तथा ब्रुवति तारे तु ताराधिपतिवर्चसि ।अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् ॥ १ ॥
बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् ।चतुर्दशगुणं मेने हनुमान्वालिनः सुतम् ॥ २ ॥
आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः ।शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥ ३ ॥
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः ।शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम् ॥ ४ ॥
भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदम् ।अभिसंधातुमारेभे हनुमानङ्गदं ततः ॥ ५ ॥
स चतुर्णामुपायानां तृतीयमुपवर्णयन् ।भेदयामास तान्सर्वान्वानरान्वाक्यसंपदा ॥ ६ ॥
तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् ।भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः ॥ ७ ॥
त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् ।दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥ ८ ॥
नित्यमस्थिरचित्ता हि कपयो हरिपुंगव ।नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान्विना त्वया ॥ ९ ॥
त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते ।यथायं जाम्बवान्नीलः सुहोत्रश्च महाकपिः ॥ १० ॥
न ह्यहं त इमे सर्वे सामदानादिभिर्गुणैः ।दण्डेन न त्वया शक्याः सुग्रीवादपकर्षितुम् ॥ ११ ॥
विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः ।आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः ॥ १२ ॥
यां चेमां मन्यसे धात्रीमेतद्बिलमिति श्रुतम् ।एतल्लक्ष्मणबाणानामीषत्कार्यं विदारणे ॥ १३ ॥
स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा ।लक्ष्मणो निशितैर्बाणैर्भिन्द्यात्पत्रपुटं यथा ।लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः ॥ १४ ॥
अवस्थाने यदैव त्वमासिष्यसि परंतप ।तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ॥ १५ ॥
स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः ।खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः ॥ १६ ॥
स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः ।तृणादपि भृशोद्विग्नः स्पन्दमानाद्भविष्यसि ॥ १७ ॥
न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः ।अपवृत्तं जिघांसन्तो महावेगा दुरासदाः ॥ १८ ॥
अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् ।आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥ १९ ॥
धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः ।शुचिः सत्यप्रतिज्ञश्च ना त्वां जातु जिघांसति ॥ २० ॥
प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् ।तस्यापत्यं च नास्त्यन्यत्तस्मादङ्गद गम्यताम् ॥ २१ ॥