Click on words to see what they mean.

रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः ।जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी ॥ १ ॥
सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् ।उपविष्टं गृहद्वारि तिष्ठतश्चापरान्बहून् ॥ २ ॥
प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः ।ब्राह्मणान्वेदसंपन्नान्वृद्धान्राज्ञाभिसत्कृतान् ॥ ३ ॥
प्रणम्य रामस्तान्वृद्धांस्तृतीयायां ददर्श सः ।स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः ॥ ४ ॥
वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः ।न्यवेदयन्त त्वरिता राम मातुः प्रियं तदा ॥ ५ ॥
कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता ।प्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी ॥ ६ ॥
सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा ।अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला ॥ ७ ॥
प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् ।ददर्श मातरं तत्र हावयन्तीं हुताशनम् ॥ ८ ॥
सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् ।अभिचक्राम संहृष्टा किशोरं वडवा यथा ॥ ९ ॥
तमुवाच दुराधर्षं राघवं सुतमात्मनः ।कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ १० ॥
वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् ।प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले ॥ ११ ॥
सत्यप्रतिज्ञं पितरं राजानं पश्य राघव ।अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ १२ ॥
मातरं राघवः किंचित्प्रसार्याञ्जलिमब्रवीत् ।स स्वभावविनीतश्च गौरवाच्च तदानतः ॥ १३ ॥
देवि नूनं न जानीषे महद्भयमुपस्थितम् ।इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥ १४ ॥
चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।मधुमूलफलैर्जीवन्हित्वा मुनिवदामिषम् ॥ १५ ॥
भरताय महाराजो यौवराज्यं प्रयच्छति ।मां पुनर्दण्डकारण्यं विवासयति तापसं ॥ १६ ॥
तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव ।रामस्तूत्थापयामास मातरं गतचेतसं ॥ १७ ॥
उपावृत्योत्थितां दीनां वडवामिव वाहिताम् ।पांशुगुण्ठितसर्वाग्नीं विममर्श च पाणिना ॥ १८ ॥
सा राघवमुपासीनमसुखार्ता सुखोचिता ।उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥ १९ ॥
यदि पुत्र न जायेथा मम शोकाय राघव ।न स्म दुःखमतो भूयः पश्येयमहमप्रजा ॥ २० ॥
एक एव हि वन्ध्यायाः शोको भवति मानवः ।अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते ॥ २१ ॥
न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे ।अपि पुत्रे विपश्येयमिति रामास्थितं मया ॥ २२ ॥
सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् ।अहं श्रोष्ये सपत्नीनामवराणां वरा सती ।अतो दुःखतरं किं नु प्रमदानां भविष्यति ॥ २३ ॥
त्वयि संनिहितेऽप्येवमहमासं निराकृता ।किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे ॥ २४ ॥
यो हि मां सेवते कश्चिदथ वाप्यनुवर्तते ।कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ॥ २५ ॥
दश सप्त च वर्षाणि तव जातस्य राघव ।अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् ॥ २६ ॥
उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः ।दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया ॥ २७ ॥
स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते ।प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ॥ २८ ॥
ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम ।यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव ॥ २९ ॥
स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नावदीर्यते ।अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते ॥ ३० ॥
इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि ।तपश्च तप्तं यदपत्यकारणात्सुनिष्फलं बीजमिवोप्तमूषरे ॥ ३१ ॥
यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद्गुरुदुःखकर्शितः ।गताहमद्यैव परेत संसदं विना त्वया धेनुरिवात्मजेन वै ॥ ३२ ॥
भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम् ।व्यसनमुपनिशाम्य सा महत्सुतमिव बद्धमवेक्ष्य किंनरी ॥ ३३ ॥
« »