Click on words to see what they mean.

संजय उवाच ।एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान् ।दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह ॥ १ ॥
दुर्योधन महाबाहो शृणु वाक्यविदां वर ।यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ ।न मे तुल्यावुभावेतौ बाहुवीर्ये कथंचन ॥ २ ॥
उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम् ।योधयेयं रणमुखे संक्रुद्धः किमु पाण्डवान् ।विजेष्ये च रणे पार्थान्सोमकांश्च समागतान् ॥ ३ ॥
अहं सेनाप्रणेता ते भविष्यामि न संशयः ।तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे ।इति सत्यं ब्रवीम्येष दुर्योधन न संशयः ॥ ४ ॥
एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा ।अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम ।विधिना शास्त्रदृष्टेन हृष्टरूपो विशां पते ॥ ५ ॥
अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत् ।तव सैन्येष्ववाद्यन्त वादित्राणि च भारत ॥ ६ ॥
हृष्टाश्चासंस्तदा योधा मद्रकाश्च महारथाः ।तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम् ॥ ७ ॥
जय राजंश्चिरं जीव जहि शत्रून्समागतान् ।तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः ।निखिलां पृथिवीं सर्वां प्रशासन्तु हतद्विषः ॥ ८ ॥
त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान् ।मर्त्यधर्माण इह तु किमु सोमकसृञ्जयान् ॥ ९ ॥
एवं संस्तूयमानस्तु मद्राणामधिपो बली ।हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः ॥ १० ॥
शल्य उवाच ।अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः ।निहनिष्यामि राजेन्द्र स्वर्गं यास्यामि वा हतः ॥ ११ ॥
अद्य पश्यन्तु मां लोका विचरन्तमभीतवत् ।अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः ॥ १२ ॥
पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः ।धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः ॥ १३ ॥
विक्रमं मम पश्यन्तु धनुषश्च महद्बलम् ।लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि ॥ १४ ॥
अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः ।यादृशं मे बलं बाह्वोः संपदस्त्रेषु या च मे ॥ १५ ॥
अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः ।प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः ॥ १६ ॥
अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः ।द्रोणभीष्मावति विभो सूतपुत्रं च संयुगे ।विचरिष्ये रणे युध्यन्प्रियार्थं तव कौरव ॥ १७ ॥
संजय उवाच ।अभिषिक्ते तदा शल्ये तव सैन्येषु मानद ।न कर्णव्यसनं किंचिन्मेनिरे तत्र भारत ॥ १८ ॥
हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः ।मेनिरे निहतान्पार्थान्मद्रराजवशं गतान् ॥ १९ ॥
प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ ।तां रात्रिं सुखिनी सुप्ता स्वस्थचित्तेव साभवत् ॥ २० ॥
सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः ।वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य शृण्वतः ॥ २१ ॥
मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव ।सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः ॥ २२ ॥
एतज्ज्ञात्वा यथाभूतं कुरु माधव यत्क्षमम् ।भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम् ॥ २३ ॥
तमब्रवीन्महाराज वासुदेवो जनाधिपम् ।आर्तायनिमहं जाने यथातत्त्वेन भारत ॥ २४ ॥
वीर्यवांश्च महातेजा महात्मा च विशेषतः ।कृती च चित्रयोधी च संयुक्तो लाघवेन च ॥ २५ ॥
यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे ।तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम ॥ २६ ॥
युध्यमानस्य तस्याजौ चिन्तयन्नेव भारत ।योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप ॥ २७ ॥
शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत ।धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे ॥ २८ ॥
मद्रराजो महाराज सिंहद्विरदविक्रमः ।विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव ॥ २९ ॥
तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे ।त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम् ॥ ३० ॥
सदेवलोके कृत्स्नेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत् ।मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन ।अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव ॥ ३१ ॥
तस्माज्जहि रणे शल्यं मघवानिव शम्बरम् ।अतिपश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः ॥ ३२ ॥
तवैव हि जयो नूनं हते मद्रेश्वरे युधि ।तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत् ॥ ३३ ॥
एतच्छ्रुत्वा महाराज वचनं मम सांप्रतम् ।प्रत्युद्याहि रणे पार्थ मद्रराजं महाबलम् ।जहि चैनं महाबाहो वासवो नमुचिं यथा ॥ ३४ ॥
न चैवात्र दया कार्या मातुलोऽयं ममेति वै ।क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम् ॥ ३५ ॥
भीष्मद्रोणार्णवं तीर्त्वा कर्णपातालसंभवम् ।मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम् ॥ ३६ ॥
यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव ।तद्दर्शय रणे सर्वं जहि चैनं महारथम् ॥ ३७ ॥
एतावदुक्त्वा वचनं केशवः परवीरहा ।जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः ॥ ३८ ॥
केशवे तु तदा याते धर्मराजो युधिष्ठिरः ।विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान् ।सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः ॥ ३९ ॥
ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा ।कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा ॥ ४० ॥
गतज्वरं महेष्वासं तीर्णपारं महारथम् ।बभूव पाण्डवेयानां सैन्यं प्रमुदितं निशि ।सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष ॥ ४१ ॥
« »