Click on words to see what they mean.

कदाचिदप्यहं वीर्यात्पर्यटन्पृथिवीमिमाम् ।बलं नागसहस्रस्य धारयन्पर्वतोपमः ॥ १ ॥
नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः ।भयं लोकस्य जनयन्किरीटी परिघायुधः ।व्यचरं दण्डकारण्यमृषिमांसानि भक्षयन् ॥ २ ॥
विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः ।स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत् ॥ ३ ॥
अयं रक्षतु मां रामः पर्वकाले समाहितः ।मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर ॥ ४ ॥
इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा ।प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् ॥ ५ ॥
ऊन षोडश वर्षोऽयमकृतास्त्रश्च राघवः ।कामं तु मम यत्सैन्यं मया सह गमिष्यति ।बधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम् ॥ ६ ॥
इत्येवमुक्तः स मुनी राजानं पुनरब्रवीत् ।रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः ॥ ७ ॥
बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे ।गमिष्ये राममादाय स्वस्ति तेऽस्तु परंतपः ॥ ८ ॥
इत्येवमुक्त्वा स मुनिस्तमादाय नृपात्मजम् ।जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम् ॥ ९ ॥
तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम् ।बभूवावस्थितो रामश्चित्रं विस्फारयन्धनुः ॥ १० ॥
अजातव्यञ्जनः श्रीमान्बालः श्यामः शुभेक्षणः ।एकवस्त्रधरो धन्वी शिखी कनकमालया ॥ ११ ॥
शोभयन्दण्डकारण्यं दीप्तेन स्वेन तेजसा ।अदृश्यत तदा रामो बालचन्द्र इवोदितः ॥ १२ ॥
ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलः ।बली दत्तवरो दर्पादाजगाम तदाश्रमम् ॥ १३ ॥
तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः ।मां तु दृष्ट्वा धनुः सज्यमसंभ्रान्तश्चकार ह ॥ १४ ॥
अवजानन्नहं मोहाद्बालोऽयमिति राघवम् ।विश्वामित्रस्य तां वेदिमध्यधावं कृतत्वरः ॥ १५ ॥
तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः ।तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने ॥ १६ ॥
रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः ।पातितोऽहं तदा तेन गम्भीरे सागराम्भसि ।प्राप्य संज्ञां चिरात्तात लङ्कां प्रति गतः पुरीम् ॥ १७ ॥
एवमस्मि तदा मुक्तः सहायास्ते निपातिताः ।अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा ॥ १८ ॥
तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम् ।करिष्यस्यापदं घोरां क्षिप्रं प्राप्य नशिष्यसि ॥ १९ ॥
क्रीडा रतिविधिज्ञानां समाजोत्सवशालिनाम् ।रक्षसां चैव संतापमनर्थं चाहरिष्यसि ॥ २० ॥
हर्म्यप्रासादसंबाधां नानारत्नविभूषिताम् ।द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते ॥ २१ ॥
अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् ।परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा ॥ २२ ॥
दिव्यचन्दनदिग्धाङ्गान्दिव्याभरणभूषितान् ।द्रक्ष्यस्यभिहतान्भूमौ तव दोषात्तु राक्षसान् ॥ २३ ॥
हृतदारान्सदारांश्च दशविद्रवतो दिशः ।हतशेषानशरणान्द्रक्ष्यसि त्वं निशाचरान् ॥ २४ ॥
शरजालपरिक्षिप्तामग्निज्वालासमावृताम् ।प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वमसंशयम् ॥ २५ ॥
प्रमदानां सहस्राणि तव राजन्परिग्रहः ।भव स्वदारनिरतः स्वकुलं रक्षराक्षस ॥ २६ ॥
मानं वृद्धिं च राज्यं च जीवितं चेष्टमात्मनः ।यदीच्छसि चिरं भोक्तुं मा कृथा राम विप्रियम् ॥ २७ ॥
निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि ।गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरात्तजीवितः ॥ २८ ॥
« »