Click on words to see what they mean.

संजय उवाच ।युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्बलम् ।उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥
युयुत्सुस्तु ततो राजञ्शितधारेण पत्रिणा ।उलूकं ताडयामास वज्रेणेन्द्र इवाचलम् ॥ २ ॥
उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे ।क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना ॥ ३ ॥
तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम् ।अन्यदादत्त सुमहच्चापं संरक्तलोचनः ॥ ४ ॥
शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ ।सारथिं त्रिभिरानर्छत्तं च भूयो व्यविध्यत ॥ ५ ॥
उलूकस्तं तु विंशत्या विद्ध्वा हेमविभूषितैः ।अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ॥ ६ ॥
स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः ।पपात प्रमुखे राजन्युयुत्सोः काञ्चनोज्ज्वलः ॥ ७ ॥
ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्छितः ।उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे ॥ ८ ॥
उलूकस्तस्य भल्लेन तैलधौतेन मारिष ।शिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम ॥ ९ ॥
जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः ।सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम् ॥ १० ॥
तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ ।पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः ॥ ११ ॥
शतानीकं महाराज श्रुतकर्मा सुतस्तव ।व्यश्वसूतरथं चक्रे निमेषार्धादसंभ्रमम् ॥ १२ ॥
हताश्वे तु रथे तिष्ठञ्शतानीको महाबलः ।गदां चिक्षेप संक्रुद्धस्तव पुत्रस्य मारिष ॥ १३ ॥
सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन् ।पपात धरणीं तूर्णं दारयन्तीव भारत ॥ १४ ॥
तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ ।अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम् ॥ १५ ॥
पुत्रस्तु तव संभ्रान्तो विवित्सो रथमाविशत् ।शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ॥ १६ ॥
सुतसोमस्तु शकुनिं विव्याध निशितैः शरैः ।नाकम्पयत संरब्धो वार्योघ इव पर्वतम् ॥ १७ ॥
सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् ।शरैरनेकसाहस्रैश्छादयामास भारत ॥ १८ ॥
ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः ।लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे ॥ १९ ॥
निवार्य समरे चापि शरांस्तान्निशितैः शरैः ।आजघान सुसंक्रुद्धः सुतसोमं त्रिभिः शरैः ॥ २० ॥
तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः ।स्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः ॥ २१ ॥
हताश्वो विरथश्चैव छिन्नधन्वा च मारिष ।धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत ।व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् ॥ २२ ॥
छादयामासुरथ ते तव स्यालस्य तं रथम् ।पतंगानामिव व्राताः शरव्राता महारथम् ॥ २३ ॥
रथोपस्थान्समीक्ष्यापि विव्यथे नैव सौबलः ।प्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महायशाः ॥ २४ ॥
तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः ।सुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेयमद्भुतम् ।रथस्थं नृपतिं तं तु पदातिः सन्नयोधयत् ॥ २५ ॥
तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिः ।व्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः ॥ २६ ॥
स च्छिन्नधन्वा समरे खड्गमुद्यम्य नानदन् ।वैडूर्योत्पलवर्णाभं हस्तिदन्तमयत्सरुम् ॥ २७ ॥
भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम् ।कालोपमं ततो मेने सुतसोमस्य धीमतः ॥ २८ ॥
सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः ।चतुर्विंशन्महाराज शिक्षाबलसमन्वितः ॥ २९ ॥
सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् ।तानापतत एवाशु चिच्छेद परमासिना ॥ ३० ॥
ततः क्रुद्धो महाराज सौबलः परवीरहा ।प्राहिणोत्सुतसोमस्य शरानाशीविषोपमान् ॥ ३१ ॥
चिच्छेद तांश्च खड्गेन शिक्षया च बलेन च ।दर्शयँल्लाघवं युद्धे तार्क्ष्यवीर्यसमद्युतिः ॥ ३२ ॥
तस्य संचरतो राजन्मण्डलावर्तने तदा ।क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् ॥ ३३ ॥
स च्छिन्नः सहसा भूमौ निपपात महानसिः ।अवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा ॥ ३४ ॥
छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् ।प्राविध्यत ततः शेषं सुतसोमो महारथः ॥ ३५ ॥
स च्छित्त्वा सगुणं चापं रणे तस्य महात्मनः ।पपात धरणीं तूर्णं स्वर्णवज्रविभूषितः ।सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् ॥ ३६ ॥
सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुःसहम् ।अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् ॥ ३७ ॥
