Click on words to see what they mean.

ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया ।सबाष्पमतिनिःश्वस्य जगादेदं पुनः पुनः ॥ १ ॥
सूत रत्नसुसंपूर्णा चतुर्विधबला चमूः ।रागवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ २ ॥
रूपाजीवा च शालिन्यो वणिजश्च महाधनाः ।शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ॥ ३ ॥
ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः ।तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ॥ ४ ॥
निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधु ।नदीश्च विविधाः पश्यन्न राज्यं संस्मरिष्यति ॥ ५ ॥
धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः ।तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ ६ ॥
यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः ।ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ ७ ॥
भरतश्च महाबाहुरयोध्यां पालयिष्यति ।सर्वकामैः पुनः श्रीमान्रामः संसाध्यतामिति ॥ ८ ॥
एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् ।मुखं चाप्यगमाच्छोषं स्वरश्चापि न्यरुध्यत ॥ ९ ॥
सा विषण्णा च संत्रस्ता कैकेयी वाक्यमब्रवीत् ।राज्यं गतजनं साधो पीतमण्डां सुरामिव ।निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ १० ॥
कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् ।राजा दशरथो वाक्यमुवाचायतलोचनाम् ।वहन्तं किं तुदसि मां नियुज्य धुरि माहिते ॥ ११ ॥
कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ।तवैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत् ।असमञ्ज इति ख्यातं तथायं गन्तुमर्हति ॥ १२ ॥
एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् ।व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत ॥ १३ ॥
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः ।शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥ १४ ॥
असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् ।सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥ १५ ॥
तं दृष्ट्वा नागरः सर्वे क्रुद्धा राजानमब्रुवन् ।असमञ्जं वृषीण्वैकमस्मान्वा राष्ट्रवर्धन ॥ १६ ॥
तानुवाच ततो राजा किंनिमित्तमिदं भयम् ।ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥ १७ ॥
क्रीडितस्त्वेष नः पुत्रान्बालानुद्भ्रान्तचेतनः ।सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते ॥ १८ ॥
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप ।तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥ १९ ॥
इत्येवमत्यजद्राजा सगरो वै सुधार्मिकः ।रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ २० ॥
श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः ।शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ २१ ॥
अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च ।सहैव राज्ञा भरतेन च त्वं यथा सुखं भुङ्क्ष्व चिराय राज्यम् ॥ २२ ॥
« »