स होवाच भगवान् ब्रह्मा नारायणाष्टाक्षरमन्त्रं व्याचष्टे । श्रीमन्नारायणस्य दशमन्त्राः कथ्यन्ते । ॐ नमो नारायणाय इत्यष्टाक्षरो मन्त्रः । स एव मन्त्रराजो भवति । एतन्नारायणस्य तारकं भवति । तदेवोपासितव्यं भवति । इत्युवाच भगवान्नारायणशब्दपरब्रह्मश्रीमहामायाप्रकृतिसर्वमेकजननीलक्ष्मीर्भवति । देवानां देवलक्ष्मीर्भवति । सिद्धानां सिद्धलक्ष्मीर्भवति । मुमुक्षूणां मोक्षलक्ष्मीर्भवति । योगिनां योगलक्ष्मीर्भवति । मुनीनां विवेकबुद्धिर्भवति । राज्ञां राज्यलक्ष्मीर्भवति । सृष्टिरूपा सरस्वती भवति । स्थितिरूपा महालक्ष्मीर्भवति । संहाररूपा रुद्राणी भवति । तिरोधानकरी पार्वती भवति । अनुग्रहरूपा उमा भवति । पञ्चकृत्यरूपा परमेश्वरी भवति । श्रीमहालक्ष्म्यै नम इति सप्ताक्षरो मन्त्रः ॥