Click on words to see what they mean.

वैशंपायन उवाच ।ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः ।भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन् ॥ १ ॥
ते द्रोणमुपशोचन्तः कश्मलाभिहतौजसः ।पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम् ॥ २ ॥
मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः ।रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे ॥ ३ ॥
विशेषतः सूतपुत्रो राजा चैव सुयोधनः ।दुःशासनोऽथ शकुनिर्न निद्रामुपलेभिरे ॥ ४ ॥
ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम् ।चिन्तयन्तः क्षयं तीव्रं निद्रां नैवोपलेभिरे ॥ ५ ॥
सहितास्ते निशायां तु दुर्योधननिवेशने ।अतिप्रचण्डाद्विद्वेषात्पाण्डवानां महात्मनाम् ॥ ६ ॥
यत्तद्द्यूतपरिक्लिष्टां कृष्णामानिन्यिरे सभाम् ।तत्स्मरन्तोऽन्वतप्यन्त भृशमुद्विग्नचेतसः ॥ ७ ॥
चिन्तयन्तश्च पार्थानां तान्क्लेशान्द्यूतकारितान् ।कृच्छ्रेण क्षणदां राजन्निन्युरब्दशतोपमाम् ॥ ८ ॥
ततः प्रभाते विमले स्थिता दिष्टस्य शासने ।चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा ॥ ९ ॥
ते कृत्वावश्यकार्याणि समाश्वस्य च भारत ।योगमाज्ञापयामासुर्युद्धाय च विनिर्ययुः ॥ १० ॥
कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः ।वाचयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः ॥ ११ ॥
निष्कैर्गोभिर्हिरण्येन वासोभिश्च महाधनैः ।वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः ॥ १२ ॥
तथैव पाण्डवा राजन्कृतसर्वाह्णिकक्रियाः ।शिबिरान्निर्ययू राजन्युद्धाय कृतनिश्चयाः ॥ १३ ॥
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ।कुरूणां पाण्डवानां च परस्परवधैषिणाम् ॥ १४ ॥
तयोर्द्वे दिवसे युद्धं कुरुपाण्डवसेनयोः ।कर्णे सेनापतौ राजन्नभूदद्भुतदर्शनम् ॥ १५ ॥
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः ।पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः ॥ १६ ॥
ततस्तत्संजयः सर्वं गत्वा नागाह्वयं पुरम् ।आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले ॥ १७ ॥
जनमेजय उवाच ।आपगेयं हतं श्रुत्वा द्रोणं च समरे परैः ।यो जगाम परामार्तिं वृद्धो राजाम्बिकासुतः ॥ १८ ॥
स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम् ।कथं द्विजवर प्राणानधारयत दुःखितः ॥ १९ ॥
यस्मिञ्जयाशां पुत्राणाममन्यत स पार्थिवः ।तस्मिन्हते स कौरव्यः कथं प्राणानधारयत् ॥ २० ॥
दुर्मरं बत मन्येऽहं नृणां कृच्छ्रेऽपि वर्तताम् ।यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः ॥ २१ ॥
तथा शांतनवं वृद्धं ब्रह्मन्बाह्लिकमेव च ।द्रोणं च सोमदत्तं च भूरिश्रवसमेव च ॥ २२ ॥
तथैव चान्यान्सुहृदः पुत्रपौत्रांश्च पातितान् ।श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज ॥ २३ ॥
एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन ।न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ २४ ॥
वैशंपायन उवाच ।हते कर्णे महाराज निशि गावल्गणिस्तदा ।दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे ॥ २५ ॥
स हास्तिनपुरं गत्वा भृशमुद्विग्नमानसः ।जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम् ॥ २६ ॥
स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम् ।ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह ॥ २७ ॥
संपूज्य च यथान्यायं धृतराष्ट्रं महीपतिम् ।हा कष्टमिति चोक्त्वा स ततो वचनमाददे ॥ २८ ॥
संजयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान् ।स्वदोषेणापदं प्राप्य कच्चिन्नाद्य विमुह्यसि ॥ २९ ॥
हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः ।अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥ ३० ॥
रामनारदकण्वैश्च हितमुक्तं सभातले ।नगृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥ ३१ ॥
सुहृदस्त्वद्धिते युक्तान्भीष्मद्रोणमुखान्परैः ।निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥ ३२ ॥
तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम् ।सुदीर्घमभिनिःश्वस्य दुःखार्त इदमब्रवीत् ॥ ३३ ॥
गाङ्गेये निहते शूरे दिव्यास्त्रवति संजय ।द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः ॥ ३४ ॥
यो रथानां सहस्राणि दंशितानां दशैव हि ।अहन्यहनि तेजस्वी निजघ्ने वसुसंभवः ॥ ३५ ॥
स हतो यज्ञसेनस्य पुत्रेणेह शिखण्डिना ।पाण्डवेयाभिगुप्तेन भृशं मे व्यथितं मनः ॥ ३६ ॥
भार्गवः प्रददौ यस्मै परमास्त्रं महात्मने ।साक्षाद्रामेण यो बाल्ये धनुर्वेद उपाकृतः ॥ ३७ ॥
यस्य प्रसादात्कौन्तेया राजपुत्रा महाबलाः ।महारथत्वं संप्राप्तास्तथान्ये वसुधाधिपाः ॥ ३८ ॥
तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे ।सत्यसंधं महेष्वासं भृशं मे व्यथितं मनः ॥ ३९ ॥
त्रैलोक्ये यस्य शास्त्रेषु न पुमान्विद्यते समः ।तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः ॥ ४० ॥
संशप्तकानां च बले पाण्डवेन महात्मना ।धनंजयेन विक्रम्य गमिते यमसादनम् ॥ ४१ ॥
नारायणास्त्रे निहते द्रोणपुत्रस्य धीमतः ।हतशेषेष्वनीकेषु किमकुर्वत मामकाः ॥ ४२ ॥
विप्रद्रुतानहं मन्ये निमग्नः शोकसागरे ।प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे ॥ ४३ ॥
दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः ।मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च ॥ ४४ ॥
मत्पुत्रशेषस्य तथा तथान्येषां च संजय ।विप्रकीर्णेष्वनीकेषु मुखवर्णोऽभवत्कथम् ॥ ४५ ॥
एतत्सर्वं यथा वृत्तं तत्त्वं गावल्गणे रणे ।आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः ॥ ४६ ॥
संजय उवाच ।पाण्डवेयैर्हि यद्वृत्तं कौरवेयेषु मारिष ।तच्छ्रुत्वा मा व्यथां कार्षीर्दिष्टे न व्यथते मनः ॥ ४७ ॥
यस्मादभावी भावी वा भवेदर्थो नरं प्रति ।अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्व्यथते बुधः ॥ ४८ ॥
धृतराष्ट्र उवाच ।न व्यथा शृण्वतः काचिद्विद्यते मम संजय ।दिष्टमेतत्पुरा मन्ये कथयस्व यथेच्छकम् ॥ ४९ ॥
« »