Click on words to see what they mean.

ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् ।वीरं शतबलिं नाम वानरं वानरर्षभः ॥ १ ॥
उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम् ।वाक्यमात्महितं चैव रामस्य च हितं तथा ॥ २ ॥
वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् ।वैवस्वत सुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ॥ ३ ॥
दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् ।सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥ ४ ॥
अस्मिन्कार्ये विनिवृत्ते कृते दाशरथेः प्रिये ।ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥ ५ ॥
कृतं हि प्रियमस्माकं राघवेण महात्मना ।तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥ ६ ॥
एतां बुद्धिं समास्थाय दृश्यते जानकी यथा ।तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ ७ ॥
अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः ।अस्मासु चागतप्रीती रामः परपुरंजयः ॥ ८ ॥
इमानि वनदुर्गाणि नद्यः शैलान्तराणि च ।भवन्तः परिमार्गंस्तु बुद्धिविक्रमसंपदा ॥ ९ ॥
तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च ।प्रस्थालान्भरतांश्चैव कुरूंश्च सह मद्रकैः ॥ १० ॥
काम्बोजान्यवनांश्चैव शकानारट्टकानपि ।बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् ॥ ११ ॥
चीनान्परमचीनांश्च नीहारांश्च पुनः पुनः ।अन्विष्य दरदांश्चैव हिमवन्तं विचिन्वथ ॥ १२ ॥
लोध्रपद्मकषण्डेषु देवदारुवनेषु च ।रावणः सह वैदेह्य मार्गितव्यस्ततस्ततः ॥ १३ ॥
ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् ।कालं नाम महासानुं पर्वतं तं गमिष्यथ ॥ १४ ॥
महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च ।विचिनुध्वं महाभागां रामपत्नीं यशस्विनीम् ॥ १५ ॥
तमतिक्रम्य शैलेन्द्रं हेमवर्गं महागिरिम् ।ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ ॥ १६ ॥
तस्य काननषण्डेषु निर्दरेषु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ १७ ॥
तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् ।अपर्वतनदी वृक्षं सर्वसत्त्वविवर्जितम् ॥ १८ ॥
तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् ।कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥ १९ ॥
तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् ।कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा ॥ २० ॥
विशाला नलिनी यत्र प्रभूतकमलोत्पला ।हंसकारण्डवाकीर्णा अप्सरोगणसेविता ॥ २१ ॥
तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः ।धनदो रमते श्रीमान्गुह्यकैः सह यक्षराट् ॥ २२ ॥
तस्य चन्द्रनिकशेषु पर्वतेषु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ २३ ॥
क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् ।अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥ २४ ॥
वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः ।देवैरप्यर्चिताः सम्यग्देवरूपा महर्षयः ॥ २५ ॥
क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च ।निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥ २६ ॥
क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः ।अवृक्षं कामशैलं च मानसं विहगालयम् ॥ २७ ॥
न गतिस्तत्र भूतानां देवदानवरक्षसाम् ।स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः ॥ २८ ॥
क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः ।मयस्य भवनं तत्र दानवस्य स्वयं कृतम् ॥ २९ ॥
मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः ।स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ॥ ३० ॥
तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ।सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ ३१ ॥
वन्द्यास्ते तु तपःसिद्धास्तापसा वीतकल्मषाः ।प्रष्टव्याश्चापि सीतायाः प्रवृत्तं विनयान्वितैः ॥ ३२ ॥
हेमपुष्करसंछन्नं तत्र वैखानसं सरः ।तरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः ॥ ३३ ॥
औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः ।गजः पर्येति तं देशं सदा सह करेणुभिः ॥ ३४ ॥
तत्सारः समतिक्रम्य नष्टचन्द्रदिवाकरम् ।अनक्षत्रगणं व्योम निष्पयोदमनादिमत् ॥ ३५ ॥
गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते ।विश्राम्यद्भिस्तपः सिद्धैर्देवकल्पैः स्वयम्प्रभैः ॥ ३६ ॥
तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ।उभयोस्तीरयोर्यस्याः कीचका नाम वेणवः ॥ ३७ ॥
ते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति च ।उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रियाः ॥ ३८ ॥
ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः ।नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः ॥ ३९ ॥
रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः ।तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥ ४० ॥
महार्हमणिपत्रैश्च काञ्चनप्रभ केसरैः ।नीलोत्पलवनैश्चित्रैः स देशः सर्वतोवृतः ॥ ४१ ॥
निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ।उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ ४२ ॥
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः ।जातरूपमयैश्चापि हुताशनसमप्रभैः ॥ ४३ ॥
नित्यपुष्पफलाश्चात्र नगाः पत्ररथाकुलाः ।दिव्यगन्धरसस्पर्शाः सर्वकामान्स्रवन्ति च ॥ ४४ ॥
नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ।मुक्तावैदूर्यचित्राणि भूषणानि तथैव च ॥ ४५ ॥
स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च ।सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः ॥ ४६ ॥
महार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः ।शयनानि प्रसूयन्ते चित्रास्तारणवन्ति च ॥ ४७ ॥
मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः ।पानानि च महार्हाणि भक्ष्याणि विविधानि च ॥ ४८ ॥
स्त्रियश्च गुणसंपन्ना रूपयौवनलक्षिताः ।गन्धर्वाः किंनरा सिद्धा नागा विद्याधरास्तथा ।रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ॥ ४९ ॥
सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः ।सर्वे कामार्थसहिता वसन्ति सह योषितः ॥ ५० ॥
गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः ।श्रूयते सततं तत्र सर्वभूतमनोहरः ॥ ५१ ॥
तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः ।अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥ ५२ ॥
समतिक्रम्य तं देशमुत्तरस्तोयसां निधिः ।तत्र सोमगिरिर्नाम मध्ये हेममयो महान् ॥ ५३ ॥
इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये ।देवास्तं समवेक्षन्ते गिरिराजं दिवं गतम् ॥ ५४ ॥
स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते ।सूर्यलक्ष्म्याभिविज्ञेयस्तपसेव विवस्वता ॥ ५५ ॥
भगवानपि विश्वात्मा शम्भुरेकादशात्मकः ।ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ॥ ५६ ॥
न कथंचन गन्तव्यं कुरूणामुत्तरेण वः ।अन्येषामपि भूतानां नातिक्रामति वै गतिः ॥ ५७ ॥
सा हि सोमगिरिर्नाम देवानामपि दुर्गमः ।तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ॥ ५८ ॥
एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः ।अभास्करममर्यादं न जानीमस्ततः परम् ॥ ५९ ॥
सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् ।यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥ ६० ॥
ततः कृतं दाशरथेर्महत्प्रियं महत्तरं चापि ततो मम प्रियम् ।कृतं भविष्यत्यनिलानलोपमा विदेहजा दर्शनजेन कर्मणा ॥ ६१ ॥
ततः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः ।चरिष्यथोर्वीं प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवंगमाः ॥ ६२ ॥
« »