Click on words to see what they mean.

तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा ।सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥ १ ॥
ततोऽब्रुवन्सुराः सर्वे भगवन्तं पितामहम् ।प्रणिपत्य शुभं वाक्यं सेन्द्राः साग्निपुरोगमाः ॥ २ ॥
यो नः सेनापतिर्देव दत्तो भगवता पुरा ।स तपः परमास्थाय तप्यते स्म सहोमया ॥ ३ ॥
यदत्रानन्तरं कार्यं लोकानां हितकाम्यया ।संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥ ४ ॥
देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।सान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥ ५ ॥
शैलपुत्र्या यदुक्तं तन्न प्रजास्यथ पत्निषु ।तस्या वचनमक्लिष्टं सत्यमेव न संशयः ॥ ६ ॥
इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः ।जनयिष्यति देवानां सेनापतिमरिंदमम् ॥ ७ ॥
ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् ।उमायास्तद्बहुमतं भविष्यति न संशयः ॥ ८ ॥
तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन ।प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥ ९ ॥
ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् ।अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥ १० ॥
देवकार्यमिदं देव समाधत्स्व हुताशन ।शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ॥ ११ ॥
देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः ।गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥ १२ ॥
इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् ।स तस्या महिमां दृष्ट्वा समन्तादवकीर्यत ॥ १३ ॥
समन्ततस्तदा देवीमभ्यषिञ्चत पावकः ।सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥ १४ ॥
तमुवाच ततो गङ्गा सर्वदेवपुरोहितम् ।अशक्ता धारणे देव तव तेजः समुद्धतम् ।दह्यमानाग्निना तेन संप्रव्यथितचेतना ॥ १५ ॥
अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ।इह हैमवते पादे गर्भोऽयं संनिवेश्यताम् ॥ १६ ॥
श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ।उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ ॥ १७ ॥
यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम् ।काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम् ॥ १८ ॥
ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत ।मलं तस्याभवत्तत्र त्रपुसीसकमेव च ॥ १९ ॥
तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥ २० ॥
निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् ।सर्वं पर्वतसंनद्धं सौवर्णमभवद्वनम् ॥ २१ ॥
जातरूपमिति ख्यातं तदा प्रभृति राघव ।सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् ॥ २२ ॥
तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः ।क्षीरसंभावनार्थाय कृत्तिकाः समयोजयन् ॥ २३ ॥
ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ।ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ॥ २४ ॥
ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् ।पुत्रस्त्रैलोक्य विख्यातो भविष्यति न संशयः ॥ २५ ॥
तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ।स्नापयन्परया लक्ष्म्या दीप्यमानमिवानलम् ॥ २६ ॥
स्कन्द इत्यब्रुवन्देवाः स्कन्नं गर्भपरिस्रवात् ।कार्तिकेयं महाभागं काकुत्स्थज्वलनोपमम् ॥ २७ ॥
प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ।षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥ २८ ॥
गृहीत्वा क्षीरमेकाह्ना सुकुमार वपुस्तदा ।अजयत्स्वेन वीर्येण दैत्यसैन्यगणान्विभुः ॥ २९ ॥
सुरसेनागणपतिं ततस्तममलद्युतिम् ।अभ्यषिञ्चन्सुरगणाः समेत्याग्निपुरोगमाः ॥ ३० ॥
एष ते राम गङ्गाया विस्तरोऽभिहितो मया ।कुमारसंभवश्चैव धन्यः पुण्यस्तथैव च ॥ ३१ ॥
« »