Click on words to see what they mean.

धृतराष्ट्र उवाच ।तस्मिन्नतिरथे द्रोणे निहते तत्र संजय ।मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् ॥ १ ॥
संजय उवाच ।तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै ।कौरवेषु च भग्नेषु कुन्तीपुत्रो धनंजयः ॥ २ ॥
दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् ।यदृच्छयागतं व्यासं पप्रच्छ भरतर्षभ ॥ ३ ॥
संग्रामे निघ्नतः शत्रूञ्शरौघैर्विमलैरहम् ।अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ॥ ४ ॥
ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते ।तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने ॥ ५ ॥
न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति ।शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा ॥ ६ ॥
तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः ।तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम् ॥ ७ ॥
भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः ।शूलपाणिर्महान्कृष्ण तेजसा सूर्यसंनिभः ॥ ८ ॥
व्यास उवाच ।प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम् ।भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ॥ ९ ॥
ईशानं वरदं पार्थ दृष्टवानसि शंकरम् ।तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम् ॥ १० ॥
महादेवं महात्मानमीशानं जटिलं शिवम् ।त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् ।दातारं चैव भक्तानां प्रसादविहितान्वरान् ॥ ११ ॥
तस्य ते पार्षदा दिव्या रूपैर्नानाविधैः विभोः ।वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः ॥ १२ ॥
महाकाया महोत्साहा महाकर्णास्तथापरे ।आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ॥ १३ ॥
ईदृशैः स महादेवः पूज्यमानो महेश्वरः ।स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ।तस्मिन्घोरे तदा पार्थ संग्रामे लोमहर्षणे ॥ १४ ॥
द्रोणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः ।कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् ।ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥ १५ ॥
स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते ।न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ १६ ॥
गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः ।विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥ १७ ॥
तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि ।ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ॥ १८ ॥
ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् ।इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥ १९ ॥
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा ।रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥ २० ॥
कपर्दिने करालाय हर्यक्ष्णे वरदाय च ।याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च ॥ २१ ॥
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च ।हरिकेशाय मुण्डाय कृशायोत्तरणाय च ॥ २२ ॥
भास्कराय सुतीर्थाय देवदेवाय रंहसे ।बहुरूपाय शर्वाय प्रियाय प्रियवाससे ॥ २३ ॥
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ।गिरिशाय प्रशान्ताय पतये चीरवाससे ॥ २४ ॥
हिरण्यबाहवे चैव उग्राय पतये दिशाम् ।पर्जन्यपतये चैव भूतानां पतये नमः ॥ २५ ॥
वृक्षाणां पतये चैव अपां च पतये तथा ।वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ॥ २६ ॥
स्रुवहस्ताय देवाय धन्विने भार्गवाय च ।बहुरूपाय विश्वस्य पतये चीरवाससे ॥ २७ ॥
सहस्रशिरसे चैव सहस्रनयनाय च ।सहस्रबाहवे चैव सहस्रचरणाय च ॥ २८ ॥
शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम् ।उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ।प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ॥ २९ ॥
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ।वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् ॥ ३० ॥
वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् ।वृषायुधं वृषशरं वृषभूतं महेश्वरम् ॥ ३१ ॥
महोदरं महाकायं द्वीपिचर्मनिवासिनम् ।लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ ३२ ॥
त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम् ।पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् ।प्रपद्ये शरणं देवं शरण्यं चीरवाससम् ॥ ३३ ॥
नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा ।सुवाससे नमो नित्यं सुव्रताय सुधन्विने ॥ ३४ ॥
स्रुवहस्ताय देवाय सुखधन्वाय धन्विने ।धन्वन्तराय धनुषे धन्वाचार्याय धन्विने ॥ ३५ ॥
उग्रायुधाय देवाय नमः सुरवराय च ।नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने ॥ ३६ ॥
नमोऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने ।नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ॥ ३७ ॥
वनस्पतीनां पतये नराणां पतये नमः ।अपां च पतये नित्यं यज्ञानां पतये नमः ॥ ३८ ॥
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च ।नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ॥ ३९ ॥
कर्माणि चैव दिव्यानि महादेवस्य धीमतः ।तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् ॥ ४० ॥
न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः ।सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः ॥ ४१ ॥
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा ।धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥ ४२ ॥
ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा ।विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥ ४३ ॥
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः ।बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः ॥ ४४ ॥
आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुंधरा ।पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः ॥ ४५ ॥
अन्धाश्च तमसा लोका न प्रकाशन्त संवृताः ।जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः ॥ ४६ ॥
चुक्रुशुर्भयभीताश्च शान्तिं चक्रुस्तथैव च ।ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः ॥ ४७ ॥
पूषाणमभ्यद्रवत शंकरः प्रहसन्निव ।पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥ ४८ ॥
ततो निश्चक्रमुर्देवा वेपमाना नताः स्म तम् ।पुनश्च संदधे दीप्तं देवानां निशितं शरम् ॥ ४९ ॥
रुद्रस्य यज्ञभागं च विशिष्टं ते न्वकल्पयन् ।भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ॥ ५० ॥
तेन चैवातिकोपेन स यज्ञः संधितस्तदा ।यत्ताश्चापि सुरा आसन्यत्ताश्चाद्यापि तं प्रति ॥ ५१ ॥
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि ।आयसं राजतं चैव सौवर्णमपरं महत् ॥ ५२ ॥
आयसं तारकाक्षस्य कमलाक्षस्य राजतम् ।सौवर्णं परमं ह्यासीद्विद्युन्मालिन एव च ॥ ५३ ॥
न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि ।अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥ ५४ ॥
ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः ।रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ।निपातयिष्यसे चैनानसुरान्भुवनेश्वर ॥ ५५ ॥
स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया ।अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् ॥ ५६ ॥
यदा त्रीणि समेतानि अन्तरिक्षे पुराणि वै ।त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥ ५७ ॥
पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् ।शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् ॥ ५८ ॥
बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः ।उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान् ॥ ५९ ॥
बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः ।स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः ॥ ६० ॥
न संबुबुधिरे चैनं देवास्तं भुवनेश्वरम् ।सप्रजापतयः सर्वे बालार्कसदृशप्रभम् ॥ ६१ ॥
अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महेश्वरम् ।अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः ॥ ६२ ॥
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः ।अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः ॥ ६३ ॥
तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः ।देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः ॥ ६४ ॥
स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित् ।स चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः ॥ ६५ ॥
स भवः स च पर्जन्यो महादेवः स चानघः ।स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ॥ ६६ ॥
स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि च ।मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः ॥ ६७ ॥
स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् ।सर्वासां देवतानां च धारयत्यवपुर्वपुः ॥ ६८ ॥
सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः ।शतधा सहस्रधा चैव तथा शतसहस्रधा ॥ ६९ ॥
ईदृशः स महादेवो भूयश्च भगवानजः ।न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः ॥ ७० ॥
सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् ।स मोचयति सुप्रीतः शरण्यः शरणागतान् ॥ ७१ ॥
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ।स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः ॥ ७२ ॥
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ।स चैव व्याहृते लोके मनुष्याणां शुभाशुभे ॥ ७३ ॥
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते ।महेश्वरश्च भूतानां महतामीश्वरश्च सः ॥ ७४ ॥
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् ।अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत ॥ ७५ ॥
एष चैव श्मशानेषु देवो वसति नित्यशः ।यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् ॥ ७६ ॥
अस्य दीप्तानि रूपाणि घोराणि च बहूनि च ।लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च ॥ ७७ ॥
नामधेयानि लोकेषु बहून्यत्र यथार्थवत् ।निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥ ७८ ॥
वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम् ।नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः ॥ ७९ ॥
स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः ।स विभुः स प्रभुर्देवो विश्वं व्याप्नुवते महत् ॥ ८० ॥
ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा ।प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् ॥ ८१ ॥
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः ।तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥ ८२ ॥
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् ।महयन्ति च लोकाश्च महेश्वर इति स्मृतः ॥ ८३ ॥
ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा ।लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् ॥ ८४ ॥
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः ।सुखी प्रीतश्च भवति प्रहृष्टश्चैव शंकरः ॥ ८५ ॥
यदस्य बहुधा रूपं भूतभव्यभवत्स्थितम् ।स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥ ८६ ॥
एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा ।क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः ॥ ८७ ॥
धूम्रं रूपं च यत्तस्य धूर्जटिस्तेन उच्यते ।विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥ ८८ ॥
तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः ।द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः ॥ ८९ ॥
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु ।शिवमिच्छन्मनुष्याणां तस्मादेश शिवः स्मृतः ॥ ९० ॥
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा ।यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥ ९१ ॥
दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् ।स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥ ९२ ॥
विषमस्थः शरीरेषु समश्च प्राणिनामिह ।स वायुर्विषमस्थेषु प्राणापानशरीरिषु ॥ ९३ ॥
पूजयेद्विग्रहं यस्तु लिङ्गं वापि समर्चयेत् ।लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥ ९४ ॥
ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः ।आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते ॥ ९५ ॥
तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः ।भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते ॥ ९६ ॥
ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया ।यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः ॥ ९७ ॥
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥ ९८ ॥
एष देवो महादेवो योऽसौ पार्थ तवाग्रतः ।संग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक् ॥ ९९ ॥
एष वै भगवान्देवः संग्रामे याति तेऽग्रतः ।येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः ॥ १०० ॥
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संज्ञितम् ।देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् ॥ १०१ ॥
सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम् ।सर्वपापप्रशमनं सर्वदुःखभयापहम् ॥ १०२ ॥
चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा ।विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते ॥ १०३ ॥
चरितं महात्मनो दिव्यं सांग्रामिकमिदं शुभम् ।पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ॥ १०४ ॥
भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा ।वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः ॥ १०५ ॥
गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः ।यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः ॥ १०६ ॥
संजय उवाच ।एवमुक्त्वार्जुनं संख्ये पराशरसुतस्तदा ।जगाम भरतश्रेष्ठ यथागतमरिंदम ॥ १०७ ॥
« »