Click on words to see what they mean.

पूर्वमेघः

कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।यक्षश् चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥
तस्मिन्न् अद्रौ कतिचिद् अबलाविप्रयुक्तः स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः ।आषाढस्य प्रथमदिवसे मेघम् आश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥
तस्य स्थित्वा कथम् अपि पुरः कौतुकाधानहेतोर् अन्तर्बाष्पश् चिरम् अनुचरो राजराजस्य दध्यौ ।मेघालोके भवति सुखिनो ऽप्य् अन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर् दूरसंस्थे ॥ ३ ॥
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ।स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥
धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।इत्य् औत्सुक्याद् अपरिगणयन् गुह्यकस् तं ययाचे कामार्ता हि प्रकृतिकृपणाश् चेतनाचेतएषु ॥ ५ ॥
जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर् गतो ऽहं याच्ञा मोघा वरम् अधिगुणे नाधमे लब्धकामा ॥ ६ ॥
संतप्तानां त्वमसि शरणं तत् पयोद प्रियायाः संदेशं मे हर धनपतिक्रोधविश्लेषितस्य ।गन्तव्या ते वसतिर् अलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७ ॥
त्वाम् आरूढं पवनपदवीम् उद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययाद् आश्वसन्त्यः ।कः संनद्धे विरहविधुरां त्वय्य् उपेक्षेत जायां न स्याद् अन्यो ऽप्य् अहम् इव जनो यः पराधीनवृत्तिः ॥ ८ ॥
त्वां चावश्यं दिवसगणनातत्पराम् एकपत्नीम् अव्यापन्नाम् अविहतगतिर् द्रक्ष्यसि भ्रातृजायाम् ।आशाबन्धः कुसुमसदृशं प्रायशो ह्य् अङ्गनानां सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ ९ ॥
मन्दं मन्दं नुदति पवनश् चानुकूलो यथा त्वां वामश् चायं नदति मधुरं चातकस् ते सगन्धः ।गर्भाधानक्षणपरिचयान् नूनम् आबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ १० ॥
कर्तुं यच् च प्रभवति महीम् उच्छिलीन्ध्राम् अवन्ध्यां तच् छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥
आपृच्छस्व प्रियसखम् अमुं तुङ्गम् आलिङ्ग्य शैलं वन्द्यैः पुंसां रघुपतिपदैर् अङ्कितं मेखलासु ।काले काले भवति भवतो यस्य संयोगम् एत्य स्नेहव्यक्तिश् चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १२ ॥
मर्गं तावच् छृणु कथयतस् त्वत्प्रयाणानुरूपं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् ।खिन्नः खिन्नः शिहरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ १३ ॥
अद्रेः शृङ्गं हरति पवनः किं स्विद् इत्य् उन्मुखीभिर् दृष्टोत्साहश् चकितचकितं मुग्धसिद्धाङ्गनाभिः ।स्थानाद् अस्मात् सरसनिचुलाद् उत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १४ ॥
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद् वल्मीकाग्रात् प्रभवति धनुःखण्डम् आखण्डलस्य ।येन श्यामं वपुर् अतितरां कान्तिम् आपत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥
त्वय्य् आयन्तं कृषिफलम् इति भ्रूविकारान् अभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।सद्यःसीरोत्कषणसुरभि क्षेत्रम् आरुह्य मालं किंचित् पश्चाद् व्रज लघुगतिर् भूय एवोत्तरेण ॥ १६ ॥
त्वाम् आसारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्य् अध्वश्रमपरिगतं सानुमान् आम्रकूटः ।न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर् यस् तत्थोच्चैः ॥ १७ ॥
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस् त्वय्य् आरूढे शिखरम् अचलः स्निग्धवेणीसवर्णे ।नूनं यास्यत्य् अमरमिथुनप्रेक्षणीयाम् अवस्थां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥
स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोत्सर्गद्रुततरगतिस् तत्परं वर्त्म तीर्णः ।रेवां द्रक्ष्यस्य् उपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैर् इव विरचितां भूतिम् अङ्गे गजस्य ॥ १९ ॥
तस्यास् तिक्तैर् वनगजमदैर् वासितं वान्तवृष्टिर् जम्बूकुञ्जप्रतिहतरयं तोयम् आदाय गच्छेः ।अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २० ॥
नीपं दृष्ट्वा हरितकपिशं केसरैर् अर्धरूढैर् आविर्भूतप्रथममुकुलाः कन्दलीश् चानुकच्छम् ।जग्ध्वारण्येष्व् अधिकसुरभिं गन्धम् आघ्राय चोर्व्याः सारङ्गास् ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २१ ॥
अम्भोबिन्दुग्रहणचतुरांश् चातकान् वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः ।त्वाम् आसाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २२ ॥
उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वेते ते ।शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रतुद्यातः कथम् अपि भवान् गन्तुम् आशु व्यवस्येत् ॥ २३ ॥
पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर् नीडारम्भैर् गृहबलिभुजाम् आकुलग्रामचैत्याः ।त्वय्य् आसन्ने परिणतफलश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २४ ॥
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फलम् अविकलं कामुकत्वस्य लब्धा ।तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात् सभ्रूभङ्गं मुखम् इव पयो वेत्रवत्याश् चलोर्मि ॥ २५ ॥
नीचैराख्यं गिरिम् अधिवसेस् तत्र विश्रामहेतोस् त्वत्सम्पर्कात् पुलकितम् इव प्रौढपुष्पैः कदम्बैः ।यः पुण्यस्त्रीरतिपरिमलोद्गारिभिर् नागराणाम् उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि ॥ २६ ॥
विश्रान्तः सन् व्रज वननदीतीरजानां निषिञ्चन्न् उद्यानानां नवजलकणैर् यूथिकाजाल्कानि ।गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २७ ॥
वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूर् उज्जयिन्याः ।विद्युद्दामस्फुरितचक्रितैस् तत्र पौराङ्गनानां लोलापाङ्गैर् यदि न रमसे लोचनैर् वञ्चितो ऽसि ॥ २८ ॥
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभः ।निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य स्त्रीणाम् आद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २९ ॥
वेणीभूतप्रतनुसलिला ताम् अतीतस्य सिन्धुः पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः ।सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ ३० ॥
प्राप्यावन्तीन् उदयनकथाकोविदग्रामवृद्धान् पूर्वोद्दिष्टाम् उपसर पुरीं श्रीविशालां विशालाम् ।स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैर् हृतम् इव दिवः कान्तिमत् खण्डम् एकम् ॥ ३१ ॥
दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।यत्र स्त्रीणां हरति सुरतग्लानिम् अङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३२ ॥
हारांस् तारांस् तरलगुटिकान् कोटिशः शङ्कशुक्तीः शष्पश्यामान् मरकतमणीन् उन्मयूखप्ररोहान् ।दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ्गान् संलक्ष्यन्ते सलिलनिधयस् तोयमात्रावशेषाः ॥ ३३ ॥
प्रद्योतस्य प्रियदुहितरं वत्सराजो ऽत्र जह्रे हैमं तालद्रुमवनम् अभूद् अत्र तस्यैव राज्ञः ।अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भम् उत्पाट्य दर्पाद् इत्य् आगन्तून् रमयति जनो यत्र बन्धून् अभिज्ञः ॥ ३४ ॥
जालोद्गीर्णैर् उपचितवपुः केशसंस्कारधूपैर् बन्धुप्रीत्या भवनशिख्जिभिर् दत्तनृत्योपहारः ।हर्म्येष्व् अस्याः कुसुमसुरभिष्व् अधवखेदं नयेथा लक्ष्मीं पश्यंल् ललितवनितापादरागाङ्कितेषु ॥ ३५ ॥
भर्तुः कण्ठच्छविर् इति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास् त्रिभुवनगुरोर् धाम चण्डीश्वरस्य ।धूतोद्यानं कुवलयरजोगन्धिभिर् गन्धवत्यास् तोयक्रीडानिरतयुवतिस्नानतिक्तैर् मरुद्भिः ॥ ३६ ॥
अप्य् अन्यस्मिञ् जलधर महाकालम् आसाद्य काले स्थातव्यं ते नयनविषयं यावद् अत्येति भानुः ।कुर्वन् सन्ध्यावलिपटहतां शूलिनः श्लाघनीयाम् आमन्द्राणां फलम् अविकलं लप्स्यसे गर्जितानाम् ॥ ३७ ॥
पादन्यासैः क्वणितरशनास् तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश् चामरैः क्लान्तहस्ताः ।वेश्यास् त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटक्षान् ॥ ३८ ॥
पश्चाद् उच्चैर्भुजतरुवनं मण्डलेनाभ्लीनः सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।नृत्तारम्भे हर पशुपतेर् आर्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर् भवान्या ॥ ३९ ॥
गच्छन्तीनां रमाणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस् तमोभिः ।सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं तोयोत्सर्गस्तनितमुहरो मा च भूर्विक्लवास्ताः ॥ ४० ॥
तां कस्यांचिद् भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः ।दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपतार्थकृत्याः ॥ ४१ ॥
तस्मिन् काले नयनसलिअं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिर् अतो वर्त्म भानोस् त्यजाशु ।प्रालेयास्त्रं कमलवदनात् सोऽपि हर्तुं नलिन्याःप्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पभ्यसूयः ॥ ४२ ॥
गम्भीरायाः पयसि सरितश् चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।तस्माद् अस्याः कुमुदविशदान्य् अर्हसि त्वं न धैर्यान् मोघीकर्तुं चटुलशफोरोद्वर्तनप्रेक्षितानि ॥ ४३ ॥
तस्याः किंचित् करधृतम् इव प्राप्त्वाईरशाखं हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।प्रस्थानं ते कथम् अपि सखे लम्बमानस्य भावि ज्ञातास्वादो विवृतजघनां को विहातुं समर्था ॥ ४४ ॥
