ततः शिरसि कृत्वा तु पादुके भरतस्तदा ।आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥ १ ॥
वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः ।अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥ २ ॥
मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ ३ ॥
पश्यन्धातुसहस्राणि रम्याणि विविधानि च ।प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ ४ ॥
अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः ॥ ५ ॥
स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।अवतीर्य रथात्पादौ ववन्दे कुलनन्दनः ॥ ६ ॥
ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।अपि कृत्यं कृतं तात रामेण च समागतम् ॥ ७ ॥
एवमुक्तस्तु भरतो भरद्वाजेन धीमता ।प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः ॥ ८ ॥
स याच्यमानो गुरुणा मया च दृढविक्रमः ।राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ ९ ॥
पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः ।चतुर्दश हि वर्षाणि य प्रतिज्ञा पितुर्मम ॥ १० ॥
एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह ।वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ ११ ॥
एते प्रयच्छ संहृष्टः पादुके हेमभूषिते ।अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ १२ ॥
एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः ।पादुके हेमविकृते मम राज्याय ते ददौ ॥ १३ ॥
निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना ।अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ १४ ॥
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।भरद्वाजः शुभतरं मुनिर्वाक्यमुदाहरत् ॥ १५ ॥
नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।यदार्यं त्वयि तिष्ठेत्तु निम्ने वृष्टिमिवोदकम् ॥ १६ ॥
अमृतः स महाबाहुः पिता दशरथस्तव ।यस्य त्वमीदृशः पुत्रो धर्मात्मा धर्मवत्सलः ॥ १७ ॥
तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः ।आमन्त्रयितुमारेभे चरणावुपगृह्य च ॥ १८ ॥
ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः ।भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ॥ १९ ॥
यानैश्च शकटैश्चैव हयैश्नागैश्च सा चमूः ।पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २० ॥
ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।ददृशुस्तां पुनः सर्वे गङ्गां शिवजलां नदीम् ॥ २१ ॥
तां रम्यजलसंपूर्णां संतीर्य सह बान्धवः ।शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः ॥ २२ ॥
शृङ्गवेरपुराद्भूय अयोध्यां संददर्श ह ।भरतो दुःखसंतप्तः सारथिं चेदमब्रवीत् ॥ २३ ॥
सारथे पश्य विध्वस्ता अयोध्या न प्रकाशते ।निराकारा निरानन्दा दीना प्रतिहतस्वना ॥ २४ ॥