Click on words to see what they mean.

ऋश्यमूकात्तु हनुमान्गत्वा तं मलयं गिरम् ।आचचक्षे तदा वीरौ कपिराजाय राघवौ ॥ १ ॥
अयं रामो महाप्राज्ञः संप्राप्तो दृढविक्रमः ।लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ॥ २ ॥
इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः ।धर्मे निगदितश्चैव पितुर्निर्देशपालकः ॥ ३ ॥
तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः ।रक्षसापहृता भार्या स त्वां शरणमागतः ॥ ४ ॥
राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः ।दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ॥ ५ ॥
तपसा सत्यवाक्येन वसुधा येन पालिता ।स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः ॥ ६ ॥
भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ ।प्रतिगृह्यार्चयस्वेमौ पूजनीयतमावुभौ ॥ ७ ॥
श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः ।भयं स राघवाद्घोरं प्रजहौ विगतज्वरः ॥ ८ ॥
स कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपः ।दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥ ९ ॥
भवान्धर्मविनीतश्च विक्रान्तः सर्ववत्सलः ।आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ॥ १० ॥
तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो ।यत्त्वमिच्छसि सौहार्दं वानरेण मया सह ॥ ११ ॥
रोचते यदि वा सख्यं बाहुरेष प्रसारितः ।गृह्यतां पाणिना पाणिर्मर्यादा वध्यतां ध्रुवा ॥ १२ ॥
एतत्तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् ।संप्रहृष्टमना हस्तं पीडयामास पाणिना ।हृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम् ॥ १३ ॥
ततो हनूमान्संत्यज्य भिक्षुरूपमरिंदमः ।काष्ठयोः स्वेन रूपेण जनयामास पावकम् ॥ १४ ॥
दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम् ।तयोर्मध्ये तु सुप्रीतो निदधे सुसमाहितः ॥ १५ ॥
ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् ।सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ॥ १६ ॥
ततः सुप्रीत मनसौ तावुभौ हरिराघवौ ।अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः ॥ १७ ॥
ततः सर्वार्थविद्वांसं रामं दशरथात्मजम् ।सुग्रीवः प्राह तेजस्वी वाक्यमेकमनास्तदा ॥ १८ ॥
« »