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।नीचैर् वास्यत्य् उपजिगमिषोर् देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ४५ ॥
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः ।रक्षाहेतोर् नवशशिभृता वासवीनां चमूनाम् अत्यादित्यं हुतवहमुखे संभृतं तद् धि तेयः ॥ ४६ ॥
ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति ।धौतापाङ्गं हरशशिरुचा पावकेस् तं मयूरं पश्चाद् अद्रिग्रहणगुरुभिर् गर्जितैर् नर्तयेथाः ॥ ४७ ॥
आराद्यैनं शरवणभवं देवम् उल्लङ्घिताध्वा सिद्धद्वन्द्वैर् जलकणभयाद् वीणिभिर् मुक्तमार्गः ।व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४८ ॥
त्वय्य् आदातुं जलम् अवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुम् अपि तनुं दूरभावात् प्रवाहम् ।प्रेक्षिष्यन्ते गगनगतयो नूनम् आवर्ज्य दृष्टिर् एकं भुक्तागुणम् इव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४९ ॥
ताम् उत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपाद् उपरिविलसत्कृष्णशारप्रभाणाम् ।कुन्दक्षेपानुगमधुकरश्रीमुषाम् आत्मबिम्बं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥ ५० ॥
ब्रह्मावर्तं जनपदम् अथ च्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः ।राजन्यानां शितशरशतैर् यत्र गाण्डीवधन्वा धारापातैस् त्वम् इव कमलान्य् अभ्यवर्षन् मुखानि ॥ ५१ ॥
हित्वा हालाम् अभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे ।कृत्वा तासाम् अधिगमम् अपां सौम्य सारस्वतीनाम् अन्तः शुद्धस् त्वम् अपि भविता वर्णमात्रेण कृष्णः ॥ ५२ ॥
तस्माद् गच्छेर् अनुकनखलं शैलराजावतीर्णां जाह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणम् अकरोद् इन्दुलग्नोर्मिहस्ता ॥ ५३ ॥
तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी त्वं चेद् अच्छस्फटिकविशदं तर्कयेस् तिर्यग् अम्भः ।संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ स्याद् अस्थानोपगतयमुनासंगमेवाभिरामा ॥ ५४ ॥
आसीनानां सुरभितशिलं नाभिगन्धैर् मृगाणां तस्या एव प्रभवम् अचलं प्राप्य गौरं तुषारैः ।वक्ष्यस्य् अध्वश्रमविनयेन तस्य शृङ्गे निषण्णः शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयम् ॥ ५५ ॥
तं चेद् वायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः ।अर्हस्य् एनं शमयितुम् अलं वारिधारासहस्रैर् आपन्नार्तिप्रशमनफलाः संपदो ह्य् उत्तमानाम् ॥ ५६ ॥
ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन् मुक्ताध्वानं सपदि शरभा लङ्घयेयुर् भवन्तम् ।तान् कुर्वीथास् तुमुलकरकावृष्टिपातावकीर्णन् के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५७ ॥
तत्र व्यक्तं दृषदि चरणन्यासम् अर्धेन्दुमौलेः शश्वत् सिद्धैर् उपचितबलिं भक्तिनम्रः परीयाः ।यस्मिन् दृष्टे करणविगमाद् ऊर्ध्वम् उद्धूतपापाः कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५८ ॥
शब्दायन्ते मधुरम् अनिलैः कीचकाः पूर्यमाणाः संरक्ताभिस् त्रिपुरविजयो गीयते किंनराभिः ।निर्ह्रादस् ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात् संगीतार्थो ननु पशुपतेस् तत्र भावी समग्रः ॥ ५९ ॥
प्रालेयाद्रेर् उपतटम् अतिक्रम्य तांस् तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् ।तेनोदीचीं दिशम् अनुसरेस् तिर्यग् आयामशोभी श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ ६० ॥
गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ।शृङ्गोच्छ्रायैः कुमुदविशदैर् यो वितत्य स्थितः खं राशीभूतः प्रतिदिनम् इव त्र्यम्बकस्यट्टहासः ॥ ६१ ॥
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य ।शोभाम् अद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम् अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ६२ ॥
हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता क्रीडाशैले यदि च विचरेत् पादचारेण गौरी ।भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ ६३ ॥
तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।ताभ्यो मोक्षस् तव यदि सखे घर्मलब्धस्य न स्यात् क्रीडालोलाः श्रवणपरुषैर् गर्जितैर् भाययेस् ताः ॥ ६४ ॥
हेमाम्भोजप्रसवि सलिलं मानसस्याददानः कुर्वन् कामं क्षणमुखपटप्रीतिम् ऐरावतस्य ।धुन्वन् कल्पद्रुमकिसलयान् यंशुकानीव वातैर् नानाचेष्टैर् जलदललितैर् निर्विशेस् तं नगेन्द्रम् ॥ ६५ ॥
तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां न त्वं दृष्ट्वा न पुनर् अलकां ज्ञास्यसे कामचारिन् ।या वः काले वहति सलिलोद्गारम् उच्चैर् विमाना मुक्ताजालग्रथितम् अलकं कामिनीवाभ्रवृन्दम् ॥ ६६ ॥
« »