन्दन्संहृष्टाः समरे हरियूथपाः ।तमप्रतिबलं दृष्ट्वा हतं नैरृतपुंगवम् ॥ ४९ ॥
विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः ।विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् ॥ ५० ॥
क्ष्वेडन्तश्च नदन्तश्च गर्जन्तश्च प्लवंगमाः ।लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे ॥ ५१ ॥
लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः ।लक्ष्मणो जयतीत्येवं वाक्यं व्यश्रावयंस्तदा ॥ ५२ ॥
अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः ।चक्रुरुच्चावचगुणा राघवाश्रयजाः कथाः ॥ ५३ ॥
तदसुकरमथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म ।परममुपलभन्मनःप्रहर्षं विनिहतमिन्द्ररिपुं निशम्य देवाः ॥ ५४ ॥
« »