Click on words to see what they mean.

मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।उष्णमश्रु विमुञ्चन्तो रामे संप्रस्थिते वनम् ॥ १ ॥
उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमज्ञलिम् ।प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन् ॥ २ ॥
गुहेव सार्धं तत्रैव स्थितोऽस्मि दिवसान्बहून् ।आशया यदि मां रामः पुनः शब्दापयेदिति ॥ ३ ॥
विषये ते महाराज रामव्यसनकर्शिताः ।अपि वृक्षाः परिम्लानः सपुष्पाङ्कुरकोरकाः ॥ ४ ॥
न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च ।रामशोकाभिभूतं तन्निष्कूजमभवद्वनम् ॥ ५ ॥
लीनपुष्करपत्राश्च नरेन्द्र कलुषोदकाः ।संतप्तपद्माः पद्मिन्यो लीनमीनविहंगमाः ॥ ६ ॥
जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।नाद्य भान्त्यल्पगन्धीनि फलानि च यथा पुरम् ॥ ७ ॥
प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति ।नरा राममपश्यन्तो निःश्वसन्ति मुहुर्मुहुः ॥ ८ ॥
हर्म्यैर्विमानैः प्रासादैरवेक्ष्य रथमागतम् ।हाहाकारकृता नार्यो रामादर्शनकर्शिताः ॥ ९ ॥
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।अन्योन्यमभिवीक्षन्ते व्यक्तमार्ततराः स्त्रियः ॥ १० ॥
नामित्राणां न मित्राणामुदासीनजनस्य च ।अहमार्ततया कंचिद्विशेषं नोपलक्षये ॥ ११ ॥
अप्रहृष्टमनुष्या च दीननागतुरंगमा ।आर्तस्वरपरिम्लाना विनिःश्वसितनिःस्वना ॥ १२ ॥
निरानन्दा महाराज रामप्रव्राजनातुरा ।कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा ॥ १३ ॥
सूतस्य वचनं श्रुत्वा वाचा परमदीनया ।बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ॥ १४ ॥
कैकेय्या विनियुक्तेन पापाभिजनभावया ।मया न मन्त्रकुशलैर्वृद्धैः सह समर्थितम् ॥ १५ ॥
न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा न नैगमैः ।मयायमर्थः संमोहात्स्त्रीहेतोः सहसा कृतः ॥ १६ ॥
भवितव्यतया नूनमिदं वा व्यसनं महत् ।कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ॥ १७ ॥
सूत यद्यस्ति ते किंचिन्मयापि सुकृतं कृतम् ।त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम् ॥ १८ ॥
यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम् ।न शक्ष्यामि विना राम मुहूर्तमपि जीवितुम् ॥ १९ ॥
अथ वापि महाबाहुर्गतो दूरं भविष्यति ।मामेव रथमारोप्य शीघ्रं रामाय दर्शय ॥ २० ॥
वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः ।यदि जीवामि साध्वेनं पश्येयं सह सीतया ॥ २१ ॥
लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम् ।रामं यदि न पश्यामि गमिष्यामि यमक्षयम् ॥ २२ ॥
अतो नु किं दुःखतरं योऽहमिक्ष्वाकुनन्दनम् ।इमामवस्थामापन्नो नेह पश्यामि राघवम् ॥ २३ ॥
हा राम रामानुज हा हा वैदेहि तपस्विनी ।न मां जानीत दुःखेन म्रियमाणमनाथवत् ।दुस्तरो जीवता देवि मयायं शोकसागरः ॥ २४ ॥
अशोभनं योऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम् ।इतीव राजा विलपन्महायशाः पपात तूर्णं शयने स मूर्छितः ॥ २५ ॥
इति विलपति पार्थिवे प्रनष्टे करुणतरं द्विगुणं च रामहेतोः ।वचनमनुनिशम्य तस्य देवी भयमगमत्पुनरेव राममाता ॥ २६ ॥
« »