Click on words to see what they mean.

संजय उवाच ।श्रुत्वा च रथनिर्घोषं सिंहनादं च संयुगे ।अर्जुनः प्राह गोविन्दं शीघ्रं चोदय वाजिनः ॥ १ ॥
अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत् ।एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः ॥ २ ॥
आयान्तमश्वैर्हिमशङ्खवर्णैः सुवर्णमुक्तामणिजालनद्धैः ।जम्भं जिघांसुं प्रगृहीतवज्रं जयाय देवेन्द्रमिवोग्रमन्युम् ॥ ३ ॥
रथाश्वमातङ्गपदातिसंघा बाणस्वनैर्नेमिखुरस्वनैश्च ।संनादयन्तो वसुधां दिशश्च क्रुद्धा नृसिंहा जयमभ्युदीयुः ॥ ४ ॥
तेषां च पार्थस्य महत्तदासीद्देहासुपाप्मक्षपणं सुयुद्धम् ।त्रैलोक्यहेतोरसुरैर्यथासीद्देवस्य विष्णोर्जयतां वरस्य ॥ ५ ॥
तैरस्तमुच्चावचमायुधौघमेकः प्रचिच्छेद किरीटमाली ।क्षुरार्धचन्द्रैर्निशितैश्च बाणैः शिरांसि तेषां बहुधा च बाहून् ॥ ६ ॥
छत्राणि वालव्यजनानि केतूनश्वान्रथान्पत्तिगणान्द्विपांश्च ।ते पेतुरुर्व्यां बहुधा विरूपा वातप्रभग्नानि यथा वनानि ॥ ७ ॥
सुवर्णजालावतता महागजाः सवैजयन्तीध्वजयोधकल्पिताः ।सुवर्णपुङ्खैरिषुभिः समाचिताश्चकाशिरे प्रज्वलिता यथाचलाः ॥ ८ ॥
विदार्य नागांश्च रथांश्च वाजिनः शरोत्तमैर्वासववज्रसंनिभैः ।द्रुतं ययौ कर्णजिघांसया तथा यथा मरुत्वान्बलभेदने पुरा ॥ ९ ॥
ततः स पुरुषव्याघ्रः सूतसैन्यमरिंदम ।प्रविवेश महाबाहुर्मकरः सागरं यथा ॥ १० ॥
तं दृष्ट्वा तावका राजन्रथपत्तिसमन्विताः ।गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन् ॥ ११ ॥
तत्राभिद्रवतां पार्थमारावः सुमहानभूत् ।सागरस्येव मत्तस्य यथा स्यात्सलिलस्वनः ॥ १२ ॥
ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः ।अभ्यद्रवन्त संग्रामे त्यक्त्वा प्राणकृतं भयम् ॥ १३ ॥
तेषामापततां तत्र शरवर्षाणि मुञ्चताम् ।अर्जुनो व्यधमत्सैन्यं महावातो घनानिव ॥ १४ ॥
तेऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणः ।अभियाय महेष्वासा विव्यधुर्निशितैः शरैः ॥ १५ ॥
ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम् ।प्रेषयामास विशिखैर्यमस्य सदनं प्रति ॥ १६ ॥
ते वध्यमानाः समरे पार्थचापच्युतैः शरैः ।तत्र तत्र स्म लीयन्ते भये जाते महारथाः ॥ १७ ॥
तेषां चतुःशतान्वीरान्यतमानान्महारथान् ।अर्जुनो निशितैर्बाणैरनयद्यमसादनम् ॥ १८ ॥
ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः ।अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो भयात् ॥ १९ ॥
तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे ।महौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः ॥ २० ॥
तां तु सेनां भृशं विद्ध्वा द्रावयित्वार्जुनः शरैः ।प्रायादभिमुखः पार्थः सूतानीकानि मारिष ॥ २१ ॥
तस्य शब्दो महानासीत्परानभिमुखस्य वै ।गरुडस्येव पततः पन्नगार्थे यथा पुरा ॥ २२ ॥
तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः ।बभूव परमप्रीतः पार्थदर्शनलालसः ॥ २३ ॥
श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान् ।त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह ॥ २४ ॥
स वायुवेगप्रतिमो वायुवेगसमो जवे ।वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान् ॥ २५ ॥
तेनार्द्यमाना राजेन्द्र सेना तव विशां पते ।व्यभ्राम्यत महाराज भिन्ना नौरिव सागरे ॥ २६ ॥
तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम् ।शरैरवचकर्तोग्रैः प्रेषयिष्यन्यमक्षयम् ॥ २७ ॥
तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम् ।व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये ॥ २८ ॥
तथार्दितान्भीमबलान्भीमसेनेन भारत ।दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत् ॥ २९ ॥
सैनिकान्स महेष्वासो योधांश्च भरतर्षभ ।समादिशद्रणे सर्वान्हत भीममिति स्म ह ।तस्मिन्हते हतं मन्ये सर्वसैन्यमशेषतः ॥ ३० ॥
प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः ।भीमं प्रच्छादयामासुः शरवर्षैः समन्ततः ॥ ३१ ॥
गजाश्च बहुला राजन्नराश्च जयगृद्धिनः ।रथा हयाश्च राजेन्द्र परिवव्रुर्वृकोदरम् ॥ ३२ ॥
स तैः परिवृतः शूरैः शूरो राजन्समन्ततः ।शुशुभे भरतश्रेष्ठ नक्षत्रैरिव चन्द्रमाः ॥ ३३ ॥
स रराज तथा संख्ये दर्शनीयो नरोत्तमः ।निर्विशेषं महाराज यथा हि विजयस्तथा ॥ ३४ ॥
तत्र ते पार्थिवाः सर्वे शरवृष्टीः समासृजन् ।क्रोधरक्तेक्षणाः क्रूरा हन्तुकामा वृकोदरम् ॥ ३५ ॥
स विदार्य महासेनां शरैः संनतपर्वभिः ।निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि ॥ ३६ ॥
हत्वा दश सहस्राणि गजानामनिवर्तिनाम् ।नृणां शतसहस्रे द्वे द्वे शते चैव भारत ॥ ३७ ॥
पञ्च चाश्वसहस्राणि रथानां शतमेव च ।हत्वा प्रास्यन्दयद्भीमो नदीं शोणितकर्दमाम् ॥ ३८ ॥
