Click on words to see what they mean.

प्रत्याश्वस्तो यदा राजा मोहात्प्रत्यागतः पुनः ।अथाजुहाव तं सूतं रामवृत्तान्तकारणात् ॥ १ ॥
वृद्धं परमसंतप्तं नवग्रहमिव द्विपम् ।विनिःश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम् ॥ २ ॥
राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम् ।अश्रुपूर्णमुखं दीनमुवाच परमार्तवत् ॥ ३ ॥
क्व नु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः ।सोऽत्यन्तसुखितः सूत किमशिष्यति राघवः ।भूमिपालात्मजो भूमौ शेते कथमनाथवत् ॥ ४ ॥
यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः ।स वत्स्यति कथं रामो विजनं वनमाश्रितः ॥ ५ ॥
व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम् ।कथं कुमारौ वैदेह्या सार्धं वनमुपस्थितौ ॥ ६ ॥
सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ ॥ ७ ॥
सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ ।वनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम् ॥ ८ ॥
किमुवाच वचो रामः किमुवाच च लक्ष्मणः ।सुमन्त्र वनमासाद्य किमुवाच च मैथिली ।आसितं शयितं भुक्तं सूत रामस्य कीर्तय ॥ ९ ॥
इति सूतो नरेन्द्रेण चोदितः सज्जमानया ।उवाच वाचा राजानं सबाष्पपरिरब्धया ॥ १० ॥
अब्रवीन्मां महाराज धर्ममेवानुपालयन् ।अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च ॥ ११ ॥
सूत मद्वचनात्तस्य तातस्य विदितात्मनः ।शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥ १२ ॥
सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया ।आरोग्यमविशेषेण यथार्हं चाभिवादनम् ॥ १३ ॥
माता च मम कौसल्या कुशलं चाभिवादनम् ।देवि देवस्य पादौ च देववत्परिपालय ॥ १४ ॥
भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च ।सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु ॥ १५ ॥
वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः ।पितरं यौवराज्यस्थो राज्यस्थमनुपालय ॥ १६ ॥
इत्येवं मां महाराज ब्रुवन्नेव महायशाः ।रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत् ॥ १७ ॥
लक्ष्मणस्तु सुसंक्रुद्धो निःश्वसन्वाक्यमब्रवीत् ।केनायमपराधेन राजपुत्रो विवासितः ॥ १८ ॥
यदि प्रव्राजितो रामो लोभकारणकारितम् ।वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ।रामस्य तु परित्यागे न हेतुमुपलक्षये ॥ १९ ॥
असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् ।जनयिष्यति संक्रोशं राघवस्य विवासनम् ॥ २० ॥
अहं तावन्महाराजे पितृत्वं नोपलक्षये ।भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ॥ २१ ॥
सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् ।सर्वलोकोऽनुरज्येत कथं त्वानेन कर्मणा ॥ २२ ॥
जानकी तु महाराज निःश्वसन्ती तपस्विनी ।भूतोपहतचित्तेव विष्ठिता विष्मृता स्थिता ॥ २३ ॥
अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी ।तेन दुःखेन रुदती नैव मां किंचिदब्रवीत् ॥ २४ ॥
उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता ।मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ॥ २५ ॥
तथैव रामोऽश्रुमुखः कृताञ्जलिः स्थितोऽभवल्लक्ष्मणबाहुपालितः ।तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम् ॥ २६ ॥
« »