Click on words to see what they mean.

संजय उवाच ।ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे ।श्रुतायुषमभिप्रेक्ष्य चोदयामास वाजिनः ॥ १ ॥
अभ्यधावत्ततो राजा श्रुतायुषमरिंदमम् ।विनिघ्नन्सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥ २ ॥
स संवार्य रणे राजा प्रेषितान्धर्मसूनुना ।शरान्सप्त महेष्वासः कौन्तेयाय समर्पयत् ॥ ३ ॥
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ।असूनिव विचिन्वन्तो देहे तस्य महात्मनः ॥ ४ ॥
पाण्डवस्तु भृशं विद्धस्तेन राज्ञा महात्मना ।रणे वराहकर्णेन राजानं हृदि विव्यधे ॥ ५ ॥
अथापरेण भल्लेन केतुं तस्य महात्मनः ।रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् ॥ ६ ॥
केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः ।पाण्डवं विशिखैस्तीक्ष्णै राजन्विव्याध सप्तभिः ॥ ७ ॥
ततः क्रोधात्प्रजज्वाल धर्मपुत्रो युधिष्ठिरः ।यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः ॥ ८ ॥
क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः ।प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत् ॥ ९ ॥
सर्वेषां चैव भूतानामिदमासीन्मनोगतम् ।त्रीँल्लोकानद्य संक्रुद्धो नृपोऽयं धक्ष्यतीति वै ॥ १० ॥
ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत् ।लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा ॥ ११ ॥
स च क्रोधसमाविष्टः सृक्किणी परिलेलिहन् ।दधारात्मवपुर्घोरं युगान्तादित्यसंनिभम् ॥ १२ ॥
ततः सर्वाणि सैन्यानि तावकानि विशां पते ।निराशान्यभवंस्तत्र जीवितं प्रति भारत ॥ १३ ॥
स तु धैर्येण तं कोपं संनिवार्य महायशाः ।श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः ॥ १४ ॥
अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे ।निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ॥ १५ ॥
सत्वरं चरणे राजंस्तस्य वाहान्महात्मनः ।निजघान शरैः क्षिप्रं सूतं च सुमहाबलः ॥ १६ ॥
हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस्तु पौरुषम् ।विप्रदुद्राव वेगेन श्रुतायुः समरे तदा ॥ १७ ॥
तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे ।दुर्योधनबलं राजन्सर्वमासीत्पराङ्मुखम् ॥ १८ ॥
एतत्कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः ।व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ॥ १९ ॥
चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् ।प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः ॥ २० ॥
संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि ।चेकितानं रणे यत्तं राजन्विव्याध पत्रिभिः ॥ २१ ॥
अथापरेण भल्लेन धनुश्चिच्छेद मारिष ।सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् ।हयांश्चास्यावधीद्राजन्नुभौ च पार्ष्णिसारथी ॥ २२ ॥
सोऽवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः ।स तया वीरघातिन्या गदया गदिनां वरः ।गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् ॥ २३ ॥
भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश ।ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम् ॥ २४ ॥
चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् ।गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः ॥ २५ ॥
तामापतन्तीं विमलामश्मगर्भां महागदाम् ।शरैरनेकसाहस्रैर्वारयामास गौतमः ॥ २६ ॥
चेकितानस्ततः खड्गं कोशादुद्धृत्य भारत ।लाघवं परमास्थाय गौतमं समुपाद्रवत् ॥ २७ ॥
गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम् ।वेगेन महता राजंश्चेकितानमुपाद्रवत् ॥ २८ ॥
तावुभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ ।निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं संततक्षतुः ॥ २९ ॥
निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ ।धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् ।मूर्छयाभिपरीताङ्गौ व्यायामेन च मोहितौ ॥ ३० ॥
ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तया ।चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम् ।रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः ॥ ३१ ॥
तथैव शकुनिः शूरः स्यालस्तव विशां पते ।आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् ॥ ३२ ॥
सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर्महाबलः ।नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि ॥ ३३ ॥
सौमदत्तिरुरःस्थैस्तैर्भृशं बाणैरशोभत ।मध्यंदिने महाराज रश्मिभिस्तपनो यथा ॥ ३४ ॥
भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् ।हतसूतहयं चक्रे विरथं सायकोत्तमैः ॥ ३५ ॥
विरथं चैनमालोक्य हताश्वं हतसारथिम् ।महता शरवर्षेण छादयामास संयुगे ॥ ३६ ॥
स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः ।आरुरोह ततो यानं शतानीकस्य मारिष ॥ ३७ ॥
चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा ।रथिनो हेमसंनाहाः सौभद्रमभिदुद्रुवुः ॥ ३८ ॥
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत ।शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ॥ ३९ ॥
विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे ।न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ॥ ४० ॥
ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः ।संवृतं समरे भीष्मं देवैरपि दुरासदम् ॥ ४१ ॥
प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव ।अभिमन्युं समुद्दिश्य बालमेकं महारथम् ।वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः ॥ ४२ ॥
चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः ।एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः ।यथा न हन्युर्नः सेनां तथा माधव चोदय ॥ ४३ ॥
एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा ।रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे ॥ ४४ ॥
निष्टानको महानासीत्तव सैन्यस्य मारिष ।यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति ॥ ४५ ॥
समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः ।सुशर्माणमथो राजन्निदं वचनमब्रवीत् ॥ ४६ ॥
जानामि त्वां युधि श्रेष्ठमत्यन्तं पूर्ववैरिणम् ।पर्यायस्याद्य संप्राप्तं फलं पश्य सुदारुणम् ।अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ॥ ४७ ॥
एवं संजल्पतस्तस्य बीभत्सोः शत्रुघातिनः ।श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः ।न चैनमब्रवीत्किंचिच्छुभं वा यदि वाशुभम् ॥ ४८ ॥
अभि गत्वार्जुनं वीरं राजभिर्बहुभिर्वृतः ।पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः ॥ ४९ ॥
परिवार्यार्जुनं संख्ये तव पुत्रैः सहानघ ।शरैः संछादयामास मेघैरिव दिवाकरम् ॥ ५० ॥
ततः प्रवृत्तः सुमहान्संग्रामः शोणितोदकः ।तावकानां च समरे पाण्डवानां च भारत ॥ ५१ ॥
« »