हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः ।सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ॥ १ ॥
अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥ २ ॥
यां कपीनां सहस्राणि सुबहून्ययुतानि च ।दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥ ३ ॥
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षिता ।गूढेन चरता तावदवेक्षितमिदं मया ॥ ४ ॥
राक्षसानां विशेषश्च पुरी चेयमवेक्षिता ।राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥ ५ ॥
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् ॥ ६ ॥
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम् ॥ ७ ॥
यदि ह्यहमिमां देवीं शोकोपहतचेतनाम् ।अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् ॥ ८ ॥
गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ॥ ९ ॥
मया च स महाबाहुः पूर्णचन्द्रनिभाननः ।समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ॥ १० ॥
निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषणम् ।कथं नु खलु कर्तव्यमिदं कृच्छ्र गतो ह्यहम् ॥ ११ ॥
अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम् ॥ १२ ॥
रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः ।किमहं तं प्रतिब्रूयामसंभाष्य सुमध्यमाम् ॥ १३ ॥
सीतासंदेशरहितं मामितस्त्वरया गतम् ।निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ॥ १४ ॥
यदि चेद्योजयिष्यामि भर्तारं रामकारणात् ।व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ १५ ॥
अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः ।शनैराश्वासयिष्यामि संतापबहुलामिमाम् ॥ १६ ॥
अहं ह्यतितनुश्चैव वनरश्च विशेषतः ।वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥ १७ ॥
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।रावणं मन्यमाना मां सीता भीता भविष्यति ॥ १८ ॥
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ।मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ॥ १९ ॥
सेयमालोक्य मे रूपं जानकी भाषितं तथा ।रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ॥ २० ॥
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ।जानमाना विशालाक्षी रावणं कामरूपिणम् ॥ २१ ॥
सीतया च कृते शब्दे सहसा राक्षसीगणः ।नानाप्रहरणो घोरः समेयादन्तकोपमः ॥ २२ ॥
ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ।वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ॥ २३ ॥
तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ।दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ॥ २४ ॥
मम रूपं च संप्रेक्ष्य वनं विचरतो महत् ।राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ॥ २५ ॥
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ।राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ॥ २६ ॥
ते शूलशरनिस्त्रिंश विविधायुधपाणयः ।आपतेयुर्विमर्देऽस्मिन्वेगेनोद्विग्नकारिणः ॥ २७ ॥
संक्रुद्धस्तैस्तु परितो विधमन्रक्षसां बलम् ।शक्नुयं न तु संप्राप्तुं परं पारं महोदधेः ॥ २८ ॥
मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः ।स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ॥ २९ ॥
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ।विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ॥ ३० ॥
उद्देशे नष्टमार्गेऽस्मिन्राक्षसैः परिवारिते ।सागरेण परिक्षिप्ते गुप्ते वसति जानकी ॥ ३१ ॥
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ।नान्यं पश्यामि रामस्य सहायं कार्यसाधने ॥ ३२ ॥
विमृशंश्च न पश्यामि यो हते मयि वानरः ।शतयोजनविस्तीर्णं लङ्घयेत महोदधिम् ॥ ३३ ॥
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् ।न तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ॥ ३४ ॥
असत्यानि च युद्धानि संशयो मे न रोचते ।कश्च निःसंशयं कार्यं कुर्यात्प्राज्ञः ससंशयम् ॥ ३५ ॥
एष दोषो महान्हि स्यान्मम सीताभिभाषणे ।प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ॥ ३६ ॥
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ।विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ ३७ ॥
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ।घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ ३८ ॥
न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् ।लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ ३९ ॥
कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च ।इति संचिन्त्य हनुमांश्चकार मतिमान्मतिम् ॥ ४० ॥
राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ।नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ॥ ४१ ॥
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ।शुभानि धर्मयुक्तानि वचनानि समर्पयन् ॥ ४२ ॥
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन्गिरम् ।श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ॥ ४३ ॥
इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ।मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥ ४४ ॥