गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ।ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥ १ ॥
सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः ।पुण्डरीक विशालाक्षस्तरुणः प्रियदर्शनः ॥ २ ॥
प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः ।पपात सहसा तोत्रैर्हृदि विद्ध इव द्विपः ॥ ३ ॥
तदवस्थं तु भरतं शत्रुघ्नोऽनन्तर स्थितः ।परिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः ॥ ४ ॥
ततः सर्वाः समापेतुर्मातरो भरतस्य ताः ।उपवास कृशा दीना भर्तृव्यसनकर्शिताः ॥ ५ ॥
ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् ।कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे ॥ ६ ॥
वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी ।परिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥ ७ ॥
पुत्रव्याधिर्न ते कच्चिच्छरीरं परिबाधते ।अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् ॥ ८ ॥
त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ॥ ९ ॥
कच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किंचिदप्रियम् ।पुत्र वा ह्येकपुत्रायाः सहभार्ये वनं गते ॥ १० ॥
स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः ।कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥ ११ ॥
भ्राता मे क्वावसद्रात्रिं क्व सीता क्व च लक्ष्मणः ।अस्वपच्छयने कस्मिन्किं भुक्त्वा गुह शंस मे ॥ १२ ॥
सोऽब्रवीद्भरतं पृष्टो निषादाधिपतिर्गुहः ।यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥ १३ ॥
अन्नमुच्चावचं भक्ष्याः फलानि विविधानि च ।रामायाभ्यवहारार्थं बहुचोपहृतं मया ॥ १४ ॥
तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः ।न हि तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन् ॥ १५ ॥
न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा ।इति तेन वयं राजन्ननुनीता महात्मना ॥ १६ ॥
लक्ष्मणेन समानीतं पीत्वा वारि महायशाः ।औपवास्यं तदाकार्षीद्राघवः सह सीतया ॥ १७ ॥
ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा ।वाग्यतास्ते त्रयः संध्यामुपासत समाहिताः ॥ १८ ॥
सौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम् ।स्वयमानीय बर्हींषि क्षिप्रं राघव कारणात् ॥ १९ ॥
तस्मिन्समाविशद्रामः स्वास्तरे सह सीतया ।प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः ॥ २० ॥
एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम् ।यस्मिन्रामश्च सीता च रात्रिं तां शयितावुभौ ॥ २१ ॥
नियम्य पृष्ठे तु तलाङ्गुलित्रवाञ्शरैः सुपूर्णाविषुधी परंतपः ।महद्धनुः सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत्परितोऽस्य केवलम् ॥ २२ ॥
ततस्त्वहं चोत्तमबाणचापधृक्स्थितोऽभवं तत्र स यत्र लक्ष्मणः ।अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा ॥ २३ ॥