तत्र नादो महानासीत्पाण्डवानां विशां पते ।सौबलं समरे दृष्ट्वा विचरन्तमभीतवत् ॥ ३८ ॥
तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च ।द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना ॥ ३९ ॥
यथा दैत्यचमूं राजन्देवराजो ममर्द ह ।तथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत् ॥ ४० ॥
धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे ।यथा दृप्तं वने नागं शरभो वारयेद्युधि ॥ ४१ ॥
निरुद्धः पार्षतस्तेन गौतमेन बलीयसा ।पदात्पदं विचलितुं नाशक्नोत्तत्र भारत ॥ ४२ ॥
गौतमस्य वपुर्दृष्ट्वा धृष्टद्युम्नरथं प्रति ।वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे ॥ ४३ ॥
तत्रावोचन्विमनसो रथिनः सादिनस्तथा ।द्रोणस्य निधने नूनं संक्रुद्धो द्विपदां वरः ॥ ४४ ॥
शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः ।अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् ॥ ४५ ॥
अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात् ।अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् ॥ ४६ ॥
यादृशं दृश्यते रूपमन्तकप्रतिमं भृशम् ।गमिष्यत्यद्य पदवीं भारद्वाजस्य संयुगे ॥ ४७ ॥
आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि ।अस्त्रवान्वीर्यसंपन्नः क्रोधेन च समन्वितः ॥ ४८ ॥
पार्षतश्च भृशं युद्धे विमुखोऽद्यापि लक्ष्यते ।इत्येवं विविधा वाचस्तावकानां परैः सह ॥ ४९ ॥
विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृप ।पार्षतं छादयामास निश्चेष्टं सर्वमर्मसु ॥ ५० ॥
स वध्यमानः समरे गौतमेन महात्मना ।कर्तव्यं न प्रजानाति मोहितः परमाहवे ॥ ५१ ॥
तमब्रवीत्ततो यन्ता कच्चित्क्षेमं नु पार्षत ।ईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन ॥ ५२ ॥
दैवयोगात्तु ते बाणा नातरन्मर्मभेदिनः ।प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः ॥ ५३ ॥
व्यावर्तये तत्र रथं नदीवेगमिवार्णवात् ।अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः ॥ ५४ ॥
धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः ।मुह्यते मे मनस्तात गात्रे स्वेदश्च जायते ॥ ५५ ॥
वेपथुं च शरीरे मे रोमहर्षं च पश्य वै ।वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽच्युतः ॥ ५६ ॥
अर्जुनं भीमसेनं वा समरे प्राप्य सारथे ।क्षेममद्य भवेद्यन्तरिति मे नैष्ठिकी मतिः ॥ ५७ ॥
ततः प्रायान्महाराज सारथिस्त्वरयन्हयान् ।यतो भीमो महेष्वासो युयुधे तव सैनिकैः ॥ ५८ ॥
प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष ।किरञ्शरशतान्येव गौतमोऽनुययौ तदा ॥ ५९ ॥
शङ्खं च पूरयामास मुहुर्मुहुररिंदमः ।पार्षतं प्राद्रवद्यन्तं महेन्द्र इव शम्बरम् ॥ ६० ॥
शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् ।हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः ॥ ६१ ॥
शिखण्डी च समासाद्य हृदिकानां महारथम् ।पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समार्दयत् ॥ ६२ ॥
कृतवर्मा तु संक्रुद्धो भित्त्वा षष्टिभिराशुगैः ।धनुरेकेन चिच्छेद हसन्राजन्महारथः ॥ ६३ ॥
अथान्यद्धनुरादाय द्रुपदस्यात्मजो बली ।तिष्ठ तिष्ठेति संक्रुद्धो हार्दिक्यं प्रत्यभाषत ॥ ६४ ॥
ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान् ।प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः ॥ ६५ ॥
वितथांस्तान्समालक्ष्य पतितांश्च महीतले ।क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली ॥ ६६ ॥
अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम् ।अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्दयत् ॥ ६७ ॥
कृतवर्मा तु संक्रुद्धो मार्गणैः कृतविक्षतः ।धनुरन्यत्समादाय समार्गणगणं प्रभो ।शिखण्डिनं बाणवरैः स्कन्धदेशेऽभ्यताडयत् ॥ ६८ ॥
स्कन्धदेशे स्थितैर्बाणैः शिखण्डी च रराज ह ।शाखाप्रतानैर्विमलैः सुमहान्स यथा द्रुमः ॥ ६९ ॥
तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ ।अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव ॥ ७० ॥
अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ ।रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः ॥ ७१ ॥
कृतवर्मा महाराज पार्षतं निशितैः शरैः ।रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥ ७२ ॥
ततोऽस्य समरे बाणं भोजः प्रहरतां वरः ।जीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः ॥ ७३ ॥
स तेनाभिहतो राजन्मूर्छामाशु समाविशत् ।ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः ॥ ७४ ॥
अपोवाह रणात्तं तु सारथी रथिनां वरम् ।हार्दिक्यशरसंतप्तं निःश्वसन्तं पुनः पुनः ॥ ७५ ॥
पराजिते ततः शूरे द्रुपदस्य सुते प्रभो ।प्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः ॥ ७६ ॥
« »