Click on words to see what they mean.

स ददर्शासने रामो निषण्णं पितरं शुभे ।कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥ १ ॥
स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् ।ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥ २ ॥
रामेत्युक्त्वा च वचनं वाष्पपर्याकुलेक्षणः ।शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥ ३ ॥
तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् ।रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥ ४ ॥
इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम् ।निःश्वसन्तं महाराजं व्यथिताकुलचेतसं ॥ ५ ॥
ऊर्मि मालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् ।उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा ॥ ६ ॥
अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन् ।बभूव संरब्धतरः समुद्र इव पर्वणि ॥ ७ ॥
चिन्तयामास च तदा रामः पितृहिते रतः ।किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥ ८ ॥
अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति ।तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते ॥ ९ ॥
स दीन इव शोकार्तो विषण्णवदनद्युतिः ।कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥ १० ॥
कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता ।कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ॥ ११ ॥
विवर्णवदनो दीनो न हि मामभिभाषते ।शारीरो मानसो वापि कच्चिदेनं न बाधते ।संतापो वाभितापो वा दुर्लभं हि सदा सुखम् ॥ १२ ॥
कच्चिन्न किंचिद्भरते कुमारे प्रियदर्शने ।शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम् ॥ १३ ॥
अतोषयन्महाराजमकुर्वन्वा पितुर्वचः ।मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे ॥ १४ ॥
यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः ।कथं तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते ॥ १५ ॥
कच्चित्ते परुषं किंचिदभिमानात्पिता मम ।उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः ॥ १६ ॥
एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः ।किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥ १७ ॥
अहं हि वचनाद्राज्ञः पतेयमपि पावके ।भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ।नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ १८ ॥
तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् ।करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ १९ ॥
तमार्जवसमायुक्तमनार्या सत्यवादिनम् ।उवाच रामं कैकेयी वचनं भृशदारुणम् ॥ २० ॥
पुरा देवासुरे युद्धे पित्रा ते मम राघव ।रक्षितेन वरौ दत्तौ सशल्येन महारणे ॥ २१ ॥
तत्र मे याचितो राजा भरतस्याभिषेचनम् ।गमनं दण्डकारण्ये तव चाद्यैव राघव ॥ २२ ॥
यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि ।आत्मानं च नररेष्ठ मम वाक्यमिदं शृणु ॥ २३ ॥
स निदेशे पितुस्तिष्ठ यथा तेन प्रतिश्रुतम् ।त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ २४ ॥
सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः ।अभिषेकमिमं त्यक्त्वा जटाचीरधरो वस ॥ २५ ॥
भरतः कोसलपुरे प्रशास्तु वसुधामिमाम् ।नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम् ॥ २६ ॥
तदप्रियममित्रघ्नो वचनं मरणोपमम् ।श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ २७ ॥
एवमस्तु गमिष्यामि वनं वस्तुमहं त्वतः ।जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ २८ ॥
इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः ।नाभिनन्दति दुर्धर्षो यथापुरमरिंदमः ॥ २९ ॥
मन्युर्न च त्वया कार्यो देवि ब्रूहि तवाग्रतः ।यास्यामि भव सुप्रीता वनं चीरजटाधरः ॥ ३० ॥
हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च ।नियुज्यमानो विश्रब्धं किं न कुर्यादहं प्रियम् ॥ ३१ ॥
अलीकं मानसं त्वेकं हृदयं दहतीव मे ।स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ॥ ३२ ॥
अहं हि सीतां राज्यं च प्राणानिष्टान्धनानि च ।हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥ ३३ ॥
किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः ।तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ॥ ३४ ॥
तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः ।वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥ ३५ ॥
गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः ।भरतं मातुलकुलादद्यैव नृपशासनात् ॥ ३६ ॥
दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः ।अविचार्य पितुर्वाक्यं समावस्तुं चतुर्दश ॥ ३७ ॥
सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी ।प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ॥ ३८ ॥
एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः ।भरतं मातुलकुलादुपावर्तयितुं नराः ॥ ३९ ॥
तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् ।राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥ ४० ॥
व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते ।नैतत्किंचिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम् ॥ ४१ ॥
यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् ।पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा ॥ ४२ ॥
धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः ।मूर्छितो न्यपतत्तस्मिन्पर्यङ्के हेमभूषिते ॥ ४३ ॥
रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः ।कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ॥ ४४ ॥
तदप्रियमनार्याया वचनं दारुणोदरम् ।श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥ ४५ ॥
नाहमर्थपरो देवि लोकमावस्तुमुत्सहे ।विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥ ४६ ॥
यदत्रभवतः किंचिच्छक्यं कर्तुं प्रियं मया ।प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ ४७ ॥
न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम् ।यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ ४८ ॥
अनुक्तोऽप्यत्रभवता भवत्या वचनादहम् ।वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ ४९ ॥
न नूनं मयि कैकेयि किंचिदाशंससे गुणम् ।यद्राजानमवोचस्त्वं ममेश्वरतरा सती ॥ ५० ॥
यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् ।ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ॥ ५१ ॥
भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा ।तथा भवत्या कर्तव्यं स हि धर्मः सनातनः ॥ ५२ ॥
स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता ।शोकादशक्नुवन्बाष्पं प्ररुरोद महास्वनम् ॥ ५३ ॥
वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तदा ।कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः ॥ ५४ ॥
स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् ।निष्क्रम्यान्तःपुरात्तस्मात्स्वं ददर्श सुहृज्जनम् ॥ ५५ ॥
तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह ।लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः ॥ ५६ ॥
आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् ।शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन् ॥ ५७ ॥
न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति ।लोककान्तस्य कान्तत्वं शीतरश्मेरिव क्षपा ॥ ५८ ॥
न वनं गन्तुकामस्य त्यजतश्च वसुंधराम् ।सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥ ५९ ॥
धारयन्मनसा दुःखमिन्द्रियाणि निगृह्य च ।प्रविवेशात्मवान्वेश्म मातुरप्रियशंसिवान् ॥ ६० ॥
प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिमागताम् ।न चैव रामोऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया ॥ ६१ ॥
« »