Click on words to see what they mean.

ततः स कर्मणा तस्य विस्मितो भीमविक्रमः ।हनुमान्रोषताम्राक्षो रक्षोऽधिपमवैक्षत ॥ १ ॥
भाजमानं महार्हेण काञ्चनेन विराजता ।मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ॥ २ ॥
वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः ।हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ॥ ३ ॥
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् ।स्वनुलिप्तं विचित्राभिर्विविधभिश्च भक्तिभिः ॥ ४ ॥
विपुलैर्दर्शनीयैश्च रक्षाक्षैर्भीमदर्शनैः ।दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः ॥ ५ ॥
शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसं ।नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ॥ ६ ॥
नीलाञ्जनचय प्रख्यं हारेणोरसि राजता ।पूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदम् ॥ ७ ॥
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः ।भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैरिवोरगैः ॥ ८ ॥
महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते ।उत्तमास्तरणास्तीर्णे उपविष्टं वरासने ॥ ९ ॥
अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः ।वालव्यजनहस्ताभिरारात्समुपसेवितम् ॥ १० ॥
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा ।मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ॥ ११ ॥
उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः ।कृत्स्नैः परिवृतं लोकं चतुर्भिरिव सागरैः ॥ १२ ॥
मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः ।अन्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम् ॥ १३ ॥
अपश्यद्राक्षसपतिं हनूमानतितेजसं ।विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ॥ १४ ॥
स तैः संपीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः ।विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत ॥ १५ ॥
भ्राजमानं ततो दृष्ट्वा हनुमान्राक्षसेश्वरम् ।मनसा चिन्तयामास तेजसा तस्य मोहितः ॥ १६ ॥
अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः ।अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥ १७ ॥
यद्यधर्मो न बलवान्स्यादयं राक्षसेश्वरः ।स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता ॥ १८ ॥
तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ।अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ॥ १९ ॥
इति चिन्तां बहुविधामकरोन्मतिमान्कपिः ।दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ॥ २० ॥
« »