Click on words to see what they mean.

रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः ।परिणम्य निशां तत्र प्रभाते प्रत्यबुध्यत ॥ १ ॥
उत्थाय तु यथाकालं राघवः सह सीतया ।उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना ॥ २ ॥
अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ ।काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने ॥ ३ ॥
उदयन्न्तं दिनकरं दृष्ट्वा विगतकल्मषाः ।सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन् ॥ ४ ॥
सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः ।आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः ॥ ५ ॥
त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् ।ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् ॥ ६ ॥
अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुङ्गवैः ।धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः ॥ ७ ॥
अविषह्यातपो यावत्सूर्यो नातिविराजिते ।अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः ॥ ८ ॥
तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः ।ववन्दे सहसौमित्रिः सीतया सह राघवः ॥ ९ ॥
तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवः ।गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत् ॥ १० ॥
अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह ।सीतया चानया सार्धं छाययेवानुवृत्तया ॥ ११ ॥
पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् ।एषां तपस्विनां वीर तपसा भावितात्मनाम् ॥ १२ ॥
सुप्राज्यफलमूलानि पुष्पितानि वनानि च ।प्रशान्तमृगयूथानि शान्तपक्षिगणानि च ॥ १३ ॥
फुल्लपङ्कजषडानि प्रसन्नसलिलानि च ।कारण्डवविकीर्णानि तटाकानि सरांसि च ॥ १४ ॥
द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च ।रमणीयान्यरण्यानि मयूराभिरुतानि च ॥ १५ ॥
गम्यतां वत्स सौमित्रे भवानपि च गच्छतु ।आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं मम ॥ १६ ॥
एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः ।प्रदक्षिणं मुनिं कृता प्रस्थातुमुपचक्रमे ॥ १७ ॥
ततः शुभतरे तूणी धनुषी चायतेक्षणा ।ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः ॥ १८ ॥
आबध्य च शुभे तूणी चापे चादाय सस्वने ।निष्क्रान्तावाश्रमाद्गन्तुमुभौ तौ रामलक्ष्मणौ ॥ १९ ॥
« »