Click on words to see what they mean.

वैशंपायन उवाच ।उषित्वा तत्र रामस्तु संपूज्याश्रमवासिनः ।तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः ॥ १ ॥
दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च ।पूजितो मुनिसंघैश्च प्रातरुत्थाय लाङ्गली ॥ २ ॥
अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत ।प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः ॥ ३ ॥
तत औशनसं तीर्थमाजगाम हलायुधः ।कपालमोचनं नाम यत्र मुक्तो महामुनिः ॥ ४ ॥
महता शिरसा राजन्ग्रस्तजङ्घो महोदरः ।राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा ॥ ५ ॥
तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना ।यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः ।तत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम् ॥ ६ ॥
तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम् ।विधिवद्धि ददौ वित्तं ब्राह्मणानां महात्मनाम् ॥ ७ ॥
जनमेजय उवाच ।कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः ।मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना ॥ ८ ॥
वैशंपायन उवाच ।पुरा वै दण्डकारण्ये राघवेण महात्मना ।वसता राजशार्दूल राक्षसास्तत्र हिंसिताः ॥ ९ ॥
जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः ।क्षुरेण शितधारेण तत्पपात महावने ॥ १० ॥
महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया ।वने विचरतो राजन्नस्थि भित्त्वास्फुरत्तदा ॥ ११ ॥
स तेन लग्नेन तदा द्विजातिर्न शशाक ह ।अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ॥ १२ ॥
स पूतिना विस्रवता वेदनार्तो महामुनिः ।जगाम सर्वतीर्थानि पृथिव्यामिति नः श्रुतम् ॥ १३ ॥
स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः ।कथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥ १४ ॥
आप्लुतः सर्वतीर्थेषु न च मोक्षमवाप्तवान् ।स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् ॥ १५ ॥
सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा ।सर्वपापप्रशमनं सिद्धक्षेत्रमनुत्तमम् ॥ १६ ॥
स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः ।तत औशनसे तीर्थे तस्योपस्पृशतस्तदा ।तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा ॥ १७ ॥
ततः स विरुजो राजन्पूतात्मा वीतकल्मषः ।आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः ॥ १८ ॥
सोऽथ गत्वाश्रमं पुण्यं विप्रमुक्तो महातपाः ।कथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥ १९ ॥
ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद ।कपालमोचनमिति नाम चक्रुः समागताः ॥ २० ॥
तत्र दत्त्वा बहून्दायान्विप्रान्संपूज्य माधवः ।जगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा ॥ २१ ॥
यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत ।ब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः ॥ २२ ॥
ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः ।जगाम यत्र राजेन्द्र रुषङ्गुस्तनुमत्यजत् ॥ २३ ॥
रुषङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत ।देहन्यासे कृतमना विचिन्त्य बहुधा बहु ॥ २४ ॥
ततः सर्वानुपादाय तनयान्वै महातपाः ।रुषङ्गुरब्रवीत्तत्र नयध्वं मा पृथूदकम् ॥ २५ ॥
विज्ञायातीतवयसं रुषङ्गुं ते तपोधनाः ।तं वै तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम् ॥ २६ ॥
स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम् ।पुण्यां तीर्थशतोपेतां विप्रसंघैर्निषेविताम् ॥ २७ ॥
स तत्र विधिना राजन्नाप्लुतः सुमहातपाः ।ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः ।सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः ॥ २८ ॥
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् ।पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् ॥ २९ ॥
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः ।दत्त्वा चैव बहून्दायान्विप्राणां विप्रवत्सलः ॥ ३० ॥
ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः ।यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः ।तपसा महता राजन्प्राप्तवानृषिसत्तमः ॥ ३१ ॥
सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः ।ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः ।महातपस्वी भगवानुग्रतेजा महातपाः ॥ ३२ ॥
तत्राजगाम बलवान्बलभद्रः प्रतापवान् ॥ ३३ ॥
« »