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् ।नरमीनामश्वनक्रां केशशैवलशाद्वलाम् ॥ ३९ ॥
संछिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम् ।ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमाकुलाम् ॥ ४० ॥
धनुष्काशां शरावापां गदापरिघकेतनाम् ।योधव्रातवतीं संख्ये वहन्तीं यमसादनम् ॥ ४१ ॥
क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम् ।यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः ॥ ४२ ॥
यतो यतः पाण्डवेयः प्रवृत्तो रथसत्तमः ।ततस्ततोऽपातयत योधाञ्शतसहस्रशः ॥ ४३ ॥
एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे ।दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत् ॥ ४४ ॥
जय मातुल संग्रामे भीमसेनं महाबलम् ।अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम् ॥ ४५ ॥
ततः प्रायान्महाराज सौबलेयः प्रतापवान् ।रणाय महते युक्तो भ्रातृभिः परिवारितः ॥ ४६ ॥
स समासाद्य संग्रामे भीमं भीमपराक्रमम् ।वारयामास तं वीरो वेलेव मकरालयम् ।स न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः ॥ ४७ ॥
शकुनिस्तस्य राजेन्द्र वामे पार्श्वे स्तनान्तरे ।प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान् ॥ ४८ ॥
वर्म भित्त्वा तु सौवर्णं बाणास्तस्य महात्मनः ।न्यमज्जन्त महाराज कङ्कबर्हिणवाससः ॥ ४९ ॥
सोऽतिविद्धो रणे भीमः शरं हेमविभूषितम् ।प्रेषयामास सहसा सौबलं प्रति भारत ॥ ५० ॥
तमायान्तं शरं घोरं शकुनिः शत्रुतापनः ।चिच्छेद शतधा राजन्कृतहस्तो महाबलः ॥ ५१ ॥
तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशां पते ।धनुश्चिच्छेद भल्लेन सौबलस्य हसन्निव ॥ ५२ ॥
तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान् ।अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ॥ ५३ ॥
तैस्तस्य तु महाराज भल्लैः संनतपर्वभिः ।चतुर्भिः सारथिं ह्यार्च्छद्भीमं पञ्चभिरेव च ॥ ५४ ॥
ध्वजमेकेन चिच्छेद छत्रं द्वाभ्यां विशां पते ।चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः ॥ ५५ ॥
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् ।शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम् ॥ ५६ ॥
सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला ।निपपात रथे तूर्णं सौबलस्य महात्मनः ॥ ५७ ॥
ततस्तामेव संगृह्य शक्तिं कनकभूषणाम् ।भीमसेनाय चिक्षेप क्रुद्धरूपो विशां पते ॥ ५८ ॥
सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः ।पपात च ततो भूमौ यथा विद्युन्नभश्च्युता ॥ ५९ ॥
अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः ।न तु तं ममृषे भीमः सिंहनादं तरस्विनाम् ॥ ६० ॥
स संगृह्य धनुः सज्यं त्वरमाणो महारथः ।मुहूर्तादिव राजेन्द्र छादयामास सायकैः ।सौबलस्य बलं संख्ये त्यक्त्वात्मानं महाबलः ॥ ६१ ॥
तस्याश्वांश्चतुरो हत्वा सूतं चैव विशां पते ।ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी ॥ ६२ ॥
हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः ।तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन् ।शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः ॥ ६३ ॥
प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान् ।धनुश्चिच्छेद संक्रुद्धो विव्याध च शितैः शरैः ॥ ६४ ॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ।निपपात ततो भूमौ किंचित्प्राणो नराधिप ॥ ६५ ॥
ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशां पते ।अपोवाह रथेनाजौ भीमसेनस्य पश्यतः ॥ ६६ ॥
रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाः ।प्रदुद्रुवुर्दिशो भीता भीमाज्जाते महाभये ॥ ६७ ॥
सौबले निर्जिते राजन्भीमसेनेन धन्विना ।भयेन महता भग्नः पुत्रो दुर्योधनस्तव ।अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति ॥ ६८ ॥
पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत ।विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः ॥ ६९ ॥
तान्दृष्ट्वातिरथान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।जवेनाभ्यपतद्भीमः किरञ्शरशतान्बहून् ॥ ७० ॥
ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः ।कर्णमासाद्य समरे स्थिता राजन्समन्ततः ।स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः ॥ ७१ ॥
भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः ।भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये ॥ ७२ ॥
तथा कर्णं समासाद्य तावका भरतर्षभ ।समाश्वस्ताः स्थिता राजन्संप्रहृष्टाः परस्परम् ।समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम् ॥ ७३ ॥
« »