Click on words to see what they mean.

धृतराष्ट्र उवाच ।बहूनीह विचित्राणि द्वैरथानि स्म संजय ।पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ॥ १ ॥
न चैव मामकं कंचिद्धृष्टं शंससि संजय ।नित्यं पाण्डुसुतान्हृष्टानभग्नांश्चैव शंससि ॥ २ ॥
जीयमानान्विमनसो मामकान्विगतौजसः ।वदसे संयुगे सूत दिष्टमेतदसंशयम् ॥ ३ ॥
संजय उवाच ।यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः ।दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ॥ ४ ॥
गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् ।महोदधिगुणाभ्यासाल्लवणत्वं निगच्छति ॥ ५ ॥
तथा तत्पौरुषं राजंस्तावकानां महात्मनाम् ।प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे ॥ ६ ॥
घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् ।न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि ॥ ७ ॥
तवापराधात्सुमहान्सपुत्रस्य विशां पते ।पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः ॥ ८ ॥
आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप ।न हि रक्षन्ति राजानः सर्वार्थान्नापि जीवितम् ॥ ९ ॥
युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः ।चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः ॥ १० ॥
पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः ।तन्ममैकमना भूत्वा शृणु देवासुरोपमम् ॥ ११ ॥
आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ ।इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ ।तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् ॥ १२ ॥
इरावांस्तु सुसंक्रुद्धो भ्रातरौ देवरूपिणौ ।विव्याध निशितैस्तूर्णं शरैः संनतपर्वभिः ।तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ ॥ १३ ॥
युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत ।यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् ॥ १४ ॥
इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः ।चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ॥ १५ ॥
भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष ।चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् ॥ १६ ॥
त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः ।धनुर्गृहीत्वा नवमं भारसाधनमुत्तमम् ॥ १७ ॥
तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ ।शरान्मुमुचतुस्तूर्णमिरावति महात्मनि ॥ १८ ॥
ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः ।दिवाकरपथं प्राप्य छादयामासुरम्बरम् ॥ १९ ॥
इरावांस्तु ततः क्रुद्धो भ्रातरौ तौ महारथौ ।ववर्ष शरवर्षेण सारथिं चाप्यपातयत् ॥ २० ॥
तस्मिन्निपतिते भूमौ गतसत्त्वेऽथ सारथौ ।रथः प्रदुद्राव दिशः समुद्भ्रान्तहयस्ततः ॥ २१ ॥
तौ स जित्वा महाराज नागराजसुतासुतः ।पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् ॥ २२ ॥
सा वध्यमाना समरे धार्तराष्ट्री महाचमूः ।वेगान्बहुविधांश्चक्रे विषं पीत्वेव मानवः ॥ २३ ॥
हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् ।रथेनादित्यवर्णेन सध्वजेन महाबलः ॥ २४ ॥
ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः ।यथा वज्रधरः पूर्वं संग्रामे तारकामये ॥ २५ ॥
तत्र देवाः सगन्धर्वा ऋषयश्च समागताः ।विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः ॥ २६ ॥
यथा सुरपतिः शक्रस्त्रासयामास दानवान् ।तथैव समरे राजंस्त्रासयामास पाण्डवान् ॥ २७ ॥
तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम् ।त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत ॥ २८ ॥
भैमसेनिं रथस्थं तु तत्रापश्याम भारत ।शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ॥ २९ ॥
निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत ।आसीन्निष्टानको घोरस्तव सैन्येषु संयुगे ॥ ३० ॥
घटोत्कचस्ततो राजन्भगदत्तं महारणे ।शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः ॥ ३१ ॥
निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्च्युतान् ।भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् ॥ ३२ ॥
स ताड्यमानो बहुभिः शरैः संनतपर्वभिः ।न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः ॥ ३३ ॥
तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरान्स चतुर्दश ।प्रेषयामास समरे तांश्च चिच्छेद राक्षसः ॥ ३४ ॥
स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः ।भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ॥ ३५ ॥
ततः प्राग्ज्योतिषो राजन्प्रहसन्निव भारत ।तस्याश्वांश्चतुरः संख्ये पातयामास सायकैः ॥ ३६ ॥
स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् ।शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति ॥ ३७ ॥
तामापतन्तीं सहसा हेमदण्डां सुवेगिताम् ।त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम् ॥ ३८ ॥
शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् ।यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ॥ ३९ ॥
तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् ।अजेयं समरे राजन्यमेन वरुणेन च ॥ ४० ॥
पाण्डवीं समरे सेनां संममर्द सकुञ्जरः ।यथा वनगजो राजन्मृद्नंश्चरति पद्मिनीम् ॥ ४१ ॥
मद्रेश्वरस्तु समरे यमाभ्यां सह संगतः ।स्वस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ ॥ ४२ ॥
सहदेवस्तु समरे मातुलं वीक्ष्य संगतम् ।अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् ॥ ४३ ॥
छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् ।तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ॥ ४४ ॥
ततः प्रहस्य समरे नकुलस्य महारथः ।अश्वान्वै चतुरो राजंश्चतुर्भिः सायकोत्तमैः ।प्रेषयामास समरे यमस्य सदनं प्रति ॥ ४५ ॥
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।आरुरोह ततो यानं भ्रातुरेव यशस्विनः ॥ ४६ ॥
एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके ।मद्रराजरथं क्रुद्धौ छादयामासतुः क्षणात् ॥ ४७ ॥
स च्छाद्यमानो बहुभिः शरैः संनतपर्वभिः ।स्वस्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाचलः ।प्रहसन्निव तां चापि शरवृष्टिं जघान ह ॥ ४८ ॥
सहदेवस्ततः क्रुद्धः शरमुद्यम्य वीर्यवान् ।मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत ॥ ४९ ॥
स शरः प्रेषितस्तेन गरुत्मानिव वेगवान् ।मद्रराजं विनिर्भिद्य निपपात महीतले ॥ ५० ॥
स गाढविद्धो व्यथितो रथोपस्थे महारथः ।निषसाद महाराज कश्मलं च जगाम ह ॥ ५१ ॥
तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे ।अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् ॥ ५२ ॥
दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम् ।सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् ॥ ५३ ॥
निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौ ।दध्मतुर्मुदितौ शङ्खौ सिंहनादं विनेदतुः ॥ ५४ ॥
अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशां पते ।यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ ॥ ५५ ॥
« »