Click on words to see what they mean.

ततो वैश्रवणो राजा यमश्चामित्रकर्शनः ।सहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः ॥ १ ॥
षडर्धनयनः श्रीमान्महादेवो वृषध्वजः ।कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥ २ ॥
एते सर्वे समागम्य विमानैः सूर्यसंनिभैः ।आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् ॥ ३ ॥
ततः सहस्ताभरणान्प्रगृह्य विपुलान्भुजान् ।अब्रुवंस्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम् ॥ ४ ॥
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः ।उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ।कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे ॥ ५ ॥
ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः ।त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः ॥ ६ ॥
रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः ।अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी ॥ ७ ॥
अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप ।उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा ॥ ८ ॥
इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ।अब्रवीत्त्रिदशश्रेष्ठान्रामो धर्मभृतां वरः ॥ ९ ॥
आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ।योऽहं यस्य यतश्चाहं भगवांस्तद्ब्रवीतु मे ॥ १० ॥
इति ब्रुवाणं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः ।अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम ॥ ११ ॥
भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः ।एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् ॥ १२ ॥
अक्षरं ब्रह्मसत्यं च मध्ये चान्ते च राघव ।लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः ॥ १३ ॥
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ।अजितः खड्गधृग्विष्णुः कृष्णश्चैव बृहद्बलः ॥ १४ ॥
सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः ।प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ॥ १५ ॥
इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् ।शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः ॥ १६ ॥
सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः ।त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परंतप ॥ १७ ॥
प्रभवं निधनं वा ते न विदुः को भवानिति ।दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ॥ १८ ॥
दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ।सहस्रचरणः श्रीमाञ्शतशीर्षः सहस्रधृक् ॥ १९ ॥
त्वं धारयसि भूतानि वसुधां च सपर्वताम् ।अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः ॥ २० ॥
त्रीँल्लोकान्धारयन्राम देवगन्धर्वदानवान् ।अहं ते हृदयं राम जिह्वा देवी सरस्वती ॥ २१ ॥
देवा गात्रेषु लोमानि निर्मिता ब्रह्मणा प्रभो ।निमेषस्तेऽभवद्रात्रिरुन्मेषस्तेऽभवद्दिवा ॥ २२ ॥
संस्कारास्तेऽभवन्वेदा न तदस्ति त्वया विना ।जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ॥ २३ ॥
अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षण ।त्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः ॥ २४ ॥
महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ।सीता लक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः ॥ २५ ॥
वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ।तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर ॥ २६ ॥
निहतो रावणो राम प्रहृष्टो दिवमाक्रम ।अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः ॥ २७ ॥
अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः ।ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ॥ २८ ॥
ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥ २९ ॥
« »