Click on words to see what they mean.

प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः ।चकार चरितं कृत्स्नं विचित्रपदमात्मवान् ॥ १ ॥
कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् ।चिन्तयामास को न्वेतत्प्रयुञ्जीयादिति प्रभुः ॥ २ ॥
तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः ।अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥ ३ ॥
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ॥ ४ ॥
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।वेदोपबृह्मणार्थाय तावग्राहयत प्रभुः ॥ ५ ॥
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।पौलस्त्य वधमित्येव चकार चरितव्रतः ॥ ६ ॥
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ।जातिभिः सप्तभिर्बद्धं तन्त्रीलयसमन्वितम् ॥ ७ ॥
हास्यशृङ्गारकारुण्यरौद्रवीरभयानकैः ।बीभत्सादिरसैर्युक्तं काव्यमेतदगायताम् ॥ ८ ॥
तौ तु गान्धर्वतत्त्वज्ञौ मूर्च्छनास्थानकोविदौ ।भ्रातरौ स्वरसंपन्नौ गन्धर्वाविव रूपिणौ ॥ ९ ॥
रूपलक्षणसंपन्नौ मधुरस्वरभाषिणौ ।बिम्बादिवोद्धृतौ बिम्बौ रामदेहात्तथापरौ ॥ १० ॥
तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् ।वाचो विधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥ ११ ॥
ऋषीणां च द्विजातीनां साधूनां च समागमे ।यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ ।महात्मानौ महाभागौ सर्वलक्षणलक्षितौ ॥ १२ ॥
तौ कदाचित्समेतानामृषीणां भावितात्मनाम् ।आसीनानां समीपस्थाविदं काव्यमगायताम् ॥ १३ ॥
तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ।साधु साध्वित्य्तावूचतुः परं विस्मयमागताः ॥ १४ ॥
ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ।प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ॥ १५ ॥
अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ।चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम् ॥ १६ ॥
प्रविश्य तावुभौ सुष्ठु तदा भावमगायताम् ।सहितौ मधुरं रक्तं संपन्नं स्वरसंपदा ॥ १७ ॥
एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महर्षिभिः ।संरक्ततरमत्यर्थं मधुरं तावगायताम् ॥ १८ ॥
प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ।प्रसन्नो वल्कलं कश्चिद्ददौ ताभ्यां महायशाः ॥ १९ ॥
आश्चर्यमिदमाख्यानं मुनिना संप्रकीर्तितम् ।परं कवीनामाधारं समाप्तं च यथाक्रमम् ॥ २० ॥
प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ ।रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ॥ २१ ॥
स्ववेश्म चानीय ततो भ्रातरौ सकुशीलवौ ।पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः ॥ २२ ॥
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ।उपोपविष्टैः सचिवैर्भ्रातृभिश्च परंतपः ॥ २३ ॥
दृष्ट्वा तु रूपसंपन्नौ तावुभौ वीणिनौ ततः ।उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ॥ २४ ॥
श्रूयतामिदमाख्यानमनयोर्देववर्चसोः ।विचित्रार्थपदं सम्यग्गायतोर्मधुरस्वरम् ॥ २५ ॥
इमौ मुनी पार्थिवलक्ष्मणान्वितौ कुशीलवौ चैव महातपस्विनौ ।ममापि तद्भूतिकरं प्रचक्षते महानुभावं चरितं निबोधत ॥ २६ ॥
ततस्तु तौ रामवचः प्रचोदितावगायतां मार्गविधानसंपदा ।स चापि रामः परिषद्गतः शनैर्बुभूषयासक्तमना बभूव ह ॥ २७ ॥
« »