प्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वंसच्चित्सुखं परमहंसगतिं तुरीयम् ।यस्तु प्रजागरसुषुप्तमवैति नित्यंतद्ब्रह्म निष्कलमहं न च भूतसङ्घः ॥ १ ॥
प्रातर्भजामि मनसां वचसामगम्यंवाचो विभान्ति निखिला यदनुग्रहेण ।यत्रेति नेति वचनैर्निगमा अवोचं-स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ २ ॥
प्रातर्नमामि तमसः परमर्कवर्णंपूर्णं सनातनपदं पुरुषोत्तमाख्यम् ।यस्मिन्निदं जगदशेषमशेषमूर्तौरज्ज्वां भुजंगम इव प्रतिभासितं वै ॥ ३ ॥
श्लोकत्रयमिदं पुण्यंलोकत्रयविभूषणम् ।प्रातःकाले पठेद्यस्तुस गच्छेत्परमं पदम् ॥ ४ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रातःस्मरणस्तोत्रं संपूर्णम् ॥

Settings