तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः ।प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥ १ ॥
सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ २ ॥
न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम् ।अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ॥ ३ ॥
अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् ।अपि रामो न संक्रुद्धः कुर्याल्लोकमराक्षसं ॥ ४ ॥
अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा ।अपि सीता निमित्तं च न भवेद्व्यसनं महत् ॥ ५ ॥
अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् ।न विनश्येत्पुरी लङ्का त्वया सह सराक्षसा ॥ ६ ॥
त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः ।आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ॥ ७ ॥
न च पित्रा परित्यक्तो नामर्यादः कथंचन ।न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः ॥ ८ ॥
न च धर्मगुणैर्हीनैः कौसल्यानन्दवर्धनः ।न च तीक्ष्णो हि भूतानां सर्वेषां च हिते रतः ॥ ९ ॥
वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् ।करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम् ॥ १० ॥
कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च ।हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् ॥ ११ ॥
न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः ।अनृतं न श्रुतं चैव नैव त्वं वक्तुमर्हसि ॥ १२ ॥
रामो विग्रहवान्धर्मः साधुः सत्यपराक्रमः ।राजा सर्वस्य लोकस्य देवानामिव वासवः ॥ १३ ॥
कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा ।इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः ॥ १४ ॥
शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे ।रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ॥ १५ ॥
धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् ।चापबाणधरं वीरं शत्रुसेनापहारिणम् ॥ १६ ॥
राज्यं सुखं च संत्यज्य जीवितं चेष्टमात्मनः ।नात्यासादयितुं तात रामान्तकमिहार्हसि ॥ १७ ॥
अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा ।न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने ॥ १८ ॥
प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता ।दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ॥ १९ ॥
किमुद्यमं व्यर्थमिमं कृत्वा ते राक्षसाधिप ।दृष्टश्चेत्त्वं रणे तेन तदन्तं तव जीवितम् ।जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् ॥ २० ॥
स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः ।मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः ॥ २१ ॥
दोषाणां च गुणानां च संप्रधार्य बलाबलम् ।आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः ।हितं हि तव निश्चित्य क्षमं त्वं कर्तुमर्हसि ॥ २२ ॥
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना ।इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचराधिप ॥ २३ ॥