Click on words to see what they mean.

जनमेजय उवाच ।सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः ।कथं सिद्धश्च भगवान्कश्चास्य नियमोऽभवत् ॥ १ ॥
कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम ।एतदिच्छाम्यहं श्रोतुं विधिवद्द्विजसत्तम ॥ २ ॥
वैशंपायन उवाच ।राजन्सप्त सरस्वत्यो याभिर्व्याप्तमिदं जगत् ।आहूता बलवद्भिर्हि तत्र तत्र सरस्वती ॥ ३ ॥
सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदा ।सरस्वती ओघवती सुवेणुर्विमलोदका ॥ ४ ॥
पितामहस्य महतो वर्तमाने महीतले ।वितते यज्ञवाटे वै समेतेषु द्विजातिषु ॥ ५ ॥
पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा ।देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा ॥ ६ ॥
तत्र चैव महाराज दीक्षिते प्रपितामहे ।यजतस्तत्र सत्रेण सर्वकामसमृद्धिना ॥ ७ ॥
मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा ।उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्र तत्र ह ॥ ८ ॥
जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः ।वादित्राणि च दिव्यानि वादयामासुरञ्जसा ॥ ९ ॥
तस्य यज्ञस्य संपत्त्या तुतुषुर्देवता अपि ।विस्मयं परमं जग्मुः किमु मानुषयोनयः ॥ १० ॥
वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे ।अब्रुवन्नृषयो राजन्नायं यज्ञो महाफलः ।न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती ॥ ११ ॥
तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम् ।पितामहेन यजता आहूता पुष्करेषु वै ।सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती ॥ १२ ॥
तां दृष्ट्वा मुनयस्तुष्टा वेगयुक्तां सरस्वतीम् ।पितामहं मानयन्तीं क्रतुं ते बहु मेनिरे ॥ १३ ॥
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती ।पितामहार्थं संभूता तुष्ट्यर्थं च मनीषिणाम् ॥ १४ ॥
नैमिषे मुनयो राजन्समागम्य समासते ।तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर ॥ १५ ॥
तत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः ।ते समागम्य मुनयः सस्मरुर्वै सरस्वतीम् ॥ १६ ॥
सा तु ध्याता महाराज ऋषिभिः सत्रयाजिभिः ।समागतानां राजेन्द्र सहायार्थं महात्मनाम् ।आजगाम महाभागा तत्र पुण्या सरस्वती ॥ १७ ॥
नैमिषे काञ्चनाक्षी तु मुनीनां सत्रयाजिनाम् ।आगता सरितां श्रेष्ठा तत्र भारत पूजिता ॥ १८ ॥
गयस्य यजमानस्य गयेष्वेव महाक्रतुम् ।आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती ॥ १९ ॥
विशालां तु गयेष्वाहुरृषयः संशितव्रताः ।सरित्सा हिमवत्पार्श्वात्प्रसूता शीघ्रगामिनी ॥ २० ॥
औद्दालकेस्तथा यज्ञे यजतस्तत्र भारत ।समेते सर्वतः स्फीते मुनीनां मण्डले तदा ॥ २१ ॥
उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः ।औद्दालकेन यजता पूर्वं ध्याता सरस्वती ॥ २२ ॥
आजगाम सरिच्छ्रेष्ठा तं देशमृषिकारणात् ।पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः ।मनोह्रदेति विख्याता सा हि तैर्मनसा हृता ॥ २३ ॥
सुवेणुरृषभद्वीपे पुण्ये राजर्षिसेविते ।कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः ।आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती ॥ २४ ॥
ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना ।समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती ॥ २५ ॥
दक्षेण यजता चापि गङ्गाद्वारे सरस्वती ।विमलोदा भगवती ब्रह्मणा यजता पुनः ।समाहूता ययौ तत्र पुण्ये हैमवते गिरौ ॥ २६ ॥
एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः ।सप्तसारस्वतं तीर्थं ततस्तत्प्रथितं भुवि ॥ २७ ॥
इति सप्त सरस्वत्यो नामतः परिकीर्तिताः ।सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् ॥ २८ ॥
शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः ।आपगामवगाढस्य राजन्प्रक्रीडितं महत् ॥ २९ ॥
दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत ।स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम् ।सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि ॥ ३० ॥
तद्रेतः स तु जग्राह कलशे वै महातपाः ।सप्तधा प्रविभागं तु कलशस्थं जगाम ह ।तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः ॥ ३१ ॥
वायुवेगो वायुबलो वायुहा वायुमण्डलः ।वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान् ।एवमेते समुत्पन्ना मरुतां जनयिष्णवः ॥ ३२ ॥
इदमन्यच्च राजेन्द्र शृण्वाश्चर्यतरं भुवि ।महर्षेश्चरितं यादृक्त्रिषु लोकेषु विश्रुतम् ॥ ३३ ॥
पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः श्रुतम् ।क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ।स वि शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥ ३४ ॥
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् ।प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥ ३५ ॥
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः ।विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप ।नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ॥ ३६ ॥
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह ।सुराणां हितकामार्थं महादेवोऽभ्यभाषत ॥ ३७ ॥
भो भो ब्राह्मण धर्मज्ञ किमर्थं नरिनर्त्सि वै ।हर्षस्थानं किमर्थं वै तवेदं मुनिसत्तम ।तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ॥ ३८ ॥
ऋषिरुवाच ।किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् ।यं दृष्ट्वा वै प्रनृत्तोऽहं हर्षेण महता विभो ॥ ३९ ॥
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् ।अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् ॥ ४० ॥
एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता ।अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽभवत् ॥ ४१ ॥
ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम् ।तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ॥ ४२ ॥
ऋषिरुवाच ।नान्यं देवादहं मन्ये रुद्रात्परतरं महत् ।सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥ ४३ ॥
त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः ।त्वामेव सर्वं विशति पुनरेव युगक्षये ॥ ४४ ॥
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ।त्वयि सर्वे स्म दृश्यन्ते सुरा ब्रह्मादयोऽनघ ॥ ४५ ॥
सर्वस्त्वमसि देवानां कर्ता कारयिता च ह ।त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ॥ ४६ ॥
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत् ।भगवंस्त्वत्प्रसादाद्वै तपो मे न क्षरेदिति ॥ ४७ ॥
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत् ।तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ।आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा ॥ ४८ ॥
सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः ।न तस्य दुर्लभं किंचिद्भवितेह परत्र च ।सारस्वतं च लोकं ते गमिष्यन्ति न संशयः ॥ ४९ ॥
एतन्मङ्कणकस्यापि चरितं भूरितेजसः ।स हि पुत्रः सजन्यायामुत्पन्नो मातरिश्वना ॥ ५० ॥
« »