मणिकर्णिकाष्टकम्

त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौवादन्तौ कुरुतः परस्परमुभौ जन्तोः प्रयाणोत्सवे ।मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्तः शिवस्तत्क्षणा-त्तन्मध्याद्भृगुलाञ्छनो गरुडगः पीताम्बरो निर्गतः ॥
इन्द्राद्यास्त्रिदशाः पतन्ति नियतं भोगक्षये ये पुन-र्जायन्ते मनुजास्ततोपि पशवः कीटाः पतङ्गादयः ।ये मातर्मणिकर्णिके तव जले मज्जन्ति निष्कल्मषाःसायुज्येऽपि किरीटकौस्तुभधरा नारायणाः स्युर्नराः ॥
काशी धन्यतमा विमुक्तनगरी सालंकृता गङ्गयातत्रेयं मणिकर्णिका सुखकरी मुक्तिर्हि तत्किंकरी ।स्वर्लोकस्तुलितः सहैव विबुधैः काश्या समं ब्रह्मणाकाशी क्षोणितले स्थिता गुरुतरा स्वर्गे लघुत्वं गतः ॥
गङ्गातीरमनुत्तमं हि सकलं तत्रापि काश्युत्तमातस्यां सा मणिकर्णिकोत्तमतमा यत्रेश्वरो मुक्तिदः ।देवानामपि दुर्लभं स्थलमिदं पापौघनाशक्षमंपूर्वोपार्जितपुण्यपुञ्चगमकं पुण्यैर्जनैः प्राप्यते ॥ ४ ॥
दुःखाम्भोधिगतो हि जन्तुनिवहस्तेषां कथं निष्कृतिःज्ञात्वा तद्धि विरिञ्चिना विरचिता वाराणसी शर्मदा ।लोकाःस्वर्गसुखास्ततोऽपि लघवो भोगान्तपातप्रदाःकाशी मुक्तिपुरी सदा शिवकरी धर्मार्थमोक्षप्रदा ॥ ५ ॥
एको वेणुधरो धराधरधरः श्रीवत्सभूषाधरःयोऽप्येकः किल शंकरो विषधरो गङ्गाधरो माधवः ।ये मातर्मणिकर्णिके तव जले मज्जन्ति ते मानवाःरुद्रा वा हरयो भवन्ति बहवस्तेषां बहुत्वं कथम् ॥ ६ ॥
त्वत्तीरे मरणं तु मङ्गलकरं देवैरपि श्लाघ्यतेशक्रस्तं मनुजं सहस्रनयनैर्द्रष्टुं सदा तत्परः ।आयान्तं सविता सहस्रकिरणैः प्रत्युद्गतोऽभूत्सदापुण्योऽसौ वृषगोऽथवा गरुडगः किं मन्दिरं यास्यति ॥
मध्याह्ने मणिकर्णिकास्नपनजं पुण्यं न वक्तुं क्षमःस्वीयैरब्धशतैश्चतुर्मुखधरो वेदार्थदीक्षागुरुः ।योगाभ्यासबलेन चन्द्रशिखरस्तत्पुण्यपारंगत-स्त्वत्तीरे प्रकरोति सुप्तपुरुषं नारायणं वा शिवम् ॥ ८ ॥
कृच्छ्रैः कोटिशतैः स्वपापनिधनं यच्चाश्वमेधैः फलंतत्सर्वं मणिकर्णिकास्नपनजे पुण्ये प्रविष्टं भवेत् ।स्नात्वा स्तोत्रमिदं नरः पठति चेत्संसारपाथोनिधिंतीर्त्वा पल्वलवत्प्रयाति सदनं तेजोमयं ब्रह्मणः ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मणिकर्णिकाष्टकं संपूर्णम् ॥

